सामग्री पर जाएँ

संस्कृतभारती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतभारती (Samskrita Bharati) इति काचित् संस्था या च संस्कृतस्य संरक्षणार्थं ,संवर्धनार्थं , प्रसारणार्थं च अविच्छिन्नरूपेण निरन्तरं कार्यं कुर्वती अस्ति । एतस्याः प्रधानकार्यालयः देहल्यां विद्यते । जगति संस्कृतभाषां व्यावहारिकाभाषात्वेन आनेतुं श्रममाणा अस्ति एषा संस्था ।

कार्यलक्ष्यम्

[सम्पादयतु]

संस्कृतस्य सर्वतोमुखविकासं सम्पाद्य भारतस्य सर्वाङ्गीणोन्नतिसम्पादनमेव "संस्कृतभारत्या:" चरमं लक्ष्यम् । दूरगामिलक्ष्यमिदं साकारीकर्तुम् अपेक्षितस्य देशव्यापिन:, विशालस्य, गुणसम्पन्नस्य, शक्तिशालिन: 'संस्कृतभारती’-नामकस्य जनसङ्घटनस्य निर्माणं समीपवर्तिलक्ष्यम् वर्तते । परं सङ्घटनस्य प्रत्येकं घटकस्य कृते तु लक्ष्यं भवति संस्कृतस्य विकासाय कार्यकरणं, राष्ट्रोन्नतिसम्बन्धिषु कार्येषु सहभाग: चेति ।

१) व्यावहारिकभाषारूपेण पुनरानयनम्

[सम्पादयतु]

चतु:शतात् वर्षेभ्य: पूर्वं विश्वे ५००० भाषा: आसन् । इदानीम् उपद्विसहस्रा: सन्ति । व्यवहार: परित्यक्त: इत्यत: 3000 भाषा: विनष्टा: । व्यवहारह्रासादेव सहस्राधिका: भाषा: विनाशपथे सन्ति । "संस्कृतभाषा नित्यव्यवहारस्य भाषा करणीया इति।

२) शैक्षिकपरिवर्तनम्

[सम्पादयतु]

सर्वकारीयनीतिपरिवर्तनं तु बहुसमयसाध्यम् । शैक्षिकं चिन्तनं प्रयोगश्च प्रत्यक्षत: परोक्षत: वा अस्माकं संस्कृतज्ञानाम् अधीनानि भवन्ति । अत: शैक्षिकपरिवर्तनं प्रारम्भबिन्दु: भवितुम् अर्हति । संस्कृत-शिक्षणे 'संस्कृतस्य शिक्षणं’ भवेत्, न तु केवलं संस्कृतस्य विषये, वाङ्मयसम्बन्धे वा । संस्कृतशिक्षणविधे: गुणवत्ता, पाठ्यपुस्तकानां गुणवत्ता, शिक्षकाणां गुणवत्ता इति त्रिषु अंशेषु गुणवर्धनाय प्रयत्न: भवेत् । संस्कृतस्य संस्कृतमाध्यमेन पाठनं भवेत् । संस्कृतशिक्षणे प्राचीनार्वाचीनयो: उभयो: अपि विषययो: सङ्गम: भवेत् । कक्ष्यासु संस्कृतभाषाशिक्षणं तावद् आकर्षकं करणीयं यद् सर्वे छात्रा: संस्कृतमेव स्वीकुर्यु:, तावद् प्रभावि करणीयं यद् सर्वे छात्रा: संस्कृतेन भाषितुं लेखितुं च समर्था: भवेयु:, तावद् प्रेरणादायि करणीयं यद् सहस्रश: छात्रा: पश्चात् शास्त्राध्ययने प्रवृत्ता: भवेयु: ।

३) स्वाध्ययनसामग्रीनिर्माणम्

[सम्पादयतु]

