सामग्री पर जाएँ

यः सर्वत्रानभिस्नेहः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यः सर्वत्रानभिस्नेहः...


"किं प्रभाषेत" इत्यस्य उत्तरम् २
श्लोकसङ्ख्या २/५७
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः दुःखेष्वनुद्विग्नमनाः
अग्रिमश्लोकः यदा संहरते चायं

यः सर्वत्रानभिस्नेहः () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य द्वितीयप्रश्नस्य उत्तरं ददाति । पूर्वस्मिन् श्लोके स्थितप्रज्ञः कथं वदतीति उक्त्वा अस्मिन् श्लोकेऽपि स्थितप्रज्ञस्य लक्षणं वदति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥

पदच्छेदः[सम्पादयतु]

यः, सर्वत्र, अनभिस्नेहः, तत्, तत्, प्राप्य, शुभाशुभम् । न, अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः[सम्पादयतु]

यः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभम् प्राप्य न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

शब्दार्थः[सम्पादयतु]

यः यद्-द.सर्व.पुं.प्र.एक. यः पुरुषः
सर्वत्र अव्ययम् सर्वदा
अनभिस्नेहः अ.पुं.प्र.एक. अननुरागः
तत् तत् तद्-द.सर्व.नपुं.प्र.एक. तत् तत्
शुभाशुभम् अ.नपुं.द्वि.एक. साधु असाधु वा
प्राप्य ल्यबन्तम् अव्ययम् लब्ध्वा
अव्ययम्
अभिनन्दति अभि+√(टु)नदि समृद्धौ-पर.कर्तरि, लट्.प्रपु.एक प्रहृष्यति
अव्ययम्
द्वेष्टि द्विष् अप्रीतौ-पर.कर्तरि लट्.प्रपु.एक कलहायते
तस्य तद्-द.सर्व.पुं.ष.एक. तादृशस्य
प्रज्ञा आ.स्त्री.एक. बुद्धिः
प्रतिष्ठिता आ.स्त्री.एक. अतिस्थिरा ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. सर्वत्रानभिस्नेहः = सर्वत्र + अनभिस्नेहः - सवर्णदीर्घसन्धिः ।
  2. अनभिस्नेहस्तत् = अनभिस्नेहः + तत् – विसर्गसन्धिः (सकारः)
  3. नाभिनन्दति = न + अभिनन्दति – सवर्णदीर्घसन्धिः

समासः[सम्पादयतु]

  1. अनभिस्नेहः = न विद्यते अभिस्नेहः यस्य सः – नञ्-बहुव्रीहिः ।
  2. शुभाशुभम् = शुभं च अशुभं च अनयोः समाहारः – द्वन्द्वः ।

कृदन्तः[सम्पादयतु]

  1. प्राप्य = प्र + आप् + ल्यप् ।
  2. प्रतिष्ठिता = प्रति + स्था + क्त (कर्तरि)

तात्पर्यम्[सम्पादयतु]

स्थितप्रज्ञः देहजीवितादिषु सर्वत्र स्नेहरहितः भवति । सः शुभं प्राप्य न अभिनन्दति । अशुभं प्राप्य न द्वेष्टि । शुभाशुभयोः विषये सः निर्लिप्तः भवति ।

भाष्यार्थः[सम्पादयतु]

'यः सर्वत्रानभिस्नेहः' – यस्य सांसारिकवस्तुषु ममत्वं नास्ति । धनवैभवानां प्राप्तिः सर्वोपरितायाः, ततः धनवैभवानां नाशश्च सर्वस्वनाशस्य च बोधं जनयति इति वस्तुभिः सह एकात्मयुक्तः स्नेहः एव 'अभिस्नेहः' उच्यते । स्थितप्रज्ञस्य कर्मयोगिनः कस्मिँश्चित् वस्तुनि किञ्चिदपि अभिस्नेहः न भवति । वस्तु-व्यक्ति-पदार्थादीनां बाह्यसंयोगे सत्यपि आन्तरिकनिर्लिप्तता सर्वदा भवति ।

'तत्तत्प्राप्य शुभाशुभं नाभिनन्दति न द्वेष्टि' – यदा पूर्वप्रारब्धवशात् मनुष्यस्य जीवने अनुकूला, प्रतिकूला च परिस्थितिः उद्भवति, तदा सः अनुकूलपरिस्थितौ आनन्दितः, प्रतिकूलपरिस्थितौ दुःखी च न भवति । परन्तु यः साधकः परिस्थित्यनुसारम् आनन्दितः, दुःखी च न भवति, तस्य अन्तरं निर्लिप्तं भवति । 'तत्तत्' इत्यस्य तात्पर्यम् अस्ति यत्, साधकस्य जीवने याः अनूकूलाः, प्रतिकूलाः च परिस्थितयः समुद्भवन्ति, तासु परस्थितिषु कदापि साधकः हर्षद्वेषयुक्तः न भवति इति ।

