सामग्री पर जाएँ

संस्कृतसाहित्यशास्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(साहित्यशास्त्रम् इत्यस्मात् पुनर्निर्दिष्टम्)
महाभारतस्य तालपत्रम्

इह खलु जगति अर्थानां प्रमित्यै प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्द इत्यादीनि बहूनि प्रमाणानि अङ्गीकृतानि सन्ति शास्त्रकारै: । तत्र शब्द इति प्रमाणं यदि न स्यात् तर्हि सर्वं जगदिदम् अन्धे तमसि निमज्जेत्, तदाह दण्डी -

'इदमन्धं तम: कृस्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ॥

एतादृश: शब्द: यदा श्रूयते तदा नियमेन कश्चिदर्थ: प्रतीयते । यदा च कश्चिदर्थ: प्रतीयते तदा नियमेन तद्वाचक: शब्द: प्रतिभाति । अत एव अर्थे शक्यतावच्छेदकस्येव शब्दस्यापि विशेषणतया भानमिति शब्दविद:, तदुक्तं भर्तृहरिणा

न सोऽस्ति प्रत्ययो लोके य: शब्दादनुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥

एवं शब्दार्थयो: अविनाभावस्य सत्त्वादेव महाकविना कालिदासेन। पार्वतीपरमेश्वरयो: उपमानत्वेन वागर्थयो: निर्देश: कृत: नान्ययो: कयोश्चित् ।

यद्यपि शब्दार्थया साहित्यं सर्वेषु वाक्येषु साधारणम् तथापि काव्यगतेषु वाक्येषु तद्विलक्षणमेव । तत्र यादृशं साहित्यं प्रतीयते तादृशं साहित्यमन्यत्र सुतरां नोपलभ्यते । अत्र हि वाक्येषु विलक्षणं सादृश्यं वर्तते । वैलक्षण्यं च शब्दानाम् अलङ्कृतत्वेन व्यञ्जकत्वेन च अर्थानां तु कल्पितत्वेन व्यञ्जकत्वेन च । इदं वैलक्षण्यं मनसिकृत्यैव भामहादय आलङ्कारिका: ‘काव्यं नाम सहितौ शब्दार्थौ’ इत्याचचक्षिरे ।

काव्यगतयो: शब्दार्थयो: विलक्षणस्य साहित्यस्य दर्शनादेव काव्यविचारपरस्यास्य शास्त्रस्य साहित्यशास्त्रम् इति नामधेयं सम्पन्नम् । युक्तं चेदम्, वाक्यान्तरे अविद्यमानस्य साहित्यस्य प्रतिपादनात् । अलङ्कारशास्त्रमिति तु नामान्तरम् । अलङ्काराणां बाहुल्येन प्रतिपादनस्य सद्भावात् नामेदं प्रवृत्तम् । यद्वा, प्राचीनै: भामहादिभि: सत्स्वपि बहुषु पदाथेर्षु काव्ये सारभूततया अलङ्कारमेव अङ्गीचक्रु: नान्यम् औचित्यादिकम् । अनेन तस्मिन् काले तस्यैव प्राधान्यं सिद्धम् । ‘प्राधान्येन व्यपदेशा भवन्ति’ इति नियमेन प्रधानभूतानामलङ्काराणां प्रतिपादकस्यास्य शास्त्रस्य तदेव नाम सम्पन्नम् । यद्यपि उत्तरे काले अन्यस्यैव रसादे: सारभूतत्वात् प्राधान्यत पाश्चात्त्यै: विमर्शकै: निर्धारितम् तथापि कृतपूर्वस्य नामधेयस्य अनपायात् अद्यापि तदेव नाम प्रवर्तते ।

अभिज्ञानशाकुन्तलस्य एकं सुन्दरं चित्रम्,राजा रविवर्मा

अस्मिन् शास्त्रे प्राधान्येन विचारणीयं भवति काव्यम् । ततश्च काव्यं लक्ष्यं भवति, शास्त्रं चेदं लक्षणम् इत्येतदुक्तं भवति । काव्यविचारपरेऽस्मिन् शास्त्रे काव्यस्य लक्षणम्, तस्य प्रयोजनम्, तस्य कारणम्, वाच्य-लक्ष्य-व्यङ्ग्यरूपम् अर्थत्रैविध्यम्, व्यञ्जनेति व्यतिरिक्तवृत्ते: सयुक्तिकं समर्थनम्, रसादि:, काव्यगता दोषा:, तद्गता: गुणा:, शब्दविन्यासरूपा रीति:, यमकोपमादयोऽलङ्कारा:, कविसमयश्चेति विषया मुख्यतया विमृष्टव्या भवन्ति ।