अभ्यासस्य पूरकरूपेण पुस्तकानि, ध्वनिमुद्रिका:,‘डिविडि’ इति त्रिविधा: सामग्र्य: अत्यन्तम् आवश्यक्य: । तासु अपि बहुवैविध्यानि भवेयु: । यथा - शिक्षार्थिनां वयस: अनुगुणं, शैक्षिकपृष्ठभूम्यनुसारं, वृत्त्यनुसारं, रुच्यनुसारं च विभिन्नानि पुस्तकानि भवितुम् अर्हन्ति । विभिन्नविषयाणां द्वारा शिक्षणाय बहुविधानि पुस्तकानि, भाषाशिक्षणस्य विभिन्नविधीनां द्वारा शिक्षणाय पुस्तकानि, संस्कृत-वाङ्मयस्य विविधांशानां शिक्षणाय पुस्तकानि, व्याकरणस्य एकैकं प्रकरणम् अधिकृत्य पुस्तकानि - इत्येवंप्रकारेण सहस्राधिकविधपुस्तकानि भवितुम् अर्हन्ति । तावन्ति एव डिविडि, ध्वनिमुद्रिका: च भवेयु: ।

४) सान्ध्यशिक्षणकेन्द्राणि

[सम्पादयतु]

संस्कृताभिमानिन: संस्कृतपिपठिषव: समाजे असंख्या: सन्ति । स्थाने स्थाने, नगरे नगरे, ग्रामे ग्रामे सान्ध्यशिक्षणकेन्द्रम् आरब्धम् । तत्र बहुविधा: कक्ष्या: भवन्ति - प्रारम्भिका: कक्ष्या:, प्रगतपाठ्यक्रमा:, विविधविषयाणां शिक्षणकार्यक्रमा: चेति । स्वल्प-कालिका: दीर्घकालिका: च पाठा: ।

५) शास्त्रशिक्षणम्

[सम्पादयतु]

संस्कृतभाषाध्ययनं नाम प्रथमसोपानम् । काव्याध्ययनं द्वितीयं सोपानम् । वास्तविकं संस्कृताध्ययनं नाम शास्त्राध्ययनम् एव । समग्रसंस्कृतवाङ्मयस्य नवनीतभूतं तु शास्त्राणि । भारतीयं ज्ञानम् इति कथ्यमानं तत्रैव वर्तते । परन्तु अद्यत्वे शास्त्राध्येतार: विरला: । सुष्ठु अध्यापयितार: तु विरलतरा: । सा शास्त्रपरम्परा नष्टा चेद् भारतस्य सर्वस्वमपि नष्टमिव । अत: अस्माभि: शास्त्राध्ययनसम्बन्धे विशेषचिन्तनं करणीयम् । सर्वेऽपि तदर्थं प्रेरणीया: । केचन प्रतिभावन्त: छात्रा: एतदर्थं चेतव्या:, शास्त्राध्ययने योजनीया:, अपेक्षितम् अर्थव्यवस्थादिकं कर्तव्यं च । शास्त्रपरिचायकशिबिराणि, शास्त्रार्थचिन्तनगोष्ठ्य:, शास्त्रकक्ष्या:, शास्त्रपरीक्षा: इत्यादय: स्थाने स्थाने आयोजनीया: । प्रतिशास्त्रं व्युत्पन्ना: युवविद्वांस: निर्मातव्या: ।

६) नवसाहित्यनिर्माणम्

[सम्पादयतु]

यथा जना: गतसप्ताहस्य दिनपत्रिकां पठितुं न इच्छन्ति । अत: संस्कृते अपि अद्यतनजगत: सम्बद्धानां विषयाणां नवं साहित्यं स्रष्टव्यम् । तत्रापि बालसाहित्यं, मनोरञ्जनसाहित्यं, कथासाहित्यं, विज्ञानसाहित्यम् - इत्येवं साहित्यस्य विविधप्रकाराणां निर्माणं करणीयम् । सृष्टे नवसाहित्ये अद्यतनसन्निवेशा:, अद्यतनविषया:, अद्यतननामानि, अद्यतनं जीवनम्, अद्यतनी वैज्ञानिकी प्रगति: इत्यादिकं प्रतिबिम्बितं स्यात् । अद्यत्वे विश्वे सर्वासु अपि भाषासु महोन्नतसाहित्येषु अपि सरलतमभाषाया: प्रयोग:, गद्यात्मकता इति एतद् अंशद्वयं प्रचारे अस्ति । तदुभयमेव जनै: इष्यते, तथैव लिख्यते च । अत: संस्कृते अपि वाचकरुच्यनुगुणं सरलतमसंस्कृतेन प्रणीतं गद्यात्मकम् अभिनवं साहित्यं स्रष्टव्यम् । एतस्मिन् कार्ये अनुवाद:, अनुकरणं, सर्जनम् इति सोपानत्रयं भवितुम् अर्हति ।

