यततो ह्यपि कौन्तेय...
यततो ह्यपि कौन्तेय... रसबुद्धेः आपत्तिः | |
---|---|
श्लोकसङ्ख्या | २/६० |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | विषया विनिवर्तन्ते... |
अग्रिमश्लोकः | तानि सर्वाणि संयम्य... |
यततो ह्यपि कौन्तेय ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः रसबुद्धित्वात् का आपत्तिः ? इति वर्णयति । पूर्वस्मिन् श्लोके स्वल्पा रसासक्तिः अपि परमात्वतत्त्वस्य दर्शनेन निवृत्ता भवति इति विषयविच्छेदिस्थितप्रज्ञयोः भेदं वर्णयित्वा भगवान् अकथयत् । यदि रसासक्तिः (रागः) विद्वत्पुरुषे अवशिष्यते, तर्हि का हानिः ? इति अस्मिन् श्लोके वदति । अत्र इन्द्रियाणां प्रबलतायाः अपि निरूपणम् अस्ति ।
श्लोकः
[सम्पादयतु]- यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।
- इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥
पदच्छेदः
[सम्पादयतु]यततः, हि, अपि, कौन्तेय, पुरुषस्य, विपश्चितः । इन्द्रियाणि, प्रमाथीनि, हरन्ति, प्रसभम्, मनः ॥
अन्वयः
[सम्पादयतु]कौन्तेय ! यततः हि अपि विपश्चितः पुरुषस्य मनः प्रमाथीनि इन्द्रियाणि प्रसभं हरन्ति ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
कौन्तेय | अ.पुं.सम्बो.एक. | अर्जुन ! |
यततः | यतत्.त.पुं.ष.एक. | (समाधौ) प्रयतमानस्य |
अपि | अव्ययम् | अपि |
विपश्चितः | विपश्चित्-त.पुं.ष.एक. | विदुषः |
पुरुषस्य | अ.पुं.ष.एक. | मनुष्यस्य |
मनः | स.नपुं.द्वि.एक. | चित्तम् |
प्रमाथीनि | प्रमाथिन्-न.नपुं.प्र.बहु. | प्रपीडकानि |
इन्द्रियाणि | अ.नपुं.प्र.बहु. | नेत्रादीनि इन्द्रियाणि |
प्रसभम् | अव्ययम् | हठात् |
हरन्ति | √हृ हरणे-पर.कर्तरि, लट्.प्रपु.बहु | आकर्षन्ति किल । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- यतयो हि = यततः + हि – वसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
- ह्यपि = हि + अपि – यण्-सन्धिः
कृदन्तः
[सम्पादयतु]यततः = यत् + शतृ (कर्तरि) तस्य ।
अर्थः
[सम्पादयतु]कौन्तेय ! इन्द्रियाणि प्रमथनशीलानि भवन्ति । तानि समाधौ प्रयत्नं कुर्वतः मेधाविनः अपि पुरुषस्य मनः बलात् आकर्षन्ति ।
हे कुन्तीनन्दन ! प्रमथनशीलानि (मन्थनस्वभावयुक्तानि) इन्द्रियाणि रसबुद्धेः धीमतः मनुष्यस्यापि मनः बलात् हरन्ति ।
'यततो ह्यपि...प्रसभं मनः' – यः स्वयं यत्नं करोति, साधनां करोति, सर्वाणि कार्याणि विवेकबुद्ध्या करोति, आसक्तिफलेच्छयोः त्यागं करोति, अन्यस्य हितं चिन्तयति, अपरं सुखिनं कर्तुं कार्यं करोति, अन्यस्य कल्याणस्य कामनां कुर्वन् स्वक्रियां करोति, कर्तव्याकर्तव्यं, सारासारं च यः जानाति, तादृशस्य धीमतः पुरुषस्य कृते अत्र 'यततो ह्यपि पुरुषस्य विपश्चितः' इत्यस्य पदस्य उपयोगः अस्ति । एवं प्रयत्नरतस्य धीमतः पुरुषस्यापि प्रमथनशीलानि इन्द्रियाणि तस्य मनः बलपूर्वकं विषयान् प्रति हरन्ति । एवं सः धीमान् पुरुषः विषयान् प्रति आकृष्टः भवति । अस्य अर्थः अस्ति यत्, यावत् पर्यन्तं बुद्धिः परमात्मनि पूर्णतया प्रतिष्ठिता न भवति, तावता साधनपरायणस्य धीमतः विवेकिपुरुषस्यापि इन्द्रियाणि तस्य वशे न भवन्ति । यदा विषयाः सम्मुखम् आयान्ति, तदा पूर्वोपभुक्तसंस्कारत्वात् इन्द्रियाणि मनः, बुद्धिं च बलपूर्वकं विषयान् प्रति प्रचोयदयन्ति । अनेकानि उदाहरणानि सन्ति यत्र ऋषयः, मुनयः च विषयान् प्रति विचलिताः अभूवन् । अतः 'मम इन्द्रियेषु मे वशः अस्ति' इति साधकेन कदापि न चिन्तनीयम् । एवं तेन कदापि अभिमानः न कर्तव्यः यत्, 'अहं जितेन्द्रियः' इति [२] ।
