संस्कृतभारत्याः कार्यपद्धतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


संस्कृतभारत्याः कार्यपद्धतिः कार्यकर्तृनिर्माणस्य प्रक्रिया, व्यवस्था च मन्यते । संस्कृतभारत्याः कार्यपद्धतिः पारिवारितपद्धतिः अपि उच्यते ।

कार्यपद्धतिः[सम्पादयतु]

कस्यचिद् सङ्घटनस्य विचारः / सिद्धान्तः कार्यपद्धतिः चेति उभयम् एकस्यैव नाणकस्य मुखद्वयमिव भवति । कार्यकर्तारः कार्यपद्धतिः इति एतौ रथस्य चक्रे इव महत्त्वभूतौ भवतः । कार्यपद्धतिः अपि सङ्घटनस्य लक्ष्यसाधने साधनभूता भवति । कार्यकर्तृनिर्माणस्य प्रक्रिया, व्यवस्था, पद्धतिः एव ‘कार्यपद्धतिः’ भवति । सा एव सङ्घटनस्य विशिष्टा कार्यशैली । सङ्घटनसदस्यैः सर्वैः सा पद्धतिः ज्ञातव्या, तया पद्धत्या एव कार्यं करणीयं च । कार्यक्रमाः, कार्यकर्तारः, कार्यपद्धतिः इति त्रिषु कस्य किं महत्त्वम् ? कार्यक्रमाः उत्तमाः सफलाः च यदि भवन्ति तर्हि ततः कार्यकर्तारः लभ्यन्ते । कार्यकर्तारः उत्तमाः भवन्ति चेत्, न केवलं कार्यक्रमाणां विषये, अपि तु कार्यपद्धतेः विषये अपि अवधानं कुर्वन्ति । कार्यपद्धतिः उत्तमा अस्ति चेत्, कार्यक्रमाः अपि यशस्विनः भवन्ति, तथा च विद्यमानानां कार्यकर्तॄणां विकासः भवति, नूतनानां कार्यकर्तॄणां प्राप्तिश्च भवति । अतः उत्तमाः कार्यकर्तारः सर्वदा कार्यपद्धतेः उत्तमतायै, कार्यपद्धतेः अनुसरणाय च विशेषास्थां प्रदर्शयन्ति । यदि कार्यकर्तृभिः कार्यपद्धतिः सम्यग्प्रकारेण अनुस्रियमाणा अस्ति, तर्हि कदाचित् कार्यकर्तॄणां न्यूनतासु सतीषु अपि कार्यपद्धतिः कार्यक्रमान् अयशस्विनः भवितुं न त्यजति । तथैव कार्यकर्तॄन् दोषान् कर्तुं न त्यजति अथवा ताः न्यूनताः कार्यपद्धतिः एव पूरयति । अतः यथा ‘धर्मो रक्षति रक्षितः’ इति अस्ति तथा ‘पद्धतिः रक्षति रक्षिता’ इत्यपि । अस्माभिः रक्षिता कार्यपद्धतिः अस्मान् रक्षति, (स्खलितुं न त्यजति) कार्यं रक्षति, सङ्घटनं रक्षति च ।

अस्माकं कार्यशैली पारिवारिकी शैली वर्तते । परिवारे यथा परस्परम् आत्मीयतया प्रेम्णा च परस्परं पूरकाः सन्तः परिवारहितमेव मनसि निधाय गणभावेन सर्वे कार्यं कुर्वन्ति, जीवन्ति, पद-स्थान-अधिकार-प्रचारादिचिन्ता न भवति, तथा संस्कृतभारत्यामपि भवति । सर्वे कर्तव्यबुद्ध्या, धर्मबुद्ध्या, लक्ष्यैकचित्ताः सन्तः कार्यं कुर्वन्ति । एषा पारिवारिकता, पारस्परिकता, मुक्तता च संस्कृतभारत्याः विशिष्टता ।