७) दूरस्थशिक्षणम्

[सम्पादयतु]

संस्कृतभारत्या: द्वारा पत्राचारमाध्यमेन संस्कृतस्य पाठनस्य व्यवस्था कतिपयेषु राज्येषु अस्ति । यथा यथा शक्ति: वर्धेत तथा तथा सर्वेषु अपि राज्येषु एषा व्यवस्था आरब्धा भवितुम् अर्हति । पत्राचारमाध्यमेन बहूनां संस्कृतविषयाणां बहुविधपाठ्यक्रमा: भवितुम् अर्हन्ति । इण्टरनेट्माध्यमेन शिक्षणम्, 'सेटलैट् चानल्’माध्यमेन संस्कृतशिक्षणम् इत्येतादृश्य: काश्चन महाव्यवस्था: अपि करणीया: ।

कार्यक्रमाः

[सम्पादयतु]

लक्ष्यसाधने कार्यक्रमाः साधनभूताः भवन्ति । कार्यक्रमः एव उद्देशः न, उद्देशार्थं कार्यक्रमः भवति । विचारप्रचारः, भाषशिक्षणं, कार्यकर्तृनिर्माणं, धनसङ्ग्रहः, नूतनक्षेत्रप्रवेशः, उत्साहवर्धनं, सङ्घटनं, कार्यस्य दृढीकरणम् इत्यादीन् विविधान् उद्देशान् साधयितुं तदनुगुणं कार्यक्रमान् रूपयामः । स्थानीयस्तरे कर्तुं योग्याः कार्यक्रमाः, जिला-महानगर-विभाग-राज्यस्तरेषु कर्तुं योग्याः कार्यक्रमाः इति अत्र द्विधा दद्मः ।

स्थानीयस्तरे

[सम्पादयतु]
  • सम्भाषणशिबिरम्
  • साप्ताहिकमेलनम्
  • संस्कृतदिवसः संस्कृतसप्ताहश्च
  • प्रतियोगिताः (स्पर्धाः)
  • संस्कृतबालकेन्द्रम्
  • सान्ध्यशिक्षणकेन्द्राणि
  • विविधजयन्त्यः / सामाजिकसमरसतादिनम्
  • पत्रालयद्वारा संस्कृतशिक्षणम्
  • संस्कृतगृहम्
  • स्नेहमेलनम् / कौमुदीकार्यक्रमः
  • संस्कृतप्रवासः
  • संस्कृतसन्ध्या
  • प्रदर्शिनी
  • शोभायात्रा
  • वीथीनाटकम्
  • वीथीभाषणम्
  • सम्भाषणशिबिरप्रात्यक्षिकाणि
  • सन्देशाभियानम्
  • सम्पर्कसप्ताहः / सम्पर्कपक्षः
  • छात्रशिक्षणशिबिरम्
  • स्वाध्यायशिबिरम्
  • संस्कारशिबिरम् / ग्रीष्मशिबिरम्

मण्डल/महानगर/विभाग/राज्यस्तरे

[सम्पादयतु]

