सामग्री पर जाएँ

अशोच्यानन्वशोचस्त्वं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अशोच्यानन्वशोचस्त्वं...


शोकनिवृत्त्यै उपदेशः
श्लोकसङ्ख्या २/११
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः तमुवाच हृषीकेशः...
अग्रिमश्लोकः न त्वेवाहं जातु नासं...

अशोच्यानन्वशोचस्त्वम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य शोकनिवृत्त्यै उपदेशम् आरभते । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रम् अर्जुनस्य युद्धोपरामस्य निर्णयं श्रावयित्वा तूष्णीं स्थितम् अर्जुनं भगवान् एतानि वचनानि अवदत् इत्युक्तवान् । एतस्मात् श्लोकात् भगवान् अर्जुनाय उपदेशम् आरभते । भगवान् अवदत् यत्, यस्य कृते शोकः अनावश्यकः उच्यते, तादृशः शोकः त्वया क्रियते । पाण्डित्यपूर्णवचनानि वदन् असि, परन्तु ये मृताः उत ये न मृताः, तेषां पण्डिताः शोकं न कुर्वन्ति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवानुवाच-

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

पदच्छेदः[सम्पादयतु]

अशोच्यान्, अन्वशोचः, त्वम्, प्रज्ञावादान्, च, भाषसे । गतासून्, अगतासून्, च, न, अनुशोचन्ति, पण्डिताः ॥

अन्वयः[सम्पादयतु]

त्वम् अशोच्यान् अन्वशोचः । प्रज्ञावादान् च भाषसे । पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
त्वम् युष्मद्-द.सर्व.पं.एक. त्वम्
अशोच्यान् अ.पुं.द्वि.बहु. येषु शोकः न करणीयः तान्
अन्वशोचः अनु+√शुच शोके-पर.कर्तरि, लङ्ग.मपु.एक. शोकम् अकरोः
प्रज्ञावादान् अ.पुं.द्वि.बहु. बुद्धिवादान्
अव्ययम्
भाषसे √भाष व्यक्तायां वाचि-आत्म.कर्तरि, लट्.मपुं.एक. वदसि
गतासून् उ.पुं.द्वि.एक. मृतान्
अगतासून् उ.पुं.द्वि.एक. जीवतः
पण्डिताः अ.पुं.प्र.बहु. विवेकिनः
अव्ययम्
अनुशोचन्ति अनु+√शुच शोके-पर.कर्तरि, लट्.प्रपु.बहु. शोचन्ति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. अन्वशोचस्त्वम् = अन्वशोचः + त्वम् विसर्गसन्धिः (सकारः)
  2. प्रज्ञावादांश्च = प्रज्ञावादान् + च – रुत्वम्, अनुस्वारागमः, विसर्गः, सत्वं, श्चुत्वम्
  3. गतासूंश्च = गतासून् + च – रुत्वम्, अनुवास्वारागमः, विसर्गः, सत्वं, श्चुत्वम्
  4. नानुशोचन्ति = न + अनुशोचन्ति – सवर्णदीर्घसन्धिः

समासः[सम्पादयतु]

  1. अशोच्यान् = न शोच्याः अशोच्योः, तान् – नञ्तत्पुरुषः ।
  2. प्रज्ञावादान् = प्रज्ञापूर्वकाः वादाः, तान् – मध्यमपदलोपी तत्पुरुषः ।
  3. गतासून् = गताः असवः येभ्यः ते, तान् – बहुव्रीहिः ।
  4. अगतासून् = न गतासवः, तान् – नञ्बहुव्रीहिः ।

कृदन्तः[सम्पादयतु]

  1. शोच्यान् = शुच् + ण्यत् (कर्मणि), तान् । शोचनीयान् इत्यर्थः ।

अर्थः[सम्पादयतु]

हे अर्जुन ! येषु शोकः न करणीयः तेषु त्वं शोकं करोषि । पण्डितानां वादमपि उपस्थापयसि । वस्तुतः विवेकिनः मृतेषु जीवत्सु च शोकं न कुर्वन्ति ।

भावार्थः [१][सम्पादयतु]

