प्रातिशाख्यग्रन्थः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

प्रातिशाख्यग्रन्थः वैदिकवाङ्गमयस्य विचारणीयान् विवेचनीयांश्च विषयान् अधिकृत्य लिखितः वेदस्य लक्षणग्रन्थोऽस्ति। अनेन ग्रन्थेन वेदस्य बाह्यस्वरूपं निर्दिष्टं भवति । चतुर्णां वेदानां चत्वारि प्रातिशाख्यानि सन्ति । तानि च – ऋक्प्रातिशाख्य-वाजसनेयिप्रातिशाख्य-तैत्तिरीयप्रातिशाख्य-सामवेदीयप्रातिशाख्य-अथर्ववेदीयप्रातिशाख्यानि च । एतेषु प्रातिशाख्यग्रन्थेषु ऋग्वेदप्रातिशाख्यं शीर्षस्थानीयमस्ति। विषयप्रतिपादनदृष्ट्या वैदिकशब्दानां वेदमन्त्राणाञ्च व्याकरणप्रक्रियाप्रदर्शनमेव प्रातिशाख्यानामुद्देश्यम् । वैदिकव्याकरणसम्बन्धि-पदप्रयोगनियमानां ज्ञानाय, अन्यव्याकरणजन्यज्ञानसौलभ्याय च प्रातिशाख्यग्रन्थाः प्रणीताः सन्ति ।

वेदाभ्यासस्तु पञ्चधा विभज्यते— (१) अध्ययनम्, (२) विचारः, (३) अभ्यासः, (४) जपः (५) अध्यापनञ्चेति । ऋक्प्रातिशाख्यस्य सूत्रेषु एतेषां पञ्चप्रकारकाणां वेदाभ्यासानां विधिवद् वर्णनमस्ति । एतेष्वध्ययनं तु वेदश्रवणस्य द्योतकमस्ति । विचारोऽपि द्विधा भवति - अर्थतो, लक्षणतश्चेति । निरुत्तकर्तृणा यास्केन कथितम् -

'स्थाणुरयं भारहरः किलाभूत्

अधीत्य वेदं न विजानाति योऽर्थम्॥

योऽर्थज्ञ इत सकल भद्रमश्नुते-

नाकमेति ज्ञानविधूतपाप्मा ॥'[१]

यः पुरुषो वेदं पठित्वा तस्यार्थं न जानाति, सः स्थाणुरिव भारहारी भवति । यो हि पुरुषो वेदार्थं विजानाति सैव समस्तं कल्याणमाप्नोति । ज्ञानेन पापं विनाशय स्वर्गं प्राप्नोति । एतदर्थमेव शास्त्रं कथयति -

'लक्षणं यो न वेत्त्यृक्षु न कर्मफलभाग्भवेत्।

लक्षणो हि मन्त्राणां सकलं भद्रमश्नुते॥'

यो हि जनः ऋक्-लक्षणम् अज्ञात्वैव कार्यं करोत्यसौ कर्मफलं प्राप्तुं न शक्नोति । मन्त्रलक्षणज्ञात्वा एव समग्रकल्याणफलमश्नुते । फलतो लक्षणस्य वर्णनम् अर्थज्ञानात्प्रागेव भवति, यतोऽर्थज्ञानं लक्षणपूर्वमेव भवति । शास्त्रीयवचनमस्ति -

'स्वरो वर्णोऽक्षरो मात्रा दैवं योगार्षमेव च॥

मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥'

तात्पर्यमिदमस्ति यत्, मन्त्रार्थजिज्ञासून् जनान् प्रथमतः स्वर-वर्ण-अक्षरमात्रा-देवता-विनियोगार्षाणां ज्ञानं प्राप्तव्यम् । एतेषां पदार्थानां ज्ञानाय प्रातिशाख्यस्य उपयोगोऽस्ति । प्रातिशाख्यस्य अध्ययनस्य परिनिष्ठितफलमस्ति — मन्त्राणां लक्षणज्ञानम् । अस्य स्पष्टनिर्देशः ऋक्प्रातिशाख्यस्य मङ्गलश्लोके एव सूत्रकारेण शौनकेन मुनिना कृतः -

'तं पद्मगर्भं परमं त्वादिदेवम्।

प्रणम्यर्घां लक्षणमाह शौनकः।।'

ऋक्प्रातिशाख्यस्यापरं नाम ऋक्लक्षणमस्ति । प्रातिशाख्यस्य विधिवद् अध्ययनकृत्वा एव आचार्यपदस्य अधिकारी भवति नान्यदिति । अस्मिन् विषये ऋक्प्रातिशाख्यस्य स्पष्टकथनमस्ति -

'पदक्रमविभागज्ञो वर्णक्रमविचक्षणः।

स्वरमात्राविशेषज्ञो गच्छेदाचार्यसम्पदम् ॥'[२]

तेन हि प्रातिशाख्यस्य अनुशीलनं वेदस्य आचार्यत्वसम्पादनाय प्राथमिकी आवश्यकता वर्तते । प्रातिशाख्यानाम् अध्ययनेन शाखासु कस्याप्येकस्यैव शाखानियमानां निर्देशो नास्ति, अपि तु तासु एकैकस्य चरणस्य शाखानियमानाम् उल्लेखो लभते। महर्षिणा यास्केन कथितम् - 'पदप्रकृतीनि सर्वचरणानां पार्षदानि' इति।[३] पारिषदानां प्रातिशाख्यानाञ्च सम्बन्धः चरणैः सह वर्तते। प्रातिशाखा-शब्दः चरणाय एव व्यवहृतः मन्यते।

प्रातिशाख्यस्य विषये उव्वष्टकृतस्य ऋक्प्रातिशाख्यभाष्यस्य आरम्भे पद्यमिदमुपलब्धं भवति, येनास्याः प्रयोजनस्य परिचयो भवति -

'शिक्षा-छन्दो-व्याकरणैः सामान्येनोक्तलक्षणम्।

तदेवमिह शाखायामिति शास्त्रप्रयोजनम्॥'

अयमाशयोऽस्ति - शिक्षा-छन्दो-व्याकरणानां सामान्यनियमस्य वर्णनं करोति । ते एव नियमाः तत्तद्वैदिकीशाखायां केन प्रकारकेण सन्ति, अस्य कथनमेव प्रातिशाख्यस्य मूलप्रयोजनमस्ति । प्रातिशाख्यस्य क्षेत्रं पूर्वोतानि त्रीणि वेदाङ्गानि समाहरति, तथा तस्य विशिष्टशाखायां तत्तद्विशेष-नियमानां विवरणं प्रस्तौति । प्रातिशाख्यं पूर्वोक्तस्य वेदाङ्गत्रितयस्य नियमानां विशेषरूपेण व्यवस्थापकमस्ति । शिक्षा-छन्द-व्याकरणेषु यस्य नियमस्य विधानमस्ति तद्भिन्ननियमानां विधानमस्मिन् शास्त्रे भवति । एवंविधाः विषयाः सन्ति - पद-क्रम-क्रमहेतु-पारायणादयः । प्रातिशाख्यमिदं कस्यापि शास्त्रस्य अङ्गं नास्ति। इदमस्ति आर्षं, पूर्णवेदाङ्गञ्चेति । स्वयं मुनिना शौनकेन कथितम् — 'कृत्स्नं च वेदाङ्गमनिन्द्यमार्षम् ॥'[४]

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. ( नि० १॥१६ )
  2. प्र.व.श्लो.८
  3. ( नि० १।१७ )
  4. ( ऋक् प्रा० १४॥६९ )
"https://sa.wikipedia.org/w/index.php?title=प्रातिशाख्यग्रन्थः&oldid=435903" इत्यस्माद् पुनः प्राप्तिः