संस्कृतभाषायाः संरक्षणार्थं एते कार्यक्रमाः आयोजनीयाः । ते क्रमशः भवन्ति।

  • अभ्यासवर्गः
  • भाषाबोधनवर्गः
  • शिक्षकप्रशिक्षणशिबिरम्
  • व्याकरणशिबिरम् / सिद्धान्तकौमुदीशिबिरम्
  • संस्कृतगृहसम्मेलनम्
  • शिक्षकसम्मेलनम्
  • छात्रसम्मेलनम्
  • महिलासम्मेलनम्
  • शास्त्रगोष्ठी / शास्त्रशिबिरम्
  • संस्कृतविज्ञानकार्यक्रमाः
  • शैक्षिककार्यशाला
  • नाटकोत्सवः
  • सम्भाषणोत्सवः / शिबिराभियानम्
  • व्यक्तित्वविकासशिबिरम् (नेतृत्वप्रशिक्षणम्)

संस्कृतभारती, गुजरातराज्यम्

[सम्पादयतु]

गुजरातराज्ये न्यासत्वेन संस्कृतभारती, गुजरातम् इति संस्था पञ्जीकृता वर्तते। तत्र निःशुल्कतया संस्कृतसाहित्यम् अङ्कीयतया प्रदातुं "संस्कृतसाहित्य-निर्माणम् अन्तर्जालद्वारा तत्प्रसारणं च" इति प्रकल्पः प्रचलति। एतस्मै प्रकल्पाय गुजरात-साहित्य-अकादमी-संस्था अनुदानं ददाति। एषः प्रकल्पः निःशुल्कतया अन्तर्जालीयमाध्यमेन आधुनिकं संस्कृतसाहित्यं जनसामान्याय उपलब्धं कारयति। एतस्य प्रकल्पस्य अन्तर्गततया मुख्यतया आधुनिक-विषयाणां, सरलीकृतसंस्कृतविषयाणां, प्रसिद्धस्थलानां, प्रसिद्धजनानां, भारतसर्वकारस्य, गुजरातसर्वकारस्य, भारतस्य पर्यटनस्थलानां, गुजरातराज्यस्य पर्यटनस्थलानां च परिचयात्मकाः लेखाः अङ्कीयता (digitally), निःशुल्कतया च जनसामान्येभ्यः उपलब्ध, येन आधुनिकसंस्कृताभाषायाः विकासः भवेत्। एतस्य प्रकल्पस्य माध्यमेन संस्कृतविद्यार्थिषु, संस्कृतप्राध्यापकेषु, संस्कृतशिक्षकेषु च अनुवादस्य, संशोधनस्य, सङ्गणकमाध्यमेन आधुनिकसंस्कृतस्य च महत्त्वं प्रस्थाप्य संस्कृतक्षेत्रस्य जनेभ्यः प्रशिक्षणम् अपि दीयते, येन संस्कृतजनाः अपि आत्मनिर्भरतया संस्कृते अनुवादं, संशोधनं, सङ्गणकाधारितस्य संस्कृतसाहित्यस्य निर्माणं च कर्तुं योग्याः भवेयुः। आधुनके युगे संस्कृतम् अपि अन्यभाषावत् विकासस्य योग्यम् अवसरं प्राप्नुयात्, अतः एषः प्रकल्पः संस्कृतहिताय प्रचलति।

संस्कृतसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च

[सम्पादयतु]

एतस्य प्रकल्पस्य आरम्भः २०१२ तमवर्षे जातः आसीत्। गुजरातराज्यस्य तत्कालीनः मुख्यमन्त्री, वर्तमानः प्रधानमन्त्री च श्रीनरेन्द्रमोदी संस्कृताय अपि आधुनिकस्पर्धायां स्थायि-साहाय्यं प्रदातुम् एतस्य प्रकल्पस्य आरम्भाय प्रेरणाम् अकरोत्। अतः मुख्यमन्त्रिणः प्रेरणानुसारं २०१२ तमवर्षे संस्कृत-साहित्य-अकादमी-संस्था स्वामिविवेकानन्दस्य सार्धशत-जन्मोत्सवावसरे संस्कृतस्य स्थायि-विकासाय एनं प्रकल्पम् अपि संस्कृतभारत्याः गुजरातकेन्द्रे आरब्धवती। संस्कृसाहित्यनिर्माणम्, अन्तर्जालद्वारा तत्प्रसारणं च इत्यस्य प्रकल्पस्य आङ्ग्लं नाम Sanskrit Corpus Building and Sharing through Internet Medium इति, गुर्जर्नाम સંસ્કૃત સાહિત્યનું નિર્માણ અને તેનું અન્તર્જાલ દ્વારા પ્રસારણ इति च अस्ति।