मर्मः
[सम्पादयतु]अस्मिन् श्लोके भगवान् इन्द्रियेभ्यः 'प्रमाथीनि' इति शब्दस्य उपयोगं करोति । षष्ठे अध्याये भगवान् अर्जुनस्य मनसः कृते 'प्रमाथि' इत्यस्य शब्दस्य प्रयोगं करोति [३] । अनेन सिद्ध्यति यत्, इन्द्रियं, मनश्च उभे अपि प्रमाथीनि स्तः इति । अत्र इन्द्रियाणां प्रबलताम् उपस्थापयन् भगवान् कथयति यत्, इन्द्रियाणि प्रमाथीनि मनः बलात् कर्षन्ति इति । अस्याध्यायस्य अष्टषष्टितमे श्लोके भगवान् कथयति यत्, मनः बुद्धिं हरति इति । एवं तत्र मनसः प्रबलता प्रदर्शिता । अस्य सारभूः अस्ति यत्, साधकेन मनेन्द्रिययोः उपरि संयमनं स्थापनीयम् । तदैव सः संयमी भवितुम् अर्हति ।
सम्यग्दर्शनलक्षणप्रज्ञास्थैर्यं चिकीर्षता आदौ इन्द्रियाणि स्ववशे स्थापयितव्यानि यस्मात्तदनवस्थापने दोषमाह - यतत इति ।
यततः प्रयत्नं कुर्वतः अपि हि यस्मात् कौन्तेय पुरुषस्य विपश्चितः मेधाविनः अपि इति व्यवहितेन संबन्धः। इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति आकुलीकृत्य च हरन्ति प्रसभं प्रसह्य प्रकाशमेव पश्यतो विवेकविज्ञानयुक्तं मनः ।।
भाष्यार्थः
[सम्पादयतु]यथार्थज्ञानरूपबुद्धेः स्थिरताम् इच्छन् पुरुषः प्रप्रथमं तु इन्द्रियाणि वशीकुर्यात् । यदि तथा न भवति, तर्हि के दोषाः भवन्ति इति उपस्थापयति - हे कौन्तेय ! बुद्धिमतः, विचारशीलस्य, प्रयत्नरतस्य पुरुषस्यापि प्रमथनशीलानि इन्द्रियाणि तं विषयाभिमुखं पुरुषं क्षुब्धं व्याकुलं च कुर्वन्ति । ततश्च प्रकाशं पश्यतः तस्य बुद्धिमतः व्याकुलपुरुषस्य विवेकविज्ञानयुक्तं मनः अपि बलात् विचलितं कुर्वन्ति ।
आत्मदर्शनेन विना विषयरागो न निवर्तते अनिवृत्ते विषयरागे विपश्चितो यतमानस्य अपि पुरुषस्य इन्द्रियाणि प्रमाथीनि बलवन्ति मनः प्रसह्य हरन्ति। एवम् इन्द्रियजय आत्मदर्शनाधीन आत्मदर्शनम् इन्द्रियजयाधीनम् इति ज्ञाननिष्ठा दुष्प्राप्या।
भाष्यार्थः
[सम्पादयतु]आत्मसाक्षात्कारं विना विषयासक्तिः अपि न निवर्तते । यः विवेकशीलः पुरुषः विषयासक्तेः अनिवृत्त्यां सत्यामपि यत्नं करोति, तस्य मनः अपि मथनकारीणि बलवन्ति इन्द्रियाणि बलात्कारपूर्वकं विषयान् प्रति कर्षयन्ति । एवम् इन्द्रियेषु विजयप्राप्तिः आत्मसाक्षात्काराधीना । आत्मदर्शनम् इन्द्रियविजयाधीनम् । अत एव ज्ञाननिष्ठायाः प्राप्तिः अतीव कठिना ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये यततो ह्यपि कौन्तेय... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]- ↑ श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
- ↑ मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिद्रियग्रामो, विद्वांसमपि कर्षति ।। मनुस्मृतिः ।। २/२१५
- ↑ गीता, अ. ६ श्लो. ३४
- ↑ श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
- ↑ रामानुजभाष्यम्
अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च