काव्ये आत्मस्थानीय: पदार्थ: क इत्यस्मिन् विषये मतभेदात् नानासिद्धान्ता: आविर्भूता: सन्ति । तत्र भामहादय: प्राचीना: काव्ये आत्मस्थानीयम् अलङ्कारं वदन्ति । वामनो रीतिम् । आनन्दवर्धनो ध्वनिम् । कुन्तको वक्रोक्तिम् । क्षेमेन्द्र औचित्यम् । अभिनवगुप्तादयस्तु रसम् । इमे षट् सिद्धान्ता: प्रस्थानशब्देन व्यवह्रियन्ते । सम्प्रदाय इत्यनेनापि शब्देन एषां व्यवहार: । । क्रमेण तानि प्रस्थानानि यथा –

  1. अलङ्कारप्रस्थानम् - भामह-जयदेव-रुद्रटादय:
  2. रीतिप्रस्थानम् - वामन:
  3. वक्रोक्ति: - कुन्तक:
  4. ध्वनि: - आनन्दवर्धन:
  5. औचित्यप्रस्थानम् - क्षेमेन्द्र:
  6. रसप्रस्थानम् - अभिनवगुप्तः-मम्मटः- विश्वनाथादय: प्रायेण सर्वेरपि अर्वाचीनाः आालङ्कारिका: ।

तत्र अलङ्कारो नाम शब्दनिष्ठ: अर्थनिष्ठो वा कश्चित् शोभाकारी धर्म: । रीतिर्नाम पदविन्यास: । ध्वनिर्नाम प्रधानो व्यङ्ग्य: । वक्रोक्तिर्नाम प्रतिभावशात् भङ्ग्यन्तरेण प्रतिपादनम् । औचित्यं गुणालङ्कारादीनाम् आनुरूप्यम् । रसो नाम विभावानुभावव्यभिचारिभि: अभिव्यक्तो रत्यादि: । यद्यपि एषां स्वरूपे क्वचित् विप्रतिपत्ति: वर्तते तथापि सामान्येन इदमभिधानमिति मन्तव्यम् ।

जयदेवकवेः गीतगोविन्दस्य रमणीयं चित्रम्

साहित्यशास्त्रे यद्यपि बहवो विमर्शका: प्रसिद्धा: सन्ति । न तेषां सवेर्षां विवरणमत्र कर्तुं शक्यम् । तथापि विख्यातानां कतिपयानाम् आलङ्कारिकाणां नामानि काश्चित् तेषां कृतयो जीवितकालश्च प्रायेण निरूप्यते, यथा

नामानि प्रसिद्धा कृति: क्रिस्तशके प्रायेण काल:
भरत: नाट्यशास्त्रम् प्रथमं शतकम्
भामह: काव्यालङ्कार: सप्तमं शतकम्
दण्डी काव्यादर्श: सप्तमं शतकम्
उद्भट: काव्यालङ्कारसारसङ्ग्रह: अष्ठमं शतकम्
वामन: काव्यालङ्कारसूत्रवृत्ति: अष्ठमं शतकम्
रुद्रट: काव्यालङ्कार: नवमं शतकम्
आनन्दवर्धन: ध्वन्यालोक: नवमं शतकम्
राजशेखर: काव्यमीमांसा दशमं शतकम्
भट्टनायक: हृदयदर्पण: दशमं शतकम्
अभिनवगुप्त: अभिनवभारती,लोचनं दशमं शतकम्
धनञ्जय: दशरूपकम् दशमं शतकम्
भोज: सरस्वतीकण्ठाभरणम्,शृङ्गारप्रकाश: एकादशं शतकम्
महिमभट्ट: व्यक्तिविवेक: एकादशं शतकम्
क्षेमेन्द्र: औचित्यविचारचर्चा एकादशं शतकम्
मम्मट: काव्यप्रकाश: एकादशं शतकम्
रुय्यक: अलङ्कारसर्वस्वम् द्वादशं शतकम्
हेमचन्द्र: काव्यानुशासनम् द्वादशं शतकम्
जयदेव: चन्द्रालोक: त्रयोदशं शतकम्
विद्यानाथ: एकावली त्रयोदशं शतकम्
विद्यानाथ: प्रतापरुद्रीयम् त्रयोदशं शतकम्
विश्वनाथ: साहित्यदर्पण: त्रयोदशं शतकम्
केशवमिश्र: अलङ्कारशेखर: षोडशं शतकम्
अप्पयदीक्षित: कुवलयानन्द:,चित्रमीमांसा षोडशं शतकम्
जगन्नाथ: रसगङ्गाधर: सप्तदशं शतकम्
चूडामणिदीक्षित: काव्यदर्पण: सप्तदशं शतकम्