यद्यपि सर्वेषु कार्येषु व्यक्तिः अत्यन्तं महत्त्वभूता, व्यक्तेः चिन्तनरीतिः कार्यशैली, कार्यसामर्थ्यं, सक्रियता च कार्यफलं निर्धारयति, तथापि संस्कृतभारतीकार्यं व्यक्तिकेन्द्रितं न । व्यक्तिः अपरिहार्या अपि न । तत्त्वं, विचारः, सिद्धान्तः वा प्रेरणामूलम् । अतः अस्माकं तत्त्वकेन्द्रितं कार्यम् । यद्यपि सङ्घटनस्य ज्येष्ठेषु अस्माकं श्रद्धा विश्वासश्च भवति, तथापि कार्यकर्तृषु व्यक्तिनिष्ठतायाः अपेक्षया सङ्घटननिष्ठताम् एव आनेतुं प्रयत्नं कुर्मः । व्यक्तेः जीवनं दृष्ट्वा प्रेरिताः चेदपि पश्चात् कार्यमेव, सङ्घटनमेव विचिन्त्य प्रेरणां प्राप्नुमः । व्यक्तेः परिश्रमं, समर्पणं च दृष्ट्वा वयं सङ्घटनसमीपम् आगताः चेदपि व्यक्तेः न्यूनताः, स्खालित्यानि वा दृष्ट्वा दूरं न गच्छामः । ‘सः एवम् उक्तवान्, अतः अहं कार्यं न करोमि’ इति कथनम् अस्माकं चिन्तनशैली न, यतः अहं ‘तस्य’ निमित्तं कार्यं न करोमि, अपि तु ‘तत्त्व’निमित्तं करोमि । संस्कृतभारत्यां न कोऽपि अधिकारी, न कोऽपि सेवकः । न नायकः, न अनुयायी वा । सर्वेऽपि कार्यकर्तारः - सहकार्यकर्तारः । कश्चन प्राचार्यः, तस्य महाविद्यालयस्य कर्मचारी च वर्तते इति चिन्तयाम । महाविद्यालये कश्चन कार्यक्रमः अस्ति चेत् स्वच्छताम् आसन्दव्यवस्थां च प्राचार्यः सेवकद्वारा कारयेत् । परन्तु तौ एव द्वौ संस्कृतभारत्याः कार्यक्रमे कार्यकर्तृरूपेण स्तः चेत्, तत्र तौ प्राचार्यसेवकौ न स्तः, अपि तु कार्यकर्तारौ । अतः स्वच्छता-आसन्दव्यवस्थादिकं द्वाभ्यामपि मिलित्वा करणीयम् । संस्कृतभारत्याः पदाधिकारिषु अपि ‘अहम् एकः सामान्यः कार्यकर्ता’ इति भावना सदा, प्रतिक्षणं च जागरिता एव स्यात् । संस्कृतभारत्याम् अधिकारिभावनायाः, अहङ्कारस्य च स्थानमेव नास्ति । क्वचित् एवं भवति यत् कश्चन संस्कृतप्राध्यापककार्यकर्ता अस्ति चेत्, सः संस्कृतभारत्यां स्वस्य च्छात्राणां द्वारा कार्यं कारयति, स्वयं न करोति । तदा सः आदर्शकार्यकर्तृरूपेण इतरेभ्यः उदाहरणभूतः भवितुं न शक्नोति ।

सेववृतिशृङ्खला[सम्पादयतु]

यद्यपि कार्यारम्भकाले कोऽपि एकः एव कार्यकर्ता भवेत्, क्रमशः तेन कश्चन गणः निर्मातव्यः । पश्चात् सर्वैः मिलित्वा गणरूपेण कार्यं करणीयम् । गणरूपेण कार्यकरणे, कार्यचिन्तने, निर्णयप्रक्रियायां च सर्वेषां सहभागः आवश्यकः । सम्यक् कार्ययोजना कृता स्यात्, सर्वेभ्यः कार्याणि वितीर्णानि स्युः, सर्वेषां स्वदायित्वबोधः भवेत्, यशसि प्राप्ते सर्वेभ्यः तस्य यशसः वितरणं स्यात् (न तु कोऽपि एकः यशसः उत्तरदायित्वं स्वीकुर्यात्), सङ्घटने उपरिष्टाद् अधः, अधस्ताद् उपरि इति द्विमुखरूपेण निरन्तरं विचारसंवहनं भवेत्, सामूहिकरूपेण कार्यकरणविषये सर्वेषाम् आस्था भवेत् । कार्यकरणं नाम एकव्यक्तिप्रदर्शनं नैव । सामूहिकता कार्यपद्धतेः श्रेष्ठः गुणः ।

सङ्घटने अनामिकरूपेण स्थित्वा स्वयं कार्यं कुर्वन्तः इतरेभ्यः कार्यं कारयन्तः च अन्यान् एव अग्रे आनयन्तः कार्यकर्तारः यावदधिकाः भवन्ति, तावत् सङ्घटनस्य बलम् अधिकं भवति । तादृशाः कार्यकर्तारः सर्वेभ्यः अपि प्रेरणादातारः भवन्ति । वैयक्तिकप्रसिद्धिपराङ्मुखता, अनामिकता च समाजमानसे संस्कृतभारत्याः विशिष्टं स्थानं कल्पयति । वाचि, व्यवहारे, जीवने, कार्ये च निष्कपटता कार्यकर्तॄणां, सङ्घटनस्य च विश्वासपात्रतां वर्धयति । संस्कृतभारत्याः सर्वेषु अपि कार्येषु, कार्यक्रमेषु, व्यवहारेषु, कृतिषु वा पारदर्शकता स्यात् । सार्वजनिकसङ्घटनस्य निष्कलङ्कता नाम पारदर्शकता । कार्यावसरे सर्वे निर्णयाः सामूहिकाः भवेयुः । सम्बद्धाः कार्यकर्तारः सर्वे उपविश्य चिन्त्यमानस्य विषयस्य गुणावगुणादीनि सर्वाणि मुखानि विचिन्त्य निर्णयं कुर्युः । तत्सम्बन्धिन्यां चर्चायां सर्वे भागं वहेयुः, मुक्तमनस्कतया वदेयुः च । निर्णयपर्यन्तं मतभेदाः भवेयुः, परम् एकवारं निर्णये जाते, स च निर्णयः सर्वमान्यः स्यात् । तावत्पर्यन्तं यः विरोधं कुर्वन् आसीत् तस्यापि सः निर्णयः एव अभिमतः । पूर्वतनं पूर्णतया विस्मर्तव्यं तेन । सः निर्णयः केनचित् कारणेन असमीचीनः इति अनन्तरकाले ज्ञातं चेदपि एतेन ‘अहं पूर्वमेव उक्तवान् आसं, भवन्तः न श्रुतवन्तः’ इति न वक्तव्यम् । सफलतायां विफलतयां च समूहेन स्वीकृतस्य निर्णयस्य सम्बन्धे स्वस्य सा पूर्णा प्रतिबद्धता स्यात् । तस्यां गोष्ठ्याम् अनुपस्थितः चेदपि तेन समूहनिर्णयः हृदयेन अङ्गीकर्तव्यः । तस्य निर्णयस्य क्रियान्वयनाय मनःपूर्वकं कार्यं करणीयम् ।