मनुष्यः शोकं तदा करोति, यदा सः संसारस्य प्राणिस्थितिपदार्थान् विभागद्वये विभजते । "एतत् मम", "एतत् न मम" च । एते मे कुटुम्बकाः, एते न मे कुटुम्बकाः । एते मे वर्णीयाः (जातिनः), एते न मे वर्णीयाः । एते मे आश्रमिणः, एते न मे आश्रमिणः । ये "मम" इत्यनेन स्वीकृताः, तेषु ममता, कामना, प्रीतिः, आसक्तिः च भवति । ताः सर्वाः शोक-चिन्ता-भय-उद्वेग-सन्तापादीनां दोषाणां कारणं भवन्ति । गीतायाः प्रथमाध्यायस्य प्रप्रथमे श्लोके धृतराष्ट्रः सञ्जयम् अपृच्छत् यत्, मामकाः पुत्राः, पाण्डवाः च युद्धभूमौ किं कुर्वन्तः सन्ति ? इति । यद्यपि पाण्डवेभ्यः धृतराष्ट्रः पितृतुल्यः आसीत्, तथापि धृतराष्ट्रः स्वस्य पुत्रेषु एव ममतां सेवते स्म । एवं तस्य मनसि स्वपुत्रान् प्रति, पाण्डुपुत्रान् प्रति च पक्षपातपूर्वकः भेदः आसीत् यत्, एते मे, ते न मे चेति ।

या ममता धृतराष्ट्रस्य मनसि आसीत्, सैव ममता अर्जुनेऽपि उत्पन्ना । परन्तु अर्जुनस्य ममता धृतराष्ट्रस्य ममतातुल्या नासीत् । अर्जुने धृतराष्ट्रवत् पक्षपातः नासीत्; किञ्च सः सर्वान् स्वजनत्वेन सम्बोधयति [२] । स तु दुर्योधनमपि स्वजनेषु परिगणयति [३] । तात्पर्यम् अस्ति यत्, अर्जुनस्य कुरुवंशीयेषु ममता आसीत् । तस्याः ममतायाः कारणत्वादेव कौरवानां मरणशङ्कया अर्जुनः शोकमग्नः आसीत् । तं शोकं दूरीकर्तुम् एव भगवान् अर्जुनाय गीतोपदेशं ददाति, यस्योपदेशस्य आरम्भः एतस्मात् श्लोकादेव भवति । उपदेशान्ते भगवान् अर्जुनम् अनुचितं शोकं त्यक्त्वा केवलं मे आश्रयी भव इति कथयति [४] । किञ्च संसाराश्रयेणैव शोकः उत्पद्यते । अनन्यभावेन मे (भगवतः) आश्रये स्वीकृते शोक-चिन्ता-कामनादिभ्यः त्वं मुक्तः भविष्यसि इति ।

'अशोच्यानन्वशोचस्त्वम्' – निखिले संसारे पदार्थद्वयम् अस्ति । सद्, असद् च (शरीरं, शरीरी च) । तयोः शरीरी अविनाशी अस्ति, शरीरं विनाशि च । तौ उभौ पदार्थौ अशोच्यौ स्तः । अविनाशिनः कदापि विनाशो न भवति, अतः शोकाय अवसरः न । विनाशिनः विनाशः निश्चितः । अतः एकक्षणं यावत् सः स्थायी न भवति । एवं तस्य शोकः अपि अयोग्यः । तात्पर्यम् अस्ति यत्, शरीरम् उद्दिश्य, शिरीरिणं चोद्दिश्य शोकः सर्वथा अविवेककारणः, मूर्खताकारणः एव । मनुष्यस्य सम्मुखं जन्ममृत्यू, लाभहानी इत्यादिमाध्यमेन परिस्थितिः उपतिष्ठते । सा परिस्थितिः प्रारब्धफलं भवति । अर्थात् मनुष्यस्य पूर्वकृतानां कर्मणां फलम् । तत्फलानुगुणम् अनुकूलप्रतिकूलपरिस्थित्योः उद्भवः भवति । तयोः परिस्थित्योः अनुगुणं क्रमेण सुखानुभूतिः, दुःखानुभूतिः च मूर्खत्वम् अस्ति । यतो हि अनुकूला, प्रतिकूला वा परस्थितिः आरम्भान्तयुक्ता भवति । अर्थात् सा स्थितिः आदौ नासीत्, अन्ते च न भविष्यति । या स्थितिः आद्यन्तयोः न भवति, सा मध्ये अपि स्थायिनी न भवति । यदि सा स्थितिः स्थायिनी अभविष्यत्, तर्हि तस्याः अन्तः कथम् अभविष्यत् ? यदि अन्तः भवेत्, तर्हि स्थिरा कथं भवेत् ? एवं मनुष्यः प्रतिक्षणं नश्यमानयोः प्रतिकूलानुकूलपरिस्थित्योः कारणेन हर्ष-शोकौ कृत्वा, सुखि-दुःखिनौ भूत्वा च केवलं मूर्खतामेव प्रदर्शयति ।