प्राचीन विज्ञानम्

[सम्पादयतु]

भूगर्भशास्त्रम्

[सम्पादयतु]
मुख्यलेखः : भूगर्भशास्त्रम्

भूमेः गोलाकृतिंम् ऐदम्प्राथम्येन मागल्लनामकः प्रतिपादितवान् इति वयं पाठ्यपुस्तकेषु पठामः । संस्कृतभाषायां तु आप्राचीनकालतः व्यवहारः भूगोलम् इत्येव । एषः व्यवहारः एव खलु समर्थयति भूमेः गोलाकारताम् ? अपि च गोलपरिभाषायाम् उच्च्यते ।

मृदम्ब्वग्न्यनिलाकाशपिण्डोऽयं पाञ्चभौतिकः।
कपित्थफलवद्वृत्तः सर्वकेन्द्रेखिलाश्रयः ॥
स्थिरः परेशशक्त्येव सर्वगोऴादधः स्थितः ।
मध्ये समान्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥ इति ॥

भूमिः पञ्चभूतात्मिका, कपित्थफलाकारिका च इति अत्र स्पष्टतया निरूपितम् अस्ति । कपित्थफलकारकत्वं नाम दैर्घ्याधिक्ययुक्तगोलत्वम् । भूकेन्द्रं प्रति सर्वम् आकृस्ष्टं भवति अन्यत् किमपि अनाश्रित्य आकर्षणशक्त्त्या (परेशशक्त्या) निरालम्बा भूमिः व्योम्नि तिष्ठति इति एतस्मात् श्लोकात् ज्ञायते ।
आर्यभट्ट भूव्यासम् अधिकृत्य वदति – ञिला भूः इति । तन्नाम भूव्यासः १०५० योजनमितः भवति (१०५०=१२=१२६००किलोमीटर्) आधुनिकाः अपि एतत् एव परिमाणं प्रतिपादयन्ति ।
भूमिः एव भ्रमति इति, सौरमण्डलम् अपि पराशक्तिं केन्द्रीकृत्य भ्रमति इति च अस्मात्पूर्वजैः सिद्धान्तितम् । कालिदासस्य काले भूशास्त्रविज्ञानं कथम् आसीत् इति मेघदूतस्य पठनात् स्फुटं भवति ।
भूभृत् इति पर्वतस्य पर्यायपदम् । पर्वताः भूतोलनं साधयन्ति इति आधुनिकाः अपि अङगीकुर्वन्ति। श्रीकृष्णविलासकाव्ये भूमिब्रह्मसंवादे भूस्थितिः, भूकम्पनं सूर्यरश्मिमहिमा इत्यादयाः विषयाः काव्यशैल्या प्रतिपादिताः सन्ति । दिनचलनं, वार्षिकचलनम्, अयनं, ग्रहणं, समरात्रम् इत्यादयः बहवः विषयाः अतिप्राचीनकाले एव भारते चर्चिताः आसन् ।भूगुरुत्वाकर्षणविषये भास्कराचार्येण विशदतया प्रतिपादितम् ।

गणितम्

[सम्पादयतु]
मुख्यलेखः : गणितम्

आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपद्धतिः । शून्यं, दशांशपद्धतिः, सङख्याः, मूल्यम् इत्यादयः बहवः अंशाः भारतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । पैथगोरियन् सिद्धान्तः इति यत् इदानीं पाठ्यते (कर्णवर्गः उ पादवर्गः अ लम्बवर्गः ) स च सिद्धान्तः पैथगोरसस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरूपितः आसीत् ।

तत्कृत्योर्योगपदं कर्णः दोष्कर्णवर्गयोर्विवरात् ।
मूलं कोटिः कोटिश्रुतिकृत्योः अन्तरात् पदं बाहुः ।। इति उच्च्यते ।

पिङगलाचार्यः छन्दःशास्त्रे मेरुप्रस्तारम् अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः । । अहो विचित्रा अस्माकं विद्याभ्यासरीतिः !