चिन्तनगोष्ठ्यः[सम्पादयतु]

उपवेशन(बैठक्)विषये कस्यापि कदापि आस्था न्यूना न भवेत् । प्रत्येकम् अपि कार्यकर्ता, सः कार्यं कुर्वन्/कृतवान् स्यात्, न कुर्वन्/न कृतवान् वा स्यात् नाम, उपवेशनं प्रति गच्छेत् एव । सर्वेषाम् उपस्थितिः एव सर्वेषां प्रेरणाविषयः भवति । उपवेशनं कार्यस्य अनिवार्यभागः । तत्र ‘विद्युत्कोषस्य पुनः शक्तिपूरणं’ भवति । उपवेशननिर्वाहकः सम्यक् पूर्वसज्जतां कुर्यात् । उपवेशनं मुक्त-स्नेहमय-विनोदपूर्ण-अनौपचारिक-वातावरणे भवेत् । उपवेशने महत्तमाः विषयाः चर्चनीयाः सन्ति चेत् उपवेशनात् पूर्वम् अनौपचारिकरूपेण व्यक्तिशः कैश्चित् प्रमुखैः सह तद्विषये चर्चनम् उत्तमम् । उपवेशनस्य अनन्तरमपि तथैव वार्तालापः करणीयः । उपवेशने ‘अहं यद् वदामि तद् सर्वैः श्रोतव्यम्’ ‘मया यथा उक्तं तथैव भवेत्’ इति कस्यापि भूमिका उत्तमा न । समूहस्य इच्छा एव मम इच्छा इति पूर्णेन मनसा चिन्तनं व्यक्तौ कदापि दुराग्रहप्रवेशं कर्तुं न त्यजति । व्यक्तिदूषणं, व्यङ्ग्योक्तिप्रयोगः, उच्चध्वनिना भाषणं, मुखस्य अनुद्घाटनं च उपवेशने निषिद्धानि । अतिविनोदेन, लघुतया भाषणेन वा उपवेशनस्य गाम्भीर्यं नष्टं न भवेत् इति चिन्तनीयम् । उपवेशने कश्चन अपेक्षितः नागतः चेद् केनापि तस्य विषये चिन्ता, पृच्छा च करणीया । चिन्तनं निर्णयाः वा पश्चात् श्रावणीयाः । उपवेशनस्य दिनाङ्कसमयादिविषये अपेक्षितानां पर्याप्तमात्रेण पूर्वमेव सूचनं स्मारणं वा करणीयम् ।

पूर्वयोजना[सम्पादयतु]

सर्वस्यापि कार्यक्रमस्य कार्यस्य वा सफलतायाः कारणं भवति - पूर्वयोजना, पूर्णयोजना च । पर्याप्तमात्रेण पूर्वमेव कार्ययोजना करणीया, सज्जता आरम्भणीया च । ‘युद्धकाले शस्त्राभ्यासः’ न भवेत् । किञ्च, करणीयस्य कार्यस्य सम्पूर्णा योजना करणीया । किं किं करणीयं, कैः कदा, कथम् इत्यादिरूपेण प्रत्येकम् अंशः चिन्तनीयः, उत्तरदायित्वानि निश्चेतव्यानि, यावद् विस्तृतं चिन्तयितुं शक्यते तावद् विस्तृततया योजना भवेत्, सूक्ष्मः अंशः अपि चिन्तनीयः, पर्यायाः अपि चिन्तनीयाः । कार्यकर्तृभ्यः उत्तरदायित्वदानं न पर्याप्तम्, समये समये स्मारणं, साहाय्य-करणमपि आवश्यकम् । समयविषये संस्कृतभारत्यां महत् नैर्भर्यं भवति । सर्वेषु अपि अवसरेषु समयः पालनीयः । निमन्त्रणपत्रे चतुर्वादनमिति लेखनम्, परम् आरम्भकरणं पञ्चवादने न भवेत् । ‘उपवेशनं, सभा, मेलनम्, अन्यः कोऽपि वा संस्कृत-भारतीकार्यक्रमः उक्ते समये भवति’ इति संस्कृतभारत्याः चित्रं भवेत् । लघूनाम् अपि विषयाणां बहु महत्त्वं भवति । तैः लघुभिः अंशैः एव महत् निर्मितं भवति । लघ्वंशानां विषये अवधानदानेन एव कार्यकर्तॄणां संस्कारः भवति, विकासश्च भवति । कार्यक्रमस्थानस्य स्वच्छताम् आरभ्य कार्यकर्तॄणां व्यवहारशैलीपर्यन्तं सर्वः विषयः योग्यायोग्यविमर्शार्थं भवेत् । शिलायाः अनपेक्षितभागस्य निष्कासनं कृत्वा प्रतिमायाः सामान्याकार-कल्पनं शीघ्रं भवति । परं पश्चात् सूक्ष्मकर्तनकार्यं समापयितुं महान् समयः आवश्यकः भवति । तेन सूक्ष्मकर्तनेन एव प्रतिमायाः सौन्दर्यं भवति । तस्मिन् कर्मणि एव शिल्पिनः कौशलम् अभिव्यक्तं भवति । एवमेव कार्यसौन्दर्यमपि कार्यविषयकेण सूक्ष्मचिन्तनेन, लघुषु अपि विषयेषु अवधानदानेन च भवति ।

प्रत्येकं सङ्घटनस्य ‘रीतयः’ ‘नीतयः’ च भवन्ति । ‘नीतिः’ नाम विचारः सिद्धान्तः वा । ‘रीतिः’ नाम पूर्वकार्यकर्तॄणां ज्येष्ठकार्यकर्तॄणाम् आदर्श-भूतैः व्यवहारैः अनुभवैः च याः उत्तमाः व्यवहारपरम्पराः निर्मिताः भवन्ति ताः । सर्वेण अपि कार्यकर्त्रा संस्कृतभारत्याः रीतिनीत्यनुगुणम् एव कार्यं करणीयम् ।

सङ्क्षिप्तसभाकलापाः[सम्पादयतु]

