श्रीकृष्णविलासकाव्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
गोवर्धनोद्धारणम्.
श्रीकृष्णस्य गोवर्धनोद्धारणम्

महाकवि सुकुमारविरचितं महाकाव्यं भवति श्रीकृष्णविलासम् । सुकुमारकवेः जीवनविषये पण्डितानां मतभेदः अस्ति । तथापि कालिदासादर्वाचीनः श्रीशङ्करात्प्राचीनश्चायमिति ज्ञातुं शक्यते । केरलीयकविषु प्राचीनतमः आसीत् सुकुमारकविः । तस्य श्रीकृष्णविलासकर्तृत्वं - इति श्रीकृष्णविलासकाव्ये सुकुमारकृतौ - इति सर्गान्तनिर्देशेन ज्ञायते । अपूर्णे श्रीकृष्णविलासे काव्ये इदानीं द्वादशसर्गाः लभ्यन्ते । श्रीमगद्भागवतदशमस्कन्धोक्तरीत्या श्रीकृश्णकथाः अत्र वर्ण्यन्ते । असुरपीडितायाः भूमीदेव्याः ब्रह्माणं प्रति प्रार्थना, ब्रह्मणा, तया, इतरैः देवै च साकं विष्णुसमीपागमनम् इत्यादिरीत्या काव्यमिदमारभ्यते । श्रीकृष्णस्य व्योमयात्रा, समुद्रवर्णनम् इत्यादिषु भागेषु रघुवंशस्यानुकरणं सम्यक् दृश्यते । नगरार्णवशैलर्तु.......इत्यादि महाकाव्यलक्षमं रससन्निवेशश्च सम्यक् कृतं कविना। मधुरा सरला च कवेः शैलिः । सप्तमे सर्गे ऋतूनां वर्णनम् अत्यन्तं रमणीयं भवति । तत्र वसन्तवर्णनात् एकमुदाहरणम् -

धृतमौनमनारतोपवासं व्रतमुद्यानतपोवने चरित्वा ।
उदयुञ्चत पारणां विधातुं परपुष्टास्सहकारमञ्जरीभिः ।।

तृतीये सर्गे एकस्मिन् श्लोके यशोदा कृष्णं चन्द्रं एवं दर्शयति -

पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया ।
आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ।।

अधुनापि केरलीयाः चन्द्रं मातुल इत्येव अभिधीयन्ते । अत एव अयं श्लोकः श्रीकृष्णकवेः केरलीयत्व द्योतकः । श्रीकृष्णविलासस्य माधुर्यात् सारल्यात् च काव्यपठने प्रवृत्तानां बालानां इदमेव काव्यम् प्रथमम् आसीत् ।

सुकुमारकविविरचितं महाकाव्यं भवति श्रीकृष्णविलासम् । सुकुमारकवेः कालः परमार्थतया न ज्ञायते । केरलीय़ेषु संस्कृतकविषु प्राचीनः भवति सुकुमारकविः इति मन्यते । अपूर्णे श्रीकृष्णविलासकाव्ये इदानीं द्वादशसर्गाः लभ्यन्ते ।

ऐतिह्यम्[सम्पादयतु]

बालो सुकुमारनामको अतिबुद्धिमान् विनयशीलश्च गुरुकुले सर्वेषां प्रियंकर: आसीत्। तथापि तस्य गुरु: तं भृशं ताडयति स्म। एतस्मात् कारणात् क्रुद्ध: सुकुमार: एकदा तं हन्तुं निश्चिनोत्। निशायां स: गुरोर्गृहं गत्वा उपरितले पाषाणमादाय निलीय उपविष्टवान्। तदा आचार्यः स्वपत्न्या सह यत् सम्भाषणं कुर्वन् आसीत् तत् सः अशृणोत्। गुरुपत्नी - आर्य! भवान् किमर्थं तं सुकुमरं वृथा ताडायति, यो हि भवत: शिष्यगणेषु सर्वोत्तम: वर्तते? गुरु- आर्ये! अहं नु तस्याभिवृद्धिम् अभिलक्ष्य ताडनं करोमि। वस्तुत: स एव मे प्रियतम:। इमं हि श्रुत्वा साश्रुनयन: प्रतिनिवृत्त: सुकुमार: अन्यस्मिन् अहनि गुरुं प्रति चोदितवान् यत् गुरुवधोद्युक्तस्य किं वा दण्डनमिति। सः गुरु:तुषाग्नौ दाहनमित्युक्तवान्। शिष्य एवमकरोत्। सर्वं वृत्तन्तं च गुरवे न्यवेदयत्। तुषाग्नौ स्थित्वा तेन श्रीकृष्णविलासकाव्यं विराचितम्। काव्यस्यापूर्त्ते: अनन्तरं दग्धः सन् मरणं प्राप्तवान् इति ऐतिह्यम्।

विषय:[सम्पादयतु]

नाम्ना एव अभिज्ञायते यत् भगवत: श्रीकृष्णपरमात्मन: लीलाविलसानि एव अत्र वर्णितानि इति। श्रीमद्भागवतपुराणम्-दशम-एकादशस्कन्धान् अधिकृत्यैव रचना।

साहित्यम्[सम्पादयतु]

सर्गरूपेण विभक्तमिदं काव्यं भाषालालित्ये रूढम्, आशयसम्पुष्ट्या गाढम्, अलङ्कारप्रयुक्त्या सहृदयहृदयाह्लादजनकं च वर्तते। इन्द्रवज्रा,उपेन्द्रवज्रा,उपजाति,वंशस्थम्,रथोत्थता,रुचिरकम्पितम्इत्यादय: प्रसिद्धवृत्ता: अत्र उपयुक्ता:।

सम्पर्कतन्तुः[सम्पादयतु]

Internal link श्रीमद्भागवतपुराणम् Bhagavata Purana SRIKRISHNAVILASAM

External Link The poet who burned himself

आधाराः[सम्पादयतु]