विशालप्रमाणे संस्कृते आधुनिकस्य, शास्त्रीयस्य च साहित्यस्य निर्माणं भवेत्, तस्य साहित्यस्य अङ्कीयतया, निःशुल्कतया च सर्वेभ्यः उपलब्धिः भवेत् इति एतस्य प्रकल्पस्य उद्देशः अ्सति। "संस्कृते सम्भाषणस्य आन्दोलनवत् संस्कृते आधुनिकलेखानां निर्माणम् अपि जन-आन्दोलनं भवेत् इत्यस्य कृते सर्वे संस्कृतजनाः अपि योगदानं कृत्वा संस्कृतम् अङ्कीयक्षेत्रे आत्मिनिर्भरं कुर्यात् इत्यपि अस्य अपरः उद्देशः।"

संस्कृतक्षेत्रस्य समस्या

  1. संस्कृतं काचित् व्याप्तसाहित्यस्य स्वामिनी, समृद्धा च भाषा वर्तते, संस्कृतभाषायाः विद्यार्थिनः, उपयोगकर्तारः च सम्पूर्णे गुजरातराज्ये, सम्पूर्णभारते च कोणे कोणे विद्यन्ते। एतस्यां स्थित्यां संस्कृतस्य अङ्कीयकरणम् अतीव अनिवार्यं भवति, येन सर्वे संस्कृताभिलाषिणः आधुनिकमाध्यमेन संस्कृतसाहित्यं प्राप्नुयुः। गुजरातराजस्य सर्वेषु जनपदेषु, ग्रामेषु च संस्कृतसाहित्यं प्रेषणीयं भवति।।
  2. संस्कृतभाषा तु अतीव प्राचीनभाषा अस्ति। भारतीयसंविधाने संस्कृतभाषा आधुनिकभाषायाः सूच्यां योजिता वर्तते, परन्तु संस्कृते आधुनिकविषयाणां साहित्यम् अतीव विरलतया प्राप्यते, येन आधुनिकभाषासु संस्कृतस्य पृष्ठे गमनस्य भयः अस्ति। अतः संस्कृतभाषायाम् आधुनिकविषयाः उपलब्धाः भवेयुः, तथा व्यवस्था करणीया भवति।
  3. आधुनिकमञ्चेषु सर्वासां भारतीयासु, विदेशीयासु च भाषासु विशालप्रमाणे आधुनिकं, शास्त्रीयं च साहित्यम् उपलब्धम् अस्ति, परन्तु संस्कृतभाषायां विश्वस्य देशानाम् अपि परिचयः न प्राप्यते। ततोऽधिकं भारतस्य मध्यकालीनः इतिहासः, स्वतन्त्रतायाः इतिहासः, भारतस्वतन्त्रतायाः उत्तवर्ति-इतिहासः इत्यादिकानां परिचयात्मकः लेखाः अपि संस्कृतभाषायां न सन्ति, अतः आधुनिकसंस्कृतस्य छात्रः संस्कृतं त्यक्त्वा अन्याभ्यः भाषाभ्यः साहित्यं पठितुं विवशः अस्ति।


उक्तानां समस्यानां समाधानाय एव स्थायि-प्रकल्पोऽयम् आरब्धः अस्ति। एतस्य प्रकल्पस्य अन्तर्गततया एतावता A4 आकारस्य ३५,००० पृष्ठानि आरोपितानि सन्ति।

वीथिका

[सम्पादयतु]
  • संस्थापकसदस्यौ

अवलोकताम्

[सम्पादयतु]

संस्कृतभारत्याः कार्यपद्धतिः

बाह्यानुबन्धाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=संस्कृतभारती&oldid=486516" इत्यस्माद् प्रतिप्राप्तम्