कस्मिंश्चिदपि कार्यक्रमे मञ्चे कतिभिः जनैः उपवेष्टव्यम् ? आहत्य द्वित्राः पर्याप्ताः । संस्कृतभारतीसङ्घटनपक्षतः एकः उपविशति चेत् पर्याप्तम् । सर्वे पदाधिकारिणः मञ्चे एव उपविशेयुः इत्यस्य आवश्यकता नास्ति । सभायां श्रोतृवर्गे पञ्च जनाः, मञ्चे आसन्देषु अष्ट जनाः, तेषां पृष्ठतः ‘चित्रेषु मम अपि मुखं भवेत्’ इति विना कारणं मञ्चे तिष्ठन्तः केचन जनाः ! एतत् दृश्यम् उत्तमं न । आवश्यकाः एव जनाः मञ्चे भवेयुः । कार्यक्रमे स्वागतावसरे मालार्पणं, पुष्पगुच्छसमर्पणं वा अतिथिभ्यः केवलं करणीयं, न तु संस्कृतभारतीपदाधिकारिणे अपि । तथैव धन्यवादसमर्पणमपि ‘गृहसदस्येभ्यः’ न कर्तव्यम् । छायाचित्रस्वीकरणावसरे अपि कश्चन संयमः आवश्यकः । यदि पादरक्षाः बहिः त्यज्यन्ते तर्हि तासां व्यवस्थितरूपेण स्थापनाय कश्चन तत्र तिष्ठेत् । मञ्चे कार्यक्रमसञ्चालकः केवलं सञ्चालनं कुर्यात् (अर्थात् अतिस्वल्पं वदेत्, स्वयं भाषणानि न कुर्यात्, अपि तु पूर्ववक्ता किं किम् उक्तवान् इति तस्य पुनः उल्लेखं न कुर्यात्, यतः सभायां विद्यमानाः श्रोतारः अवगच्छन्ति, मूर्खाः न भवन्ति !) तस्य भाषा अपि शुद्धा स्यात् । छात्राः दोषान् कुर्वन्तु नाम, परं प्रमुखाः न कुर्युः । सर्वेषां जनानां, सर्वासां व्यवस्थानां च गुणाः अपि भवन्ति, अवगुणाः, दोषाः, न्यूनताः चापि भवन्ति । ये गुणाः भवन्ति ते सर्वत्र सर्वैः सह वक्तव्याः । ये दोषाः भवन्ति ते यथास्थानं वक्तव्याः । अर्थात् सम्बद्धजनैः सह केवलं वक्तव्यम् । दोषाणां सर्वत्र चर्चनेन दोषपरिष्कारः तु न भवति, अपि तु कार्यस्य हानिः एव भवति । अतः ‘गुणानां सर्वत्र कीर्तनं, दोषाः यथास्थानम्’ इति सूत्रं स्मर्तव्यम् । यथा अवकरकण्डोले अवकराः सुदीर्घकालं न संरक्ष्यन्ते, अपि तु तत्तद्दिने क्षिप्त्वा पात्रं स्वच्छं क्रियते तथा दोषाः न्यूनताः वा दृष्टाः चेत् यथास्थानम् उक्त्वा तत्रैव सः विषयः त्यक्तव्यः, मनः स्वच्छं कर्तव्यं च । ‘यथास्थानम्’ इत्युक्ते दोषकर्ता अथवा उपरितनः ज्येष्ठकार्यकर्ता यः सम्यक् कारयितुं शक्नुयात् सः । ‘परगुणपरमाणून् पर्वतीकृत्य नित्यं, निजहृदि विकसन्तः सन्ति सन्तः कियन्तः’ इत्यत्र यथा उक्तं तथा अस्माभिः इतरेषां परमाणुगात्रः अपि गुणः पर्वतीकृत्य वक्तव्यः, पर्वताकारोऽपि दोषः परमाणुगात्रीकृत्य वक्तव्यः । एषः आदर्शः । संस्कृतभारती मनुष्याणां सङ्घटनम् । कार्यकर्तारः मनुष्याः । अतः कार्याणां भारे सत्यपि, धावने सत्यपि मानवीयत्वं, तन्नाम कार्यकर्तॄणां सुखदुःखविचारणं न उपेक्षणीयम् । संस्कृतभारत्याः निधिः नाम कार्यकर्तारः । अतः तेषां विषये सर्वदा अपि अवधानं दातव्यम् । तेषां कष्टे सुखे च समरसैः भवितव्यम् । तेषां विकासश्च चिन्तनीयः । सर्वेषु अपि कार्यक्रमेषु सरलता, मितव्ययता, अप्रदर्शनशीलता, अनाडम्बरता च भवेयुः । मितव्ययेन, सारल्येन च सौन्दर्यं सम्पादयितुं शक्यते एव । धनं यद् व्ययीक्रियते तद् समाजेन दत्तम् । अतः स्वल्पः अपि अनावश्यकः व्ययः यथा न भवेत् तथा जागरूकता भवेत् । भित्रेः अपि नेत्रे भवतः इति धारणा भवतु । सामान्यतः संस्कृतक्षेत्रे ‘सेमिनार्’ इत्यादिकं यत्र भवति, तत्र भागग्रहीतृभ्यः ‘टि.ए.डि.ए.’ दीयते इति हेतोः सर्वेषां तस्य अभ्यासः अभवत् । परन्तु संस्कृतभारत्यां तु न केवलं मार्गव्ययः, अपि तु शिबिरशुल्कमपि अस्माभिरेव दातव्यं भवति । स्वव्ययेन कार्यकरणम् इत्येतद् संस्कृतज्ञानाम् अस्माकं मानसिकं संस्कृतप्रेम, समर्पणं च अभिवर्धयति । स्वार्थं न्यूनीकरोति । तथा तु संस्कृतभारत्यां स्वार्थस्य, लोकेषणस्य, वित्तेषणस्य च स्थानं नास्ति एव । संस्कृतं सर्वदा जनानां दृष्टिपथे श्रुतिपथे च भवेत् इत्येतदर्थं, जनजागरणार्थं, विचारप्रचारार्थं च वार्तापत्रेषु पत्रिकासु च इलेक्ट्रानिक्-माध्यमेषु च संस्कृतभारत्याः विषये, संस्कृतभाषायाः सम्बन्धे, अस्माकं कार्यक्रमाणां विषये च वार्ताः लेखनानि च बहुधा यथा प्रकाशितानि भवेयुः तथा प्रयत्नः करणीयः । प्रचारस्य एकोऽपि अवसरः न त्यक्तव्यः । परन्तु प्रचारस्य पृष्ठतः अपि न धावनीयम् । प्रचारः अस्माकम् उद्देशः न । किञ्च कोऽपि कार्यकर्ता स्वस्य प्रचारं न कुर्यात्, अपि तु कार्यस्य, संस्कृतभारत्याः चित्रणं यथा स्यात् तथा प्रयतेत । प्रचारः अधिकः, कार्यं न्यूनम् इत्यपि न भवेत् । राजनीतौ यत्र पञ्चशतं जनाः भवन्ति तस्याः सभायाः वृत्तदानावसरे ‘पञ्चसहस्रं जनाः आसन्’ इति यथा वदन्ति/उद्घोषयन्ति तथा संस्कृतभारती अनृतवादिनी अपि न भवेत् ।

कार्यगुणरक्षणम्[सम्पादयतु]