भौतशास्त्रम्

[सम्पादयतु]
मुख्यलेखः : भौतशास्त्रम्
ऊर्जसंरक्षणनियमः, अणुसिद्धान्तः, द्र्व्यनिर्माणम् इत्यादयः विषयाः वैदिककालादारभ्य भारते प्रसृताः दृश्यन्ते । शब्दस्य प्रकाशस्य च गतिः स्वभावादयश्च न्यायवैशेषिकमीमांसादिषु चर्चाविषयाः जाताः दृश्यन्ते । शब्दाः वायौ प्रचयम् अपचयं च निर्माय सञ्चरति । तरङ्गरूपस्य अस्य शब्दस्य प्रतिफलनम् अपि चर्चितः अस्ति । प्रकाशस्य प्रतिफलनम्, अपभ्रंशः इत्यादयः विषयाः तर्कशास्त्रे दृश्यन्ते । एते विषयाः वात्स्यायनभाष्ये रश्मिपरावर्तनशब्देन निर्दिष्टाः । प्रकाशवेगः, द्वैतस्वभावः इत्यादयः क्रिस्तीयनवमशतके जातेन आचार्यवाचस्पतिमिश्रेण विरचितायां तात्पर्यटीकायां प्रतिपादिताः । एते च विषयाः पाश्चात्यपण्डितैः सप्तदशे शतके ज्ञाताः । क्वाण्टम् सिद्धान्तम् अधिकृत्य अपि उपनिषत्सु चर्चा कृता दृश्यते ।

सायणाचार्यः प्रकाशस्य वेगम् एवं प्रतिपादयति –

योजनानं सहस्रे द्वे द्वे शते द्वे च योजने ।
एकेन निमिषार्धेन क्रममाण नमोऽस्तुते ।। इति

अस्य व्याख्याने प्रकाशवेगः ६४०००क्रोशमितः (१८५००मैल्परिमितः) इति उक्तम् अस्ति । आधुनिकाः च प्रकाशवेगं १८६२०२.३९६० मैल् मितं वदन्ति । ऊर्जं पिण्डस्य आनुपातिकं अस्ति (E=mc2) इति ऐन्स्टिन्महोदयस्य दर्शनम् इति वादः श्रूयते । “त्वाष्टृयन्त्रभ्रमिभ्रान्तमार्ताण्डज्योतिरुतज्ज्वलः” इति भवभूतेः प्रयोगं पश्यन्तु भवन्तः । विश्वकर्मणः पुत्री संज्ञा सूर्यवधूः जाता किन्तु सूर्यस्य अधिकतेजसा पीड्यमानया संज्ञया पिता बोधितः । सः पिता सूर्यं त्वाष्टृयन्त्र्म् आरोप्य ऊर्जन्यूनतां चकार इति पुराणकथा । ऊर्जपिण्डबन्धनं निरूपयति खलु एषा कथा ।
एकदा सैन्स् टुडे नामिकायां पत्रिकायां प्राकाशितम् ऐन्स्टिन्महाशयस्य वाक्यम् स्मरणीयम् । तत् एवं अस्ति । `You hail from India in the name of Hindu Philosophy . Yet you not cared to learn Sanskrit . Come along, see my liabrary which treasures classics from Sanskrit, the Gita and other treatises on Hindu Philosophy . They are the main source of my inspirations and guidelines for the purpose of scientific investigations and formulation of theories’ .

