सामग्री पर जाएँ

भीष्मः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भीष्म इत्यस्मात् पुनर्निर्दिष्टम्)

महाभारते भीष्‍मः सर्वेषां कृते अतीव आदरणीयः महान्‌ कौरवः आसीत्‌ । सः शूरः धीरः मानी विवेकी कर्तव्‍यतत्‍परः प्रतिज्ञापरायणश्‍चासीत्‌ । महात्मा भीष्मः प्रसिद्धस्य कुरुवंशस्य महाराजस्यः शन्तनोः पुत्रः। गङ्गादेवी एतस्य माता । भीष्‍मः तयोः अष्‍टमः पुत्रः । महर्षेः वसिष्ठस्य शापेण भीष्मरूपेण अवतारं गृहीतवान् एषः वसूनां मध्ये नवमवसुः आसीत् । बाल्यकाले एव वेदाध्ययनं शास्त्राभ्यासं च कृतवान् आसीत् । तदा एव अभ्याससमये एकवारं शरप्रयोगेण गङ्गाधारां स्थगितवान् आसीत् । बाल्ये एतं देवव्रतः इति निर्दिशन्ति स्म ।

पितृभक्तः भीष्मप्रतिज्ञः च

[सम्पादयतु]
भीष्मस्य प्रतिज्ञावसरः रविवर्मचित्रम्

कदाचित् राजा शन्तनुः मृगयार्थं वनं गतवान् आसीत् । धीवरराजकन्यां सत्यवतीं (योजनगन्धा इति अपरनामिकां ) दृष्टवान् । तया सह विवाहं कर्तुम् इष्टवान् । किन्तु धीवरराजः सत्यवत्य़ाः पुत्रः एव अग्रे राज्याधिकारी भवेत् इति निर्बन्धं करोति । शन्तनुः एतं नियमं न अङ्गीकरोति । किन्तु सत्यवतीं न विस्मरति । सः विरहवेदनया खिन्नः अभवत् । तदा पुत्रः देवव्रतः एव पितुः दुःखस्य कारणं ज्ञात्वा स्वयमेव धीवरराजस्य समीपं गत्वा पितुः निमित्तं कन्यायाचनं करोति । धीवरस्य नियमान् अङ्गीकृत्य ‘सत्यवत्याः पुत्रः एव अग्रे राजा भविष्यति’ तदर्थम् आजीवनं ब्रह्मचर्यस्य व्रतं पालयामि’ इति भीष्मप्रतिज्ञां कृतवान् । एतद् श्रुत्वा देवाः अपि पुष्पवृष्टिं कृतवन्तः । तदारभ्य जनाः एतं ‘भीष्मः’ इति आहूतवन्तः । एतां प्रतिज्ञां श्रुत्वा राजा सत्यवतीं भीष्मेण सह प्रेषितवान् । भीष्मः सत्यवतीं स्वीकृत्य पितुः विवाहं कारितवान् । शन्तनुः महता आनन्देन पुत्राय इच्छामरणस्य वरदानं दत्तवान् । एवं भीष्मः जीवनारम्भे एव पितुः इच्छायाः पूर्णतायै स्वजीवनस्य त्यागेन आदर्शम् उपस्थापितवान् ।

कुरुवंशदायित्वम्

[सम्पादयतु]

सत्यवतीशन्तनोः पुत्रद्वयं जातम् । ज्येष्ठः चित्राङ्गदः कनीयः विचित्रवीर्यः च । पुत्रयोः बाल्ये एव पिता दिवङ्गतः । चित्राङ्गदः राजा अभवत् । किन्तु गन्धर्वैः सह युद्धावसरे एषः अपि मृतः जातः । बालकः विचित्रवीर्यः भीष्मस्य नेतृत्वे राज्यभारं कुर्वन् आसीत् । किञ्चित् कालानन्तरं काशीनरेशः स्वस्य तिसॄणां पुत्रीणां स्वयंवरं कारयन् आसीत् । तस्मिन् अवसरे भीष्मः काशीं गत्वा विचित्रवीर्याय तिसॄः कन्याः बलात् रथे उपवेश्य हस्तिनापुरं प्रति प्रस्थितवान् । स्वयंवरार्थम् आगताः सर्वे राजानः भीष्मेण सह युद्धं कृतवन्तः तथापि एतस्य अस्त्रकौशलस्य पुरतः केऽपि स्थातुं न शक्तवन्तः । भीष्मः तिसॄः कन्याः अपि आनीय विचित्रवीर्याय दत्तवान् । एतस्मिन् अवसरे प्रथमवारं भीष्मस्य पराक्रमस्य शौर्यस्य च प्रदर्शनम् अभवत् ।