प्रभावः, शक्तिः इति उभयोः मध्ये कश्चन भेदः अस्ति । महात्मागान्धिकाले गान्धिविचारधारा शक्तिरूपेण आसीत्, तस्यै विचारधारायै जीवनं समर्पयितुं जनाः सिद्धाः आसन् । परन्तु अद्य गान्धिविचारधारा तथा शक्तिरूपेण नास्ति । परन्तु तस्याः प्रभावः समाजे दृश्यते । तस्याः अभिमानिनः सन्ति । अनुयायिनः न चेदपि तद्विषये चर्चा भवति । एषः एव प्रभावशक्त्योः मध्ये विद्यमानः भेदः । संस्कृतस्य प्रभावः अस्ति, परं शक्तिरूपेण नास्ति । अस्माकं कार्यक्रमेषु केषाञ्चित् कार्यक्रमाणां द्वारा संस्कृतप्रभावः वर्धते । ते च यथा - वीथीनाटकं, प्रतियोगिताः, संस्कृतसप्ताहः इत्यादयः । केषाञ्चित् कार्यक्रमाणां द्वारा शक्तिः वर्धते । ते च यथा - सम्भाषणशिबिरं, साप्ताहिकमेलनं, शिक्षकप्रशिक्षणशिबिरं, संस्कृतगृहम् इत्यादयः । अस्माकं कार्ये उभयविधयोः अपि कार्यक्रमयोः सन्तुलनम् अपेक्षितम् । शक्तिवर्धककार्यक्रमाणां विषये किञ्चिदधिका एव आस्था भवेत् । एवमेव कार्यस्य, सङ्घटनस्य वा संख्यात्मकवृद्धिः गुणात्मकवृद्धिः च भवेत् । द्वयोः सन्तुलितवृद्धिः भवेत् । तथापि गुणात्मकवृद्धेः विषये अधिकम् अवधानम् आस्था च उत्तमम् । शक्त्यनुसारमेव कार्यं स्वीकरणीयम् । संस्कृतस्य ह्रासं पश्यामः चेत्, करणीयानां कार्याणां विषये चिन्तयामः चेत्, दैवेन दत्तान् अवसरान् पश्यामः चेत् सर्वमपि करणीयम्, इदानीमेव करणीयं, महता प्रमाणेन करणीयम् इति इच्छाः भवन्ति । परन्तु वास्तविकी स्थितिः तथा न भवति । अस्माकं कार्यकर्तृबलम्, अन्यसाधनानि च तावन्ति न भवन्ति । अतः सर्वम् एककाले एव न आरब्धव्यम्, शक्तिसञ्चयपर्यन्तं प्रतीक्षा करणीया, एकस्य अनन्तरमेव अन्यत् स्वीकरणीयम् । चिन्तनसमये तु हिमालयवत् महोन्नतं चिन्तनं करणीयं, परं पदं तु एकैकशः एव निधातव्यम् । संस्कृतभारत्याः कार्यकर्ता कोऽपि सङ्घटने कार्यक्रमे वा स्वस्य स्थानविषये, स्वस्य पदविषये वा न चिन्तयति । पदे सति, पदाभावे सत्यपि सः समानतया कार्यं करोति । तस्य मनसि तु ‘अहमेकः सामान्यः कार्यकर्ता’ इत्येव चिन्तनं भवति । ‘पदं नास्ति चेत् अहं कथं कार्यं करोमि’, ‘कथं (किमिति) मम परिचयं कारयामि’ इति कस्यापि मनसि प्रश्नः अपि न आगच्छेत् । सभा-उपवेशनादिषु मञ्चं विना सामान्यकार्यकर्तृरूपेण उपवेष्टुं मनः सज्जं भवेत् । अस्माकं दृष्टिः अधिकारे न, अपि तु कर्तव्ये ।

सम्मेलनसाफल्यम्[सम्पादयतु]