'प्रज्ञावादांश्च भाषसे' – एकत्र त्वं पाण्डित्यपूर्णविषयान् वदसि, अपरत्र शोकम् अपि करोषि ? अतः त्वं केवलं जल्पसि । वास्तव्येन त्वं पण्डितः नासि; किञ्च यदि त्वं पण्डितः अभविष्यः, तर्हि कदापि शोकं नाकरिष्यः । कुलस्य नाशे सति कुलधर्माणां नाशो भविष्यति । धर्मनाशे सति स्त्रियः दूषिताः भविष्यन्ति । दूषिताभ्यः स्त्रिभ्यः वर्णसङ्कराः पुत्रादयः भविष्यन्ति । ते वर्णसङ्कराः कुलघातिनः कुलं नरकीकरिष्यन्ति । पिण्ड-तर्पणयोः अभावे पितृपतनं भविष्यति । एतादृशैः ते पाण्डित्यपूर्णवचनैः सिद्ध्यति यत्, शरीरं नाशवद् अस्ति, शरीरी चावनिनाशी । एवं कुलादीनां पतनभयं तु न भवेदेव । अतः ते शोकः अनुचितः ।

'गतासूनगतासूंश्च' – सर्वेषां पिण्डप्राणवियोगः अवश्यम्भावी एव । एवं केषाञ्चन पिण्डप्राणवियोगः जातः, केषाञ्चन भविष्यति च । अतः शोकः अयोग्यः । ये मृताः, तेभ्यः शोकः अयोग्यः । यतः मृतेभ्यः शोके सति प्राणी दुःखी भवति । यथा मृतात्मभ्यः यद् पिण्डजलादि दद्मः, तत् ते परलोके प्राप्नुवन्ति, तथैव मृतात्मभ्यः ये अश्रूणि सारयन्ति, तानि अश्रूणि मृतात्मना परवशे भूते सति भोक्तव्यानि भवन्ति [५] [६] । ये जीवन्तः सन्ति, तेभ्यः अपि शोकः न कर्तव्यः । यथा तेषां पालनं कथं भविष्यति ?, तेषां जीवनं कीदृशं भविष्यति ?, तेषां साहाय्यं के करिष्यन्ति ? इत्यादयः चिन्ताप्रश्नाः न करणीयाः । किञ्च चिन्तया, शोकेन च कोऽपि लाभः न भवति ।

शरीराङ्गानि मे शिथिलानि जायमानानि सन्ति, मुखं शुष्कं भवद् अस्ति इत्यादयः विकाराः शरीरेण सह तादात्म्यभावत्वात् उत्पद्यन्ते । यतो हि शरीरेण सह तादात्म्ये सत्येव शरीरस्य पालकानां प्रति ममत्वम् उत्पद्यते । स्वजनानां मरणाशङ्कया एव अर्जुनस्य मनसि चिन्ता, शोकश्च उत्पद्यते, तयोः फलत्वादेव तस्य शरीरे उपर्युक्ताः विकाराः जायन्ते ।

अर्जुनस्य शोकस्य कारणत्वेन भगवान् 'गतासून्', 'अगतासून्' इत्ययोः पदयोः उपयोगं करोति । 'गतासून्' अर्थात् ये मृताः । 'अगतासून्' अर्थात् येषां प्राणाः न व्यपगताः (जीविताः) । "पिण्डोदयाभावात् पितृपतनं भवति" इति अर्जुनस्य चिन्ता 'गतासून्'-चिन्ता अस्ति । "येभ्यः वयं राज्यादीनाम् इच्छां कुर्मः, ते तु युद्धाय मे सम्मुखं स्थिताः सन्ति" इति अर्जुनस्य चिन्ता 'अगतासून्'-चिन्ता अस्ति । द्विप्रकारीका चिन्ता सा शरीरेण सह तादात्म्यत्वादेव जायते । एवं सा द्विप्रकारीका सा चिन्ता मूलतः तु चिन्ता एव । यतः 'गतासून्', 'अगतासून्' इत्येतौ च नाशवन्तः एव । 'गतासून्', 'अगतासून्' – एतयोः कृते कर्तव्यकर्माचारः चिन्तायाः विषयः न । 'गतासून्' इत्येतेभ्यः पिण्डोदकक्रिया कर्तव्यम् अस्ति, 'अगतासून्' इत्येतेभ्यश्च व्यवस्थापनं, निर्वाहश्चापि कर्तव्यम् अस्ति । कर्तव्यं कदापि चिन्तायाः विषयः न भवति । विचारैः कर्तव्यबोधः भवति, चिन्तया च विचारनाशः ।