प्रतिज्ञाबद्धः

[सम्पादयतु]

काशीराजस्य कन्यासु ज्येष्ठा अम्बा मनसि एव शाल्वराजं वृतवती आसीत् । यदा विषयः ज्ञातः तदा अनुक्षणं भीष्मः गौरवपूर्वकं तां तत्र प्रेषितवान् । द्वयोः कन्ययोः विवाहं विचित्रवीर्येण सह कारितवान् । किन्तु विचित्रवीर्यः अधिककालं न जीवितवान् । क्षयरोगात् सः मृतः जातः । तस्य अपत्यानि न आसन् । कुरुवंशस्य अन्त्यमेव आगतमिव भासते स्म । यदि इच्छति तर्हि भीष्मः राज्यं सुलभतया प्राप्तुम् अशक्ष्यत् । वंशस्य रक्षणाय विवाहं करोति चेत् कस्यापि आक्षेपः न अभविष्यत् । किन्तु सः स्वस्य प्रतिज्ञातः किञ्चिदपि विचलितः न अभवत् । कदाचित् सः उक्तवान् आसीत् यत् “अहं लोकत्रयस्य राज्य्पदविं, ब्रह्मपदविं, मोक्षपदविं वा त्यक्तुं शक्नुयां किन्तु सत्यं न त्यजामि। पञ्चभूताः स्वस्य गुणान् त्यजन्तु, धर्मराजः यमः स्वस्य धर्मं त्यजतु, चन्द्रः स्वस्य शीतलत्वं त्यजतु नाम किन्तु अहं मम प्रतिज्ञापालनतः विमुखः न भविष्यामि” इति ।

पराक्रमी भीष्मः

[सम्पादयतु]

तत्र अम्बां शाल्वः न स्वीकृतवान् । लज्जापमानेन सा भीष्मे द्वेषम् आरब्धवती । स्व-अवस्थायाः कारणं भीष्मः इति मत्वा सा प्रतीकारार्थं सज्जा अभवत् । पितामहः राजर्षिः होत्रवाहनस्य सूचनाद्वारा सा जमदग्नेः पुत्रे परशुरामे शरणागता अभवत् । परशुरामः भीष्मस्य अस्त्रगुरुः । अतः सः भीष्मम् आहूय अम्बायाः पाणीग्रहणं भवता करणीयमेव इति आग्रहं कृतवान् । किन्तु प्रतिज्ञाबद्धेन भीष्मेन गुरोः वचनं न श्रुतम् । गुरु-शिष्ययोः भयङ्करं युद्धम् आरब्धम् अभवत् । कस्यापि जयः न अभवत्। त्रयोविंशतिदिनपर्यन्तं युद्धं कृतवन्तौ । अन्ते देवाः मुनयः च आगत्य शान्तरीत्या युद्धस्य समापनं कारितवन्तः । एवं भीष्मः परशुरामसदृशेन अद्वितीयधनुर्धरेण सह अपि युद्धं कृत्वा स्वस्य अद्भुतं पराक्रमं दर्शितवान् ।

महाभारतयुद्धे पात्रम्

[सम्पादयतु]

महाभारतयुद्धे भीष्मः कौरवपक्षस्य सर्वश्रेष्ठः योधः आसीत् । अतः एषः प्रथमसेनानायकस्य दायित्वं गौरवं च प्राप्तवान् । पाण्डवानां, कौरवाणां च पितामहः सन् द्वयोः विषयेऽपि एतस्य समानौ प्रीत्यादरौ आस्ताम् । तथापि धर्मिष्ठपाण्डवानां विषये विशेष-आत्मीयता आसीत् । मनसि एव तेषां विजयम् इच्छति स्म । किन्तु युद्धे कुत्रापि पाण्ड्वेभ्यः सहानुभूतिं न दर्शितवान् । लक्ष्यं केवलं कौरवाणां विजये एव आसीत् । अष्टादशदिनात्मके युद्धे दशदिनपर्यन्तमपि एषः एव कौरवसेनानायकः आसीत् । पाण्डवसेनायाः अधिकं संहारमपि कृतवान् । वृद्धः चेदपि युद्धे एतस्य पराक्रमः तु अत्यद्भुतः आसीत्। द्विवारं स्वयं श्रीकृष्णः एव अर्जुनस्य रक्षणार्थं साहाय्यं कृतवान् , चक्रमपि गृहीतवान् । युद्धे शस्त्रग्रहणं न करोमि इति श्रीकृष्णः प्रतिज्ञां कृतवान् आसीत् । भीष्मः यावत् पर्यन्तं भवति तावत् पर्यन्तं कौरवाणां प्रति विजयम् असाध्यम् इति मत्वा पाण्डवाः पितामहम् एव तस्य मृत्योः उपायं पृष्टवन्तः । भीष्मः स्वयं स्वस्य मृत्योः उपायं सूचितवान् । ‘द्रुपदस्य पुत्रः शिखण्डी स्त्रीरूपेण जन्म प्राप्तवान् आसीत् । इदानीं सः पुरुषः इव परिवर्तितः चेदपि मम दृष्ट्या सः स्त्री एव । यदि सः मया सह युद्धं कर्तुम् आगच्छति तर्हि अहं शस्त्रप्रयोगं न करोमि । तस्मिन् अवसरे माम् अर्जुन्ः मारयितुं शक्नोति’ इति । क्षत्रियधर्मपालनस्य पराक्रमस्य विषये इतोऽपि श्रेष्ठम् उदाहरणम् अस्ति किम्?