विमानशास्त्रम्

[सम्पादयतु]
मुख्यलेखः : विमानशास्त्रम्

वायुप्रवाहतः उत्पन्नम् ऊर्जं, सौरोर्जम्, एतरेन्धनोर्जं च उपयुज्य सञ्चार्यमाणानि विमानानि अत्र आसन् । भरद्वाजमहर्षेः यन्त्रसर्वस्वम्, अगस्त्यस्य शक्तिसूत्रम्, ईश्वरस्य सौदामिनिकला, भरद्वाजस्यैव अंशुमात्तन्त्रं, शाकटायनस्य वायुतत्त्त्वप्रकरणं वैश्व मारुततन्त्रं च, नारदस्य धूमप्रकराणम् इत्यादीनां विमानशास्त्रसम्बद्धानां ग्रन्थानाम् उल्लेखाः दृश्यन्ते । भोजस्य समराङगणसूत्रधारं, शौनकमहर्षेः व्योमयानतन्त्रं, गर्गस्य यन्त्त्त्रकल्पः, नारायणस्य विमानचन्द्रिका, वाचस्पतेः यानबिन्दुः दुण्डिनाथस्य व्योमयानार्कप्रकाशिका, चक्रायणिमुनेः केतुयानप्रदीपिका इत्यादयः अनेके ग्रन्थाः अपि विमानशास्त्रसम्बद्धाः एव ।
विमानस्य अवरोहणकाले, भूस्पर्षसमये चैव अपघातस्य सम्भावना अधिक इति भरद्वाजमहर्षिः कथयति । अद्यापि समस्ति खलु सा एव स्थितिः ? विस्तारभयात् विषयोऽयं न विस्तार्यते । ।

रसतन्त्रम्

[सम्पादयतु]
मुख्यलेखः : रसतन्त्रम्
रसतन्त्रविषये संस्कृतग्रन्थाः बहवः सन्ति । वाग्भटस्य रससमुच्चयः एतेषु प्राधान्यम् आवहति शिल्परत्नं, विष्णुधर्मोत्तरं, मानससारः, मानसोल्लासः, रससंहिता इत्यादयाः रसतन्त्रस्य विविधविषयान् प्रतिपादयन्ति । स्फटिकं, काचः(लेन्स्), वर्णः, सुधा(सिमेण्ट्),निर्यासः, सुगन्धवस्तूनि, कागदं, लोहाः विशिष्टमृत्पात्राणि इत्यदीनां पदार्थानां निर्माणं, रसप्रक्रिया च एतेषु ग्रन्थेषु निरूपिताः सन्ति । अत्र अनेकविधानि आम्लानि (acids) क्षाराणि(bases ) च उल्लिखितानि । एतेषाम् उपयोगेन कृत्रिमपदार्थानां निर्माणाय अपेक्षिता साङकेतिकविद्या अपि तेषु प्रतिपादिता ।

चिकित्सायाम् अपि अस्य रसतन्त्रस्य उपयोगः आसीत् । पातञ्जलमहर्षेः लोहशास्त्रं लोहसंस्करणेन लवणनिर्माणरीतिं वर्णयति । क्रि.पू. द्वितीये शतके जातस्य नागर्जुनस्य रसरत्नाकरग्रन्थः लोह्यायनिर्माणार्थं साङकेतिकव्यवस्थां निरूपयति । परीक्षणशालायाः रचनाम्, तत्रत्यानि उपकरणानि, एकैकस्यापि प्रक्रियायाः कृते आवश्यकाः तापविशेषाः, रसतः औषधनिर्माणरीतिः इत्यादयः अपि अस्मिन् ग्रन्थे सन्ति । रसस्तम्भनादयः नवदशप्रक्रियाः अपि अत्रैव वर्ण्यन्ते । एकादशशतकीयः (क्रि.श.११) रसार्णवग्रन्थः लोहस्य विविच्य ज्ञानाय ज्वालापरीक्षणव्यवस्थां (flame test) वर्णयति । देहलीस्थः विष्णुस्थम्भः अजन्ताचित्राणि च भारतीयरसतन्त्रस्य प्रत्यक्षोदाहरणानि सन्ति ।