'तस्य प्रज्ञा प्रतिष्ठिता' – तस्य बुद्धिः प्रतिष्ठता अर्थात् एकरूपा अस्ति । साधनावस्थायां तस्य या व्यवसायात्मिका बुद्धिः आसीत्, सा अधुना परमात्मनि निश्चला, अचला च अस्ति । तस्य बुद्धौ विवेकः पूर्णतया प्रबुद्धः अस्ति । तेन सः जानाति यत्, संसारे यत्किमपि प्रतिकूलमनुकूलं च जायमानम् अस्ति, तेन सह मम कोऽपि सम्बन्धः नास्ति इति । वस्तुतः भेदः शरीरे, इन्द्रियेषु, मनसि, स्वरूपे वा न भवति । किञ्च, स्वरूपस्य परिवर्तनं किञ्चिदपि न भवति । प्रकृतिः, प्रकृतेः कार्याणि च परिवर्तनशीलानि भवन्ति । अतः शरीरादिषु परिवर्तनं स्वाभाविकम् अस्ति । तत्र तु परिवर्तनं जायते एव । अतः तत्रापि परिवर्तनम् अभवत् इति वक्तुं न शक्यते । अर्थात् शरीरादिभिः स्वस्वभावः न त्यक्तः । स्वरूपेण स्वस्वभावः न त्यक्तः । तर्हि कस्य स्वभावे परिवर्तनम् अभवत् ? चेत्, बुद्धेः स्वभावे परिवर्तनम् अभवत् । शरीरादिभिः सह तादात्म्यस्य कारणेन यथा सांसारिकघटनानां प्रभावः बुद्धौ भवति स्म, तथा तादात्म्याभावे सांसारिकघटनानां, परिवर्तनस्य च प्रभावः बुद्धौ न भवति । एवं बुद्धिः प्रतिष्ठिता भवति ।

एतस्य द्वितीयायामः अपि अस्ति यत्, कस्यचित् मनुष्यस्य बुद्धिः यावती बलवती, तीव्रा वा स्यात्, परन्तु सा बुद्धिः परमात्मानं बुद्धेः, विचारस्य च स्तरे आनेतुं न शक्नोति । यतो हि बुद्धिः सीमिता अस्ति, परमात्मा च असीमितः । परन्तु तस्मिन् असीमिते परमात्मनि यदा बुद्धिः लीना भवति, तदा तस्यां सीमितायां बुद्धौ परमात्मानं विहाय किमपि न भवति । बुद्धेः तादृशी अवस्था एव प्रतिष्ठतावस्था उच्यते ।

मर्मः[सम्पादयतु]

कर्मयोगी क्रियाशीलः भवति । अतः भगवान् कर्मसिद्ध्यसिद्ध्ययोः निःस्पृहः, उद्वेगरहितश्च भवितुं कथयति [१] । तथा च प्रारब्धानुसारं सम्प्राप्तायाः परिस्थित्याः च अभिनन्दनं, द्वेषः च न कर्तव्यः इति अत्र उक्तवान् ।

शाङ्करभाष्यम् [२][सम्पादयतु]

किञ्च - यः सर्वत्रेति ।

यः  मुनिः  सर्वत्र  देहजीवितादिष्वपि  अनभिस्नेहः  अभिस्नेहवर्जितः  तत्तत् प्राप्य शुभाशुभं  तत्तत् शुभं अशुभं वा लब्ध्वा न अभिनन्दति न द्वेष्टि  शुभं प्राप्य न तुष्यति न हृष्यति अशुभं च प्राप्य न द्वेष्टि इत्यर्थः।  तस्य  एवं हर्षविषादवर्जितस्य विवेकजा  प्रज्ञा प्रतिष्ठिता  भवति।।

भाष्यार्थः[सम्पादयतु]

यः मनुष्यः सर्वत्र अर्थात् शरीरे ,जीवने च स्नेहरहितः जातः अस्ति, यः शुभाशुभं प्राप्यापि प्रसन्नः, द्वेषी च न भवति, तस्य विवेकविषादरहितस्य मनुष्यस्य विवेकजनिता बुद्धिः प्रतिष्ठिता भवति ।

रामानुजभाष्यम् [३][सम्पादयतु]

ततः अर्वाचीनदशा प्रोच्यते -

यः सर्वत्र  प्रियेषु  अनभिस्नेहः  उदासीनः प्रियसंश्लेषविश्लेषरूपं  शुभाशुभं प्राप्य  अभिनन्दनद्वेषरहितः सोऽपि स्थितप्रज्ञः।

भाष्यार्थः[सम्पादयतु]

आत्मतत्तवस्य या अर्वाचीना स्थितिः उक्ता, तस्याः अर्वाचीनायाः स्थितेः अपि अर्वाचीनाम् अर्थाद् तस्याः स्थितेः पूर्वतनीं स्थितिं वर्णयति –

यः सर्वत्र प्रियपदार्थेषु स्नेहरहितः अर्थाद् उदासीनः अस्ति, प्रियपदार्थानां संयोगवियोगरूपं शुभाशुभं प्राप्य हर्षद्वेषरहितः अस्ति, सोऽपि स्थितप्रज्ञः अस्ति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
दुःखेष्वनुद्विग्नमनाः
यः सर्वत्रानभिस्नेहः... अग्रिमः
यदा संहरते चायं
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. गीता, अ. २, श्लो. ५६
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]