अन्यत्र सम्मेलनानि भवन्ति चेत् तत्र जनाः आगच्छन्ति, गच्छन्ति । मध्ये मध्ये गमनागमनं कुर्वन्तः नगरभ्रमणमपि समापयन्ति । परन्तु संस्कृतभारत्यां प्रत्येकमपि कार्यकर्ता सर्वेषु अपि कार्यक्रमेषु सम्पूर्णतया उपस्थितः भवेत् । मध्ये बहिः नगरं प्रति गमनागमनं, कदाचित् आगत्य उपस्थितिसूचनम् इत्यादिकम् अत्र निषिद्धम् । संस्कृतज्ञानां मध्ये मतभेदकारणतः विविधाः गणाः भवितुम् अर्हन्ति । परम् अस्माभिः कस्मिंश्चिदपि गणे न पतनीयम् । विस्तारकः पूर्णकालिकः वा अस्ति चेदेव कार्यं भवति, नो चेत् न इति कस्यापि मनसि विचारः न भवेत् । संस्कृतभारत्याः कार्यं तावद् स्थानीयकार्यकर्तृकेन्द्रितं कार्यम् । कार्यकर्तॄणां चरित्रम्, आर्थिकशुचिता इत्यादीनां विषये अस्माकं महती आस्था भवति । यतः समाजः कार्यकर्तॄणां द्वारा एव संस्कृतभारतीम् अवगच्छति । कार्यक्रमानन्तरं कार्यक्रमविषये, वर्षान्ते वर्षस्य कार्यसम्बन्धे च प्रमुख-कार्यकर्तृभिः उपविश्य मूल्याङ्कनं करणीयम् । ततः पाठाः पठनीयाः । प्रशंसापरम्परा संस्कृतक्षेत्रस्यैव वैशिष्ट्यम् । संस्कृतप्रशंसा, आत्म-प्रशंसा, परस्परप्रशंसा इति प्रशंसाकरणं त्रिविधम् । संस्कृतभारत्यां व्यक्तिप्रशंसा (स्वस्य प्रशंसा, परस्परयोः प्रशंसा वा) न क्रियते । प्रशंसया व्यक्तेः अहङ्कारः वर्धते इति तावान् एव लाभः । संस्कृतप्रशंसावसरेऽपि अस्माभिः कथ्यते - ‘संस्कृतेन वदतु, न तु संस्कृतविषये’ इति । सम्मानन-परम्परा अपि अद्य विकृता जायमाना अस्ति । संस्कृतज्ञः चेत् राङ्कवेण सम्माननम् इति समाजमानसे भावना स्थिता अस्ति । किञ्च संस्कृतज्ञाः अपि तथैव - ‘अहं भवतः सम्माननं करोमि, भवान् मम सम्माननं करोतु’ इति परस्परं वदन्तः तदनुगुणम् एव व्यवहरन्ति । किं वयं मानसम्मानहार-राङ्कवादिभिः विना संस्कृतकार्यं कर्तुं न शक्नुयाम ? कार्यकर्तॄणां भाषणशैली, प्रयुज्यमाना भाषा च बहु परिणामं जनयति । ‘भवन्तः सर्वे संस्कृतस्य प्रचारं कुर्वन्तु’ इति वयं नैव वदामः । ‘वयं सर्वे कार्यं कुर्मः’ इति सर्वदा अस्मच्छब्दबहुवचनस्यैव प्रयोगः क्रियते, न कदापि युष्मच्छब्दः भवच्छब्दः वा । नकारात्मकम् अभावभाषणमपि न, परदूषणं न, टीकाटिप्पणीकरणं न, परोपदेशः अपि न । भाषणं विचारपूर्णं चेदपि जीवनं क्रियाविहीनं चेद् तदपि प्रेरणां न ददाति ।

अधिष्ठानम्[सम्पादयतु]