अन्त्यम्

[सम्पादयतु]

युद्धे यदा मर्माघातेन भीष्मः पतितवान् तदा तस्य पूर्णशरीरं बाणेन पूरितमासीत् । शरशय्यायामेव सः शयितवान् आसीत् । भूमेः स्पर्शमपि न भवति स्म । तदा सूर्यः दक्षिणायने आसीत् । तस्मिन् अवसरे देहत्यागः सूक्तः न इति चिन्तयित्वा सः उत्तरायणस्य आगमनपर्यन्तमपि शरशय्यायामेव शयितवान् आसीत् । पितुः वरदानेन मृत्युः तु स्वयं तस्य अधीने आसीत् । युद्धे यदा सः पतितवान् तदा युद्धं समाप्य कौरवाः पाण्डवाः सर्वे तं परितः स्थित्वा दृष्टवन्तः । भीष्मस्य शरीरं तु बाणानाम् आधारेण स्थितम् आसीत् । किन्तु शिरः एवमेव कम्पते स्म । आधाररहितमासीत् । तत्र सः किमपि आधारम् इष्टवान् । सर्वे उत्तमोत्तमानि उपधानानि आनीय दत्तवन्तः । भीष्मः तद् सर्वं न इष्टवान् । अर्जुनम् उद्दिश्य ‘पुत्र ! क्षत्रियोचितम् उपधानमेकम् आनीय मह्यम् ददातु’ इति उक्तवान् । वीराणां संज्ञाः वीराः एव जानन्ति । अर्जुनः पुनः बाणप्रयोगेन तस्य शिरः उन्नीतवान् । शराधारेण शिरसः शरीरस्य च समतोलनम् अभवत् । दुर्योधनः तस्य शरीरतः बाणनिष्कासनाय वैद्यम् आनीतवान् चेदपि भीष्मः आदरपूर्वकं तं वैद्यं प्रेषितवान् । तस्मिन् समये अपि सः युद्धस्थगनाय शान्तिस्थापनाय च पूर्णं प्रयत्नं कृतवान् । किन्तु सफलः न जातः ।

शरशय्यायाम् असहनीयवेदनया भीष्मपितामहस्य कण्ठः शुष्कः आसीत् । पूर्णं शरीरं ज्वलति स्म । सः पातुं जलम् इष्टवान् । जनाः शीतलं सुगन्धयुक्तं जलम् आनीतवन्तः । एषः तदपि तिरस्कृत्य उक्तवान् ’ पूर्वम् उपयुक्तं मानवीयं फलानुभवम् इदानीं न् स्वीकरोमि । यतः इदानीम् अहं शरशय्यायाम् अस्मि । अनन्तरम् अर्जुनम् उद्दिशय ‘पुत्र ! भवान् एव मह्यं विध्युक्तं जलं ददातु’ इति । ’भवतः आज्ञा शिरोधार्या’ इत्युक्त्वा अर्जुनः भीष्मस्य पार्श्वे भूमौ एव स्वस्य पर्जन्यास्त्रं प्रयुक्तवान् । सर्वे पश्यन्तः आसन् । भूमीतः एका दिव्यजलधारा आगत्य साक्षात् भीष्मस्य मुखे एव अपतत् । अमृतसमानं तत् जलं पीत्वा भीष्मःः तृप्तः जातः । अर्जुनस्य प्रशंसां कृतवान् । तदारभ्य भीष्मः अन्नजलं त्यक्तवान् । अन्तिमश्वासपर्यन्तं बाणवेदनां बुभुक्षापिपासां च सोढवान् । एवं सः पराक्रमेण सह धैर्यस्य सहनशीलतायाः अपि उत्कृष्ट-उदाहरणं दर्शितवान् ।

