अकीर्तिं चापि भूतानि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

[[Category:]]

अकीर्तिं चापि भूतानि...


अपकीर्तेः दुःखम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/३४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अथ चेत्त्वमिमं धर्म्यं...
अग्रिमश्लोकः भयाद्रणादुपरतं...

अकीर्तिं चापि भूतानि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अपकीर्तेः दुःखं वर्णयति । पूर्वस्मिन् श्लोके स्वधर्मत्यागे पापम्, अकीर्तिः च भविष्यति इति उक्त्वा अत्र भगवान् अपकीर्तेः विशेषम् अन्यदुःखं नास्ति इति वदति । सः कथयति यत्, सर्वेऽपि प्राणिनः ते चिरकालीनायाः अपकीर्तेः स्मरणं करिष्यन्ति । सा अपकीर्तिः सम्मानितमनुष्येभ्यः मृत्योः अपेक्षयाऽपि अधिकं दुःखदायिनी भवति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥

पदच्छेदः[सम्पादयतु]

अकीर्तिम्, च, अपि, भूतानि, कथयिष्यन्ति, ते, अव्ययाम् । सम्भावितस्य, च, अकीर्तिः, मरणात्, अतिरिच्यते ॥

अन्वयः[सम्पादयतु]

भूतानि च ते अव्ययाम् अकीर्तिं चापि कथयिष्यन्ति । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
भूतानि अ.नपुं.प्र.बहु. जनाः
ते तद्-द.सर्व.ष.एक. तव
अव्ययाम् आ.स्त्री.द्वि.एक. अनश्वरीम्
अकीर्तिं इ.स्त्री.द्वि.एक. दुष्कीर्तिं
च अपि अव्ययम्
कथयिष्यन्ति √कथ वाक्यप्रबन्धने-पर.कर्तरि, लृट्.प्रपु.बहु. वर्णयिष्यन्ति
सम्भावितस्य अ.पुं.ष.एक. मान्यस्य जनस्य
अव्ययम्
अकीर्तिः इ.स्त्री.प्र.एक. दुष्कीर्तिः
मरणात् अ.नपुंं.पं.एक. मृत्योः
अपि अव्ययम् अपि
अतिरिच्यते √अति+रिच वियोजनसम्पर्चनयोः-आत्म.कर्तरि, लट्.प्रपु.एक. अतिशेते ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. चापि = च + अपि – सवर्णदीर्घसन्धिः
  2. तेऽव्ययाम् = ते + अव्ययाम् - पूर्वरूपसन्धिः
  3. चाकीर्तिः = च + अकीर्तिः – सवर्णदीर्घसन्धिः
  4. अकीर्तिर्मरणात् = अकीर्तिः + मरणात् – विसर्गसन्धिः (रेफः)
  5. मरणादतिरिच्यते = मरणात् + अतिरिच्यते – जश्त्वसन्धिः

कृदन्तः[सम्पादयतु]

  1. सम्भावितस्य = सम् + भू + णिच् + क्त (कर्मणि) तस्य

अर्थः[सम्पादयतु]

यदि त्वं युद्धं न करिष्यसि तर्हि जनाः दीर्घकालं यावत् तव अकीर्तिं कथयिष्यन्ति । सर्वैरपि प्रशंसनीयस्य मानिनः च जनस्य अकीर्तिः मरणादपि अधिकां पीडां जनयति ।

भावार्थः [१][सम्पादयतु]

'अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्' – मनुष्यादिषु प्राणिषु ते धर्मत्यागरूपिणी कापुरुषता उदाहरणं भविष्यति । लोके सर्वे ते अपयशसः गानं कुर्वन् कथयिष्यन्ति यद्, अर्जुनः कीदृशः भीरुः आसीद् यद्, क्षात्रधर्माद् विमुखो अभवत् । सर्वे तु तं शूरवीरं मन्यमानाः आसन्, परन्तु युद्धे सम्प्राप्ते तस्य वास्तविकता अर्थाद् भीरुता प्रत्यक्षा अभवद् इत्यादि । 'ते' इत्यस्य पदस्य भावः अस्ति यद्, स्वर्ग-मृत्यु-पाताल-लोकेषु अपि यस्य शौर्यं प्रसिद्धम् अस्ति, तत्रापि ते अपकीर्तिः भविष्यति इति । 'अव्ययाम्' इत्यस्य तात्पर्यम् अस्ति यद्, यः मनुष्यः श्रेष्ठतायाः कारणेन अधिकः प्रसिद्धः भवति, तस्य कीर्तिः, अपकीर्तिः च दीर्घकालं यावत्तिष्ठति इति ।

'सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते' – एतस्य श्लोकस्य पूर्वार्धे भगवान् साधारणप्राणिभिः अर्जुनस्य निन्दायाः चर्चां करोति । उत्तरार्धे च जनसामान्येभ्यः कीर्तेः किं महत्त्वम् अस्ति ? इति वर्णयति । सांसारिकदृष्ट्या या व्यक्तिः श्रेष्ठा मन्यते, तस्याः व्यक्तेः यदा अपकीर्तिः भवति, तदा सा अपकीर्तिः मृत्योः अधिका भयङ्करी भवति । किञ्च मृते सति आयुष्यं समाप्तं भवति, तत्र कोऽपि अपराधस्तु नास्ति खलु ! । परन्तु अपकीर्तौ सति तु स्वधर्मात्, कर्तव्याच्च च्युतिः मन्यते । अतः लोके श्रेष्ठम्मन्यमानानां पुरुषाणां कर्तव्यच्युतिः अतीव भयङ्करम् अपयशः मन्यते ।

शाङ्करभाष्यम् [२][सम्पादयतु]

न केवलं स्वधर्मकीर्तिपरित्यागः -

अकीर्तिं चापि युद्धे भूतानि कथयिष्यन्ति ते  तव  अव्ययां  दीर्घकालाम्। धर्मात्मा शूर इत्येवमादिभिः गुणैः  संभावितस्य च अकीर्तिः मरणात् अतिरिच्यते  संभावितस्य च अकीर्तेः वरं मरणमित्यर्थः।।

भाष्यार्थः[सम्पादयतु]

केवलं स्वधर्मस्य, कीर्तेः एव नाशः भविष्यति इत्येव नालम् –

चिरकालं यावद् या अपकीर्तिः भविष्यति, तेन ते निन्दा अपि भविष्यति । धर्मात्मा, शूरः इत्यादिभिः गुणैः प्राप्तप्रतिष्ठाय पुरुषाय अपकीर्तिः मरणादपि निम्ना भवति । अभिप्रायः अस्ति यद्, प्रतिष्ठितेभ्यः पुरुषेभ्यः अपकीर्तेः अपेक्षया मरणं वरम् इति ।

रामानुजभाष्यम् [३][सम्पादयतु]

न केवलं निरतिशयसुखकीर्तिहानिमात्रं पार्थो युद्धे प्रारब्धे पलायित इति अव्ययां सर्व देशकालव्यापिनीम्  अकीर्तिं च  समर्थानि असमर्थानि सर्वाणि  भूतानि कथयिष्यन्ति  ततः किमिति चेत् शौर्यवीर्यपराक्रमादिभिः सर्व संभावितस्य  तद्विपर्ययजा हि  अकीर्तिः मरणाद् अतिरिच्यते।  एवंविधाया अकीर्तेः मरणम् एव तव श्रेयः इत्यर्थः।

भाष्यार्थः[सम्पादयतु]

न केवलं निरतिशयसुखस्य, निरतिशयकीर्तेः च हानिः भविष्यति, अपि तु 'युद्धारम्भात् समनन्तरमेव अर्जुनः युद्धं त्यक्त्वा पलायितः' इत्येताम् अव्ययाम् अर्थाद् सर्वत्र देशकालव्याप्तताम् अकीर्तिं समर्थकाः, असमर्थकाश्च करिष्यन्ति । एवं जाते किं भविष्यति ? इति चेद्, शौर्यवीर्यपराक्रमादिसन्दर्भे यस्य पुरुषस्य सर्वजनसम्माननम् अस्ति, तस्य कृते तेषां शौर्यादिगुणानां विपरीततया अर्थात् कापुरुषतादिप्रभावेण जायमाना अपकीर्तिः मृत्योः अपि निकृष्टा भवति । अभिप्रायः अस्ति यद्, तादृश्या अपकीर्त्या अपेक्षया ते मरणम् एव श्रेयस्करं भवेत् इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
अथ चेत्त्वमिमं धर्म्यं...
अकीर्तिं चापि भूतानि... अग्रिमः
भयाद्रणादुपरतं...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]