राष्ट्रस्य सर्वाङ्गीणः विकासः अस्माकं कार्यस्य अन्तिमं लक्ष्यम् अस्ति । एतद् अस्माकं राष्ट्रं किञ्चन पुरातनं राष्ट्रम् अस्ति । किञ्चन सबलं चैतन्ययुक्तं सम्पन्नं राष्ट्रजीवनम् अत्र आसीत् । धर्मार्थ-काममोक्षेति जीवनस्य चतुर्विधपुरुषार्थानां कल्पनाभिः युक्तस्य समग्रस्य एकात्मजीवनदर्शनस्य आधारेण एतस्मिन् राष्ट्रजीवने श्रेष्ठतमजीवनादर्शानां विकासः अभवत् । तस्य राष्ट्रस्य, तेषां जीवनादर्शानां च नाम एव ‘हिन्दुः’ इति । आन्तरिकशैथिल्यस्य वैदेशिकाक्रमणानां च कारणतः एतस्य राष्ट्र-जीवनस्य अवनतिः जाता । सहस्राधिकवर्षाणां पराधीनतायाः अनन्तरं वयं स्वतन्त्राः अभवाम । राष्ट्रस्य नवनिर्माणस्य, तस्य शक्तीकरणस्य वैभवसम्पन्नकरणस्य च अवसरः इदानीम् अस्माभिः प्राप्तः अस्ति । तद् लक्ष्यं प्राप्तुम् अस्माभिः गतैकसहस्रवर्षात्मके कालावधौ याः विकृतयः उत्पन्नाः ताः सर्वाः निवारणीयाः, निष्कासनीयाः च । शाश्वततत्त्वानि सुरक्षितरूपेण रक्षद्भिः अस्माभिः तेषाम् आधारेण वर्तमानयुगस्य आवश्यकतायाः अनुरूपं नूतनरचना निर्मातव्या भवेत् । पुरातनाधारभूम्यां नूतनस्य निर्माणं भवेत् । संस्कृतभाषा एतस्य राष्ट्रस्य समानसांस्कृतिकभाषा । कस्यचिदपि राष्ट्रस्य उन्नत्यै तस्य राष्ट्रस्य सांस्कृतिकभाषा अनिवार्या भवति । पूर्वं संस्कृतं भाष्यमाणभाषा आसीत् । मातृभाषा आसीत्, जनभाषा आसीत् । शिक्षायाः, प्रशासनस्य, वाणिज्यस्य, साहित्यस्य, कलानां, बौद्धिकचर्चानां, संवादानां च माध्यमभाषारूपेण समग्रे भारते प्रयुज्यमाना आसीत् । सहस्रवर्षात्मके पराधीनताकाले सा ह्रासं गता । ब्रिटिश्शासन-काले तु योजनापूर्वकं संस्कृतस्य निष्कासनं कृतम् । संस्कृतविद्यालयानां पिधानं कृत्वा आंग्लविद्यालयानाम् आरम्भः, संस्कृतं मृतभाषा इति निरन्तरप्रचारः, संस्कृतशिक्षणविधिपरिवर्तनम्, संस्कृतशिक्षकाणाम् इतरविषयशिक्षकेभ्यः न्यूनवेतनम्, आंग्लाध्ययनं धनोपार्जनस्य प्रतिष्ठायाः च मूलम् इति व्यवस्थानिर्माणम् इति एतैः पञ्चभिः उपायैः आंग्लेयैः संस्कृताय प्राणान्तिकप्रहारः दत्तः, कुठाराघातः कृतः । राष्ट्रजीवनस्य सर्वेषु क्षेत्रेषु संस्कृतस्य पुनःप्रतिष्ठापनम् अस्माकं कर्तव्यम् । संस्कृतसम्भाषणेन संस्कृतभाषापुनरुज्जीवनं भविष्यति । भाषापुनरुज्जीवनेन सांस्कृतिकपुनरुत्थानं भविष्यति, यतः भाषा संस्कृतिश्च अविभाज्ये, परस्परं पूरके, एकस्यैव नाणकस्य मुखद्वयभूते च । सांस्कृतिकपुनरुत्थानेन राष्ट्रस्य वैभवं भविष्यति, यतः ‘राष्ट्रम् इत्येतद् सांस्कृतिकी अवधारणा, न तु भौगोलिकी, राजनैतिकी वा, न वा आर्थिकी । परं संस्कृत्याम् अर्थचिन्तनमपि अस्ति । राष्ट्रवैभवेन विश्व-कल्याणम् । यतः शक्तिहीनस्य राष्ट्रस्य विचाराणां कुत्रापि मान्यता न भवति । शक्तिसम्पन्नस्य आदरः । भारतं शक्तं समृद्धं च भवति चेदेव विश्वे तस्य स्थानम् । अतः वैभवोपेतस्य राष्ट्रस्य निर्माणमेव संस्कृत-सम्भाषणान्दोलनस्य गन्तव्यम् । राष्ट्रस्य पुनर्निर्माणकार्यं कस्यचिद् एकस्यैव सङ्घटनस्य कार्यं न । बहुभिः बहुषु क्षेत्रेषु कार्यं करणीयम् । संस्कृतक्षेत्रे अस्माभिः अपि कार्यं क्रियते । आर्थिकक्षेत्रं, राजनैतिकक्षेत्रं, विधिक्षेत्रं, तत्त्वशास्त्र-प्रबन्धविज्ञान-सङ्गणक-इतिहास-पुरातत्त्व-कला-विज्ञान-गणित-वास्तु-वैद्यकीयादिषु सर्वेषु अपि क्षेत्रेषु प्राचीनभारतस्यापि महत् गभीरं च चिन्तनम् अस्ति । तच्च चिन्तनं सर्वं संस्कृते एव अस्ति । अतः राष्ट्रस्य नवनिर्माणे संस्कृतस्य, अर्थात् संस्कृतभारत्याः महत्त्वभूता भूमिका भविष्यति । न केवलं भारतस्य नवनिर्माणे, अपि तु विश्वशान्तिस्थापने एव संस्कृतेन प्रमुखभूमिका निरुह्येत । सामाजिकपरिवर्तनं सदा अपि सर्वकारद्वारा न भवति, जनानां द्वारा भवति । संस्कृतस्य पुनरुज्जीवनकार्ये सर्वकारस्य सहायकभूमिका भवितुम् अर्हति । परन्तु मूलतया परिवर्तनात्मकं कार्यं सामाजिकैः अर्थात् संस्कृतज्ञैः एव करणीयं भवति । समाजे संस्कृतविषये आस्था वर्धेत, संस्कृतपठने रुचिः वर्धेत, संस्कृतस्य अनिवार्यता अनुभूयेत च । समाजे तादृशं परिवर्तनम् आनेतव्यं चेत् तदर्थम् आदौ संस्कृतज्ञेषु दृष्टिपरिवर्तनं भवेत् । इदानीं तु संस्कृतज्ञाः संस्कृतोन्नत्यर्थं सर्वकारमुखं पश्यन्तः सन्ति । पञ्चाशदधिक-वर्षाणां व्यर्थप्रतीक्षायाः अनन्तरं वा अस्माभिः पाठः अवगन्तव्यः । अस्माभिः अस्माकं प्रयत्नेन एकैकाम् इष्टिकां संस्थाप्य संस्कृतभवनं निर्मातव्यं भवेत् । संस्कृतज्ञानाम् अस्माकं दृष्टिपरिवर्तने जाते संस्कृतक्षेत्रे अपि परिवर्तनं भवेत् । संस्कृतार्थं कार्यं कुर्वाणाः सर्वे जनाः, सर्वाः संस्थाः (सङ्घटनानि वा) च अस्मदीयाः इति अस्माकम् अत्यन्तम् उदारभावना अपेक्षिता । तेषां न्यूनताः अपि अस्माकमेव न्यूनताः, तासां समीकरणस्य उत्तरदायित्वमपि अस्माकमेव ।