भीष्मः केवलं पितृभक्तः, सत्यवादी, प्रतिज्ञाबद्दः, आदर्शवीरः वा न आसीत् । सः शास्त्राणां महान् ज्ञानी, धर्मज्ञानी, ईश्वरज्ञानी च आसीत् । तस्य ज्ञानस्य विषये स्वयं भगवान् एव प्रशंसां कृत्वा एवम् उक्तवान् अस्ति यत् ’यदा एतस्मात् लोकात् भवान् गच्छति तदा भवता सह सर्वमपि ज्ञानं गच्छति । प्रपञ्चे विद्यमानेभ्यः सन्देहास्पदेभ्यः विषयेभ्यः भवन्तं विहाय अन्ये केऽपि समाधानं परिहारं वा दातुं न शक्नुवन्ति’ इति । श्रीकृष्णपरमात्मनः प्रेरणया, शक्त्या सह एषः युधिष्ठिराय बहुदिनपर्यन्तं वर्णाश्रमधर्मः, राजधर्मं, आपद्धर्मं, मोक्षधर्मं, श्रद्धाधर्मं, स्त्रीधर्मं च उपदिष्टवान् । एते विषयाः महाभारतस्य शान्तिपर्वणि, अनुशासनपर्वणि च सङ्गृहितानि सन्ति । साक्षात् धर्मस्य अंशेन उत्पन्नस्य, धर्मस्य प्रत्यक्षमूर्तेः राज्ञः युधिष्ठिरस्य धार्मिकविषयानां सन्देहनिवारणमेव भीष्मस्य कार्यमासीत् । एतस्य उपदेशं श्रोतुं व्यासादयः मुनयः अपि आगच्छन्ति स्म ।

श्रीकृष्णपरमात्मनः महिमायाः, प्रभावस्य च ज्ञानं यथा भीष्मस्य आसीत् तथा ज्ञानं अन्यस्य नासीत् । अर्थात् श्रीकृष्णं बहुन्यूनाः जनाः जानन्ति स्म । धृतराष्ट्रदुर्योधनेभ्यः भीष्मः बहुवारं श्रीकृष्णस्य माहात्म्यं सूचितवान् आसीत् । राजसूययज्ञे अग्रपूजायै श्रीकृष्णः एव सर्वोत्तमः इति निर्णीय एषः पूर्णसभायां श्रीकृष्णस्य महिमायाः गुणगानं कृत्वा सः साक्षात् परमेश्वरः एव इति बुद्धिवादम् उक्तवान् आसीत् । यदा श्रीकृष्णः चक्रं गृहीतवान् तदा भीष्मः परमात्मनः हस्ततः मरणं तु स्वस्य सौभाग्यम् इति मत्वा शस्त्रद्वारा पूजां कर्तुं तस्य आह्वानं कृतवान् । युधिष्ठिराय भीष्मः विष्णुसहस्रनामस्तोत्रम् उक्तवान् । तत्र तु एतस्य भगवद्भक्तिः ज्ञानं च प्रवहति । तस्य भक्तिकारणतः एव तस्य अन्त्यकाले श्रीकृष्णः तस्मै दर्शनं दत्त्वा तं कृतार्थं कृतवान् । एवं भक्तौ, ज्ञाने, सदाचारेषु एषः आदर्शप्रायः । प्रपञ्चस्य इतिहासे एतादृशाः जनाः न्यूनाः । भीष्मःः पुत्रहीनः चेदपि सर्वे त्रिवर्णीय हिन्दवः अपि पितृतर्पणकरणसमये एतस्मै अपि अर्घ्यम् अर्पयन्ति । एतादृशः गौरवः भारतस्य इतिहासे अन्यस्य कस्यापि नास्ति । पूर्णं जगत् अद्यापि एतं पितामहः इति आह्वयति । भीष्मसदृशस्य पुत्रहीनस्य सौभाग्यं तु पुत्रवताम् अपि असूयां जनयति ।

"https://sa.wikipedia.org/w/index.php?title=भीष्मः&oldid=403529" इत्यस्माद् प्रतिप्राप्तम्