काव्यमीमांसा
अयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
कविशेखरेण राजशेखरेण काव्यमीमांसा (Kavyameemamsa) इति अलङ्कारशास्त्रग्रन्थः लिखितः । अयं ग्रन्थः भारतीयसाहित्यम् अवजिगमिषुभिः अध्येयेषु प्रमुखः । संस्कृतसाहित्यशास्त्रस्य अनर्घ्यं रत्नम् । अस्य मतेन आदिकविः "काव्यपुरुषः" । द्वितीयः कविः "शुक्रः" । तृतीय एव "वाल्मीकिः" । अस्मिन् ग्रन्थे राजशेखरादपि पूर्वकालादेव या परम्परा कविजगति प्रचलन्ती आसीत् तामेव भाविनोऽपि कवीन् विनेतुं काल्पनिकरूपकमाध्यमेन काव्यपुरुष-साहित्यविद्यावधूप्रणयनद्वारा प्रणीतवान् कविः । अस्य मतेन काव्यपुरुषः ब्रह्म-सरस्वत्योः कुमारः । अस्मिन् विचारे वायुपुराणे अभिप्रायभेदः अस्ति । ध्वन्यालोककर्ता आनