सामग्री पर जाएँ

तानि सर्वाणि संयम्य...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तानि सर्वाणि संयम्य...


भगवत्पराणयतायाः आज्ञा
श्लोकसङ्ख्या २/६१
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यततो ह्यपि कौन्तेय...
अग्रिमश्लोकः ध्यायतो विषयान्पुंसः...

तानि सर्वाणि संयम्य () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः भगवत्पराणयतायाः आज्ञां ददाति । पूर्वस्मिन् श्लोके येषां रसबुद्धिः निवृत्ता नास्ति, तेषां स्थितप्रज्ञात् भिन्नत्वं न्यरूपयत् । अत्र जितेन्द्रियपुरुषस्य प्रशंसां करोति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥

पदच्छेदः[सम्पादयतु]

तानि, सर्वाणि, संयम्य, युक्तः, आसीत, मत्परः । वशे, हि, यस्य, इन्द्रियाणि, तस्य, प्रज्ञा, प्रतिष्ठिताः ॥

अन्वयः[सम्पादयतु]

तानि सर्वाणि संयम्य युक्तः मत्परः आसीत । यस्य वशे इन्द्रियाणि (सन्ति) तस्य प्रज्ञा प्रतिष्ठिताः (भवति) ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
तानि तद्-द.नपुं.प्र.बहु. इन्द्रियाणि
सर्वाणि सर्व.नपुं.प्र.बहु. सकलानि
संयम्य अव्ययम् निरुध्य
युक्तः अ.पुं.प्र.एक. योगी
मत्परः अ.पुं.प्र.एक. मदासक्तः
आसीत आस्-आत्म.कर्तरि, वि.लिङ्.प्रपु.एक. तिष्ठेत्
यस्य यद्-द.सर्व.पुं.ष.एक. यस्य
वशे अ.पुं.स.एक. आधीन्ये
इन्द्रियाणि अ.नपुं.प्र.बहु. नेत्रादीनि इन्द्रियाणि
तस्य तद्-द.सर्व.पुं.ष.एक. तस्य पुरुषस्य
प्रज्ञा आ.स्त्री.प्र.एक. बुद्धिः
प्रतिष्ठिता आ.स्त्री.प्र.एक. अतिस्थिरा ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. युक्त आसीत = युक्तः + आसीत – विसर्गसन्धिः (लोपः)
  2. यस्येन्द्रियाणि = यस्य + इन्द्रियाणि – गुणसन्धिः

समासः[सम्पादयतु]

मत्परः = मम परः – षष्ठीतत्पुरुषः

कृदन्तः[सम्पादयतु]

  1. संयम्य = सम् + यम् + ल्यप् ।
  2. युक्तः = युजिर् + क्त (कर्तरि)

अर्थः[सम्पादयतु]

योगी तानि सर्वाणि इन्द्रियाणि संयम्य मत्परः सन् तिष्ठेत् । एवं यः तिष्ठति तस्य प्रज्ञा निश्चला भवति ।

भावार्थः [१][सम्पादयतु]

कर्मयोगी साधकः सर्वाणीन्द्रियाणि वशीकृत्य मत्परायणो भूत्वा तिष्ठेत् । यतः यस्येन्द्रियाणि वशीभूतानि सन्ति, तस्य बुद्धिः प्रतिष्ठिता भवति । 'तानि सर्वाणि संयम्य युक्त आसीत मत्परः' – बलपूर्वकं मनः हरन्ति यानि इन्द्रियाणि सन्ति, तानि सर्वाणि वशीकृत्य अर्थात् तानि कदापि विषयेषु रमणं कृत्वा साधकं विचलितं न कुर्युः, साधकः मयि (परमात्मनि) परायणः भवेत् । अस्य तात्पर्यं भवति यत्, यदा साधकः इन्द्रियनिग्रहं करोति, तदा तस्मिन् मदः सञ्जायते यत्, अहं जितेन्द्रियः इति । सः मदः साधकस्योन्नतिं स्थगयित्वा तं भगवतः विमुखं करोति । अतः इन्द्रियसंयमिना साधकेन उन्मत्तेन न भवितव्यम् । यः इन्द्रियनिग्रहो जातः अस्ति, सः ईश्वरकृपया अभवत् इति मन्तव्यम् । एवं भगवति परायणः साधकः सिद्धः भवति ।

'वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता' – अग्रे भगवान् अवदत्, इन्द्रिणायां विषयेभ्यः सम्बन्धविच्छेदे अपि साधकः स्थितप्रज्ञः न भवति [२] । ततः अत्र कथयति यत्, येनेन्द्रियाणि वशीकृतानि, सः स्थितप्रज्ञः इति । अस्य तात्पर्यम् अस्ति यत्, तत्र इन्द्रियेभ्यः विषयाणां सम्बन्धे विच्छेदे सत्यपि अन्तःकरणे रसबुद्धिः विद्यमाना आसीत् । एवम् इन्द्रियाणि विशीभूतानि नासन् । परन्तु अत्र स्थितप्रज्ञपुरुषस्य इन्द्रियाणि वशीभूतानि, बुद्धिश्च रसबुद्धिनिवृत्ता । अतः इन्द्रियेभ्यः विषयविच्छेदे साधकः स्थितप्रज्ञः भवति इति नियमः अत्र न सम्बद्धः । यतः अपरेण नियमेन सह अत्र सम्बन्धः अस्ति यत्, स्थितप्रज्ञे इन्द्रियाणि वशीभूतानि भवन्ति इति ।

मर्मः[सम्पादयतु]

अत्र 'मत्परः' इत्यत्र का विवक्षा ? चेत्, मानवशरीरप्राप्तिः, साधनायां रुचिः, साधने सँल्लग्नता, साधनसिद्धिः इत्यादि सर्वं भगवतः कृपाधारितमेव । परन्तु मदाग्रहेण ग्रस्तस्य साधकस्य ईश्वरकृपां प्रति ध्यानं न भवति । अत्र कर्मयोगिनः सर्वाधिकहानिः भवति । यतः कर्मयोगी तु सर्वदा कर्मसु एव रतः भवति । यदि सः तेषु कर्मसु स्वपुरुषार्थमेव मन्येत, तर्हि पदच्युतिः भवति । अतः भगवान् अत्र "मत्परः भव" इति विशेषरूपेण कर्मयोगिनम् आदिशति ।

भगवत्परायणस्य तात्पर्यम् अस्ति यत्, केवलं भगवति एव महत्त्वबुद्धिः भवेत् । अर्थात् भगवान् एव मम, अहं भगवतः, संसारः न मे, अहं न संसारस्य इत्यादि चिन्तनं भवेत् । यतः एतादृशैः आवृतस्य साधकस्य मनसि सर्वदा दृढता भवति यत्, भगवान् सर्वदा मया सह विद्यमानः अस्ति तथा च संसारः कदापि मया सह नावतिष्ठति इति । तेन साधके विद्यमानः मदः अर्थात् 'अहंता' इति भावः नष्टो भवति ।

गीतायां भगवत्परायणस्य महिमा अधिकः श्रूयते । यथा – सर्वेषु योगिषु श्रद्धापूर्वकं मत्परायणः भूत्वा मां यः भजते, सः श्रेष्ठः अस्ति इति [३]

शाङ्करभाष्यम् [४][सम्पादयतु]

यतः तस्मात् -

तानि सर्वाणि संयम्य  संयमनं वशीकरणं कृत्वा  युक्तः  समाहितः सन्  आसीत मत्परः  अहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य सः मत्परः न अन्योऽहं तस्मात् इति आसीत इत्यर्थः। एवमासीनस्य यतेः  वशे हि यस्य इन्द्रियाणि  वर्तन्ते अभ्यासबलात्  तस्य प्रज्ञा प्रतिष्ठिता।।

भाष्यार्थः[सम्पादयतु]

एवम् अस्ति, अतः –

तेन साधकेन तानि सर्वाणि इन्द्रियाणि संयम्य समाहितचित्तेन मयि स्थिरेण सता स्थातव्यम् । अर्थात् सर्वेषाम् अन्तरात्मरूपः 'अहं वासुदेव एव' इति मत्परः (परः यस्य सः इति मत्परः) भवति अर्थात् अहं तस्मात् परमात्मनः भिन्नः नास्मि एतादृशं मन्यमानः सः साधकः मदभिन्नो भूत्वा तिष्ठेत् । यतः एवं चिन्तयतः स्थितस्य यतेः इन्द्रियाणि अभ्यासबलेन वशीभूतानि भवन्ति । एवं यस्येन्द्रियाणि वशीभूतानि सन्ति, तस्य बुद्धिः प्रतिष्ठिता भवति ।

रामानुजभाष्यम् [५][सम्पादयतु]

सर्वस्य दोषस्य परिजिहीर्षया विषयानुरागयुक्ततया दुर्जयानि इन्द्रियाणि  संयम्य  चेतसः शुभाश्रय भूते मयि मनः अवस्थाप्य समाहितः आसीत। मनसि मद्विषये सति निर्दग्धाशेषकल्मषतया निर्मलीकृतं विषयानुरागरहितं मन इन्द्रियाणि स्ववशानि करोति। ततो वश्येन्द्रियं मन आत्मदर्शनाय प्रभवति। उक्तं च यथाग्निरुद्धतशिखः कक्षं दहति सानिलः। तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम्।। (वि0 पु0 6।7।74) इति। तदाह वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता इति।

भाष्यार्थः[सम्पादयतु]

समस्तेभ्यः अन्योन्याश्रयादिदोषेभ्यः मुमोचयिषायां सत्यां, विषयानुरागयुक्तत्वाद्, येषु सहजतया विजयप्राप्तिः न शक्या, तेषु इन्द्रियेषु संयमनं कृत्वा चित्तस्य शुभाश्रयरूपिणि मयि (परमेश्वरे) मनः स्थिरं कृत्वा सावधानेन भूत्वा स्थातव्यम् । मनसः मयि स्थिरे सति, मया समस्तेभ्यः पापेभ्यः पूर्णतया निर्मलीकृतं विषयासक्तरहितं मनः इन्द्रियाणि वशीकरोति । ततः इन्द्रियवशीभूतं कर्तृ मनः आत्मसाक्षात्काराय समर्थं भवति । उक्तमपि अस्ति यद्, यथा वायोः संयोगं प्राप्य उन्नतशिखः अग्निः तृणसमूहं भस्मसात्करोति, तथैव योगिनां चित्ते स्थितः भगवान् विष्णुः समस्तपापसमूहान् भस्मसात्करोति [६] । अत एव उक्तं यद्, यस्य इन्द्रियाणि वशीभूतानि सन्ति, तेषां बुद्धिः स्थिरा (प्रतिष्ठिता) अस्ति इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
यततो ह्यपि कौन्तेय...
तानि सर्वाणि संयम्य... अग्रिमः
ध्यायतो विषयान्पुंसः...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. ५९
  3. गीता, अ. ६, श्लो. ४७
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  5. रामानुजभाष्यम्
  6. गीता, अ. २, श्लो. ५९

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तानि_सर्वाणि_संयम्य...&oldid=403645" इत्यस्माद् प्रतिप्राप्तम्