जीवशास्त्रम्

[सम्पादयतु]
मुख्यलेखः : जीवशास्त्रम्

चरकसंहिता, सुश्रुतसंहिता, अष्टाङगहृदयं, भावप्रकाशः इत्यादयः प्रसिद्धाः आयुर्वेदग्रन्थाः केचन । शस्त्रक्रिया, प्रतिरोधचिकित्सा च प्राचीनकालात् एव अत्र आसीत् । ९२७ तमे क्रिस्ताब्दे भोजराजस्य मस्तिष्कशस्त्रक्रियां जीवकः नाम वैद्यः कृतवान् इति श्रूयते । सुश्रुतसंहितायां शस्त्रक्रियोपकारकाणि शस्त्रयन्त्रादीनि बहूनि उल्लिखितनि । भावमिश्रस्य भावप्रकाशे रक्तसञ्चारविषये अपि उच्यते । चिकित्सार्थं मोहनिद्रायाः (हिप्नाटिसम्) उपयोगः भारते एव ऐदम्प्राथम्येन कृतः ।
वृक्षायुर्वेदः, गजायुर्वेदः, अश्वायुर्वदः इत्यादयः निरवधिशाखाः तिर्यग्जीवशास्त्रम् अधिकृत्य प्रवृत्ताः । तेषां रोगाः, तच्चिकित्सा, तेषाम् आहारः इत्यादयाः अपि तत्र वर्णिताः । मृगवैद्यकस्य पिता इति विख्यातेन शालिहोत्रेण अश्वलक्षणम्, अश्वप्रश्नः इत्यादयः ग्रन्थाः रचिताः । गौतमस्य गावायुर्वेदः, पालकाप्यस्य हस्तायुर्वेदः च लोके प्रसिद्धौ । वराहमिहिरस्य बृहत्संहिता वृक्षशुश्रूषाम् अधिकृत्य वदति ।

ज्योतिश्शास्त्रम्

[सम्पादयतु]

असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रूढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरूपं चपलः सरक्तगौरः मज्जासारश्च माहेयः इत्येवम् उक्तवान् अस्ति । उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते इति । कुजः (भूमिपुत्रः) इति शब्दः एव तद्ग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? सूर्यादीनां सञ्चारः भ्रममूलः, ग्रहाणां स्वप्रकाशता नास्ति इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः । एते विषयाः इतःपूर्वं परिचायिताः इत्यतः विरम्यते विस्तरात् ।

वास्तुविद्या

[सम्पादयतु]
मुख्यलेखः : वास्तुविद्या

सिन्धुसभ्यताचित्राणि प्रायः सर्वानपि आश्चर्यचकितान् कुर्वन्ति एव । तत्रत्या वास्तुविद्या अतिप्राचीना अत्युत्कृष्टा च । कर्णाटके बेलूरे विद्यमानः भूमिस्पर्शरहितः स्तम्भः, कोणार्कक्षेत्रे सूर्यदेवालयः, शृङगेरिस्तम्भाः, अनन्तपुरीस्थाः सप्तस्वरप्रभावाः मण्डपाधारः स्तम्भाः, अजन्ता–एल्लोरगुहाः देहलीस्थः विष्णुस्तम्भः इत्यादयः अनेके अंशाः भारतीयवास्तुविद्यायाः गरिमाणं प्रामाणीकुर्वन्ति । मयमतं, मयसारः, मनुष्यालयचन्द्रिका, सुप्रभेदागमः, वास्तुरत्नावली, कामिकागमः, बृहद्वास्तुमाला इत्यादिषु अनेकेषु ग्रन्थेषु वास्तुशास्त्रं निरूपितम् अस्ति ।

सङ्गीतम्

[सम्पादयतु]
मुख्यलेखः : सङ्गीतम्

संङ्गीतम् अधिकृत्य न बहु वक्तव्यम् अस्ति । यतः एतस्मिन् विषये सर्वे जानन्ति एव । चिकित्सार्थम् अपि सङ्गीतम् उपयुज्यते स्म अस्मदाचार्यैः । संङ्गीतचिकित्सारत्नाकरनामकः ग्रन्थः ३४८०० रोगाणां विषये विस्तरेण वदति । तेषां चिकित्सोपयोगिताम् अपि प्रतिपादयति सः ग्रन्थः । एकैकः अपि संस्कृतज्ञाः एकैकशास्त्रस्य पारङगतः सन् तत्तच्छास्त्रस्य परिरक्षणं प्रसारं च करोतु इति अपेक्षा ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]

124-132, [३] Archived २०११-०७-२१ at the Wayback Machine