'नानुशोचन्ति पण्डिताः' – सदसतोः विवेकशीला बुद्धिरेव 'पण्डा' । सा 'पण्डा' येषां विकसिता अस्ति अर्थात् ये सदसतोः स्पष्टतया विवेकं कर्तुं सक्षमाः, ते एव पण्डिताः । सदसतोः विवेकत्वात् पण्डिताः शोकं न कुर्वन्ति । किञ्च सदसतोः यथार्थदर्शनेन कदापि शोकः न जायते । स्वयं सद् अस्ति, शरीरम् असच्च । असतं सतं मत्वा शोकः उत्पद्यते । अर्थात् शरीरादयः नित्याः इति भ्रमत्वादेव शोकः भवति । सतः चिन्ता, शोकश्च कदापि न भवति ।

शाङ्करभाष्यम् [७][सम्पादयतु]

अशोच्यान् इत्यादि । न शोच्या अशोच्याः भीष्मद्रोणादयः सद्वृत्तत्वात् परमार्थस्वरूपेण च नित्यत्वात् तान्  अशोच्यान् अन्वशोचः  अनुशोचितवानसि ते म्रियन्ते मन्निमित्तम् अहं तैर्विनाभूतः किं करिष्यामि राज्यसुखादिना इति।  त्वं प्रज्ञावादान्  प्रज्ञावतां बुद्धिमतां वादांश्च वचनानि च भाषसे। तदेतत् मौढ्यं पाण्डित्यं च विरुद्धम् आत्मनि दर्शयसि उन्मत्त इव इत्यभिप्रायः। यस्मात्  गतासून्  गतप्राणान् मृतान्  अगतासून्  अगतप्राणान् जीवतश्च  न अनुशोचन्ति पण्डिताः  आत्मज्ञाः। पण्डा आत्मविषया बुद्धिः येषां ते हि पण्डिताः पाण्डित्यं निर्विद्य इति श्रुतेः। परमार्थतस्तु तान् नित्यान् अशोच्यान् अनुशोचसि अतो मूढोऽसि इत्यभिप्रायः।।

भाष्यार्थः[सम्पादयतु]

ये शोकयोग्याः न सन्ति, ते अशोच्याः । अत्र भीष्म-द्रोणादयः सदाचाररूपेण, परमार्थरूपेण च नित्यत्वात् अशोच्याः । तेषाम् अशोच्यानां निमित्तं त्वं शोकं कुर्वन् असि यत्, ते मे हस्तेन मरिष्यन्ति, तान् विहाय अहं राज्यस्य, सुखोपभोगानां च किं करिष्यामि ? इति । तथा च त्वं प्रज्ञावन्तः यथा वदन्ति, तथापि वदसि । अर्थात् त्वं स्वस्मिन् परस्परविरोधयुक्तान् पाण्डित्यपूर्णमूर्खतापूर्णान् भावान् प्रदर्शयसि । किञ्च आत्मज्ञानिनः मृतानां, जीवितानां च शोकं न कुर्वन्ति । "पाण्डित्यं सम्पाद्य" [८] इत्यस्य श्रुतिवाक्यस्य अनुसारम् आत्मविषयकबुद्धेः नाम पण्डा इति । सा च बुद्धिः यस्मिन् अस्ति, स पण्डितः । परन्तु परमार्थदृष्ट्या नित्येभ्यः, अशोचनीयेभ्यः भीष्मादिभ्यः श्रेष्ठपुरुषेभ्यः त्वं शोकं कुर्वन् असि, अतः त्वं मूढः असि इति ।

रामानुजभाष्यम् [९][सम्पादयतु]

श्रीभगवानुवाच  अशोच्यान्  प्रति अनुशोचसिपतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः। (गीता 1।41) इत्यादिकान् देहात्मस्वभावप्रज्ञानिमित्तवादान्  च भाषसे।  देहात्मस्वभावज्ञानवतां न अत्र किञ्चित् शोकनिमित्तम् अस्ति।  गतासून्  देहान्  अगतासून्  आत्मनश्च प्रति तयोः स्वभावयाथात्म्यविदो  न शोचन्ति।  अतः त्वयि विप्रतिषिद्वम् इदम् उपलभ्यते यद्एतान् हनिष्यामि इति अनुशोचनं यच्च देहातिरिक्तात्मज्ञानकृतं धर्माधर्मभाषणम्। अतो देहस्वभावं च न जानासि तदतिरिक्तम् आत्मानं च नित्यम् तत्प्राप्त्युपायभूतं युद्धादिकं धर्मं च। इदं च युद्धं फलाभिसन्धिरहितम्। आत्मयाथात्म्यावाप्त्युपायभूतम्। आत्मा हि न जन्माधीनसद्भावो न मरणाधीनविनाशश्च तस्य जन्ममरणयोः अभावात् अतः स न शोकस्थानम्। देहः तु अचेतनः परिणामस्वभावः तस्य उत्पत्तिविनाशयोगः स्वाभाविकः इति सोऽपि न शोकस्थानम् इति अभिप्रायः।

भाष्यार्थः[सम्पादयतु]

येभ्यः शोकः अनुचितः, तेभ्यः त्वं शोकं कुर्वन् असि । तेन सह त्वं पिण्डोदकक्रियायाः लुप्ततायाः कारणं दत्त्वा पितॄणां पतनं भवति इति वदसि [१०] । एवं त्वं शरीरसम्बद्धाः, आत्मस्वभावज्ञानसम्बद्धाः च चर्चाः सहसा कुर्वन् असि । परन्तु शरीरात्मनोः स्वभावं ज्ञातुम् अत्र शोकाय कश्चिदपि अवसरः नास्ति । तयोः यथार्थं स्वभावं ज्ञात्वा पुरुषः गतासु अर्थाद् मरणशीलेभ्यः, अगतासु अर्थाद् अविनाशिने आत्मने च शोकं न करोति । परन्तु त्वयि एतौ परस्परविरोधिनौ स्वभावौ स्तः । अहम् एतान् मारयिष्यामि एतादृशं शोकं करोषि । तेन सह आत्मज्ञानजनितं धर्माधर्मयोः वर्णनं कुर्वन् असि । अनेन सिद्ध्यति यद्, त्वं न तु देहस्वभावं जानासि, न तु तस्माद् भिन्नम् आत्मानम् । ततोधिकं त्वम् आत्मतत्त्वस्य प्राप्तेः उपायरूपम् युद्धादिधर्मम् अपि न जानासि । वस्तुतः एतदेव युद्धं फलाभिसन्धिरहितेन भूत्वा क्रियते चेद्, तद् आत्मनः यथार्थस्वरूपस्य प्राप्तेः साधनं भवति । अभिप्रायः अस्ति यद्, आत्मनः सत्ता न जन्माधीना, न च तस्य आत्मतत्त्वस्य अभावः मराणाधीनः । किञ्च आत्मा जन्ममरणशीलः नास्त्येव । प्रत्युत शरीरं जडम् अस्ति । तद् स्वभावादेव परिणामि अर्थाद् परिवर्तनशीलम् अस्ति । तस्य उत्पत्तिः, नाशः च स्वाभाविकः । अत एव तस्य विषयेऽपि शोकः अयोग्यः ।

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
तमुवाच हृषीकेशः...
अशोच्यानन्वशोचस्त्वं... अग्रिमः
न त्वेवाहं जातु नासं...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. दृष्ट्वैमं स्वजनम्, गीता, अ. १, श्लो. २८
  3. स्वजनं हि कथं हत्वा सुखिनः स्याम माधव, गीता, अ. १, श्लो. ३७
  4. मा शुचः, गीता, अ. १८, श्लो. ६६
  5. अश्रुपातं न कुर्वीत दत्त्वा दाहजलाञ्जलिम् ।
    श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ॥
    अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ।
    ततस्तेषूपविष्टेषु पुराणज्ञः सुकृत्स्वकः ॥ गरुडपुराणम्, प्रेतकाण्डः, अध्यायः – ४, श्लो. ८०, ८१
  6. मृतानां बान्धवा ये तु मुञ्चन्त्यश्रुणि भूतले ।
    पिबन्त्यश्रूणि तान्यद्धा मृताः प्रेताः परत्र वै ।। स्कन्दपुराणम्, ब्रह्मस्कन्दः, सेतुः, ४८, श्लो. ४२
  7. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  8. पाण्डित्यं निर्विद्य
  9. रामानुजभाष्यम्
  10. दृष्ट्वैमं स्वजनम्, गीता, अ. १, श्लो. २८

अधिकवाचनाय[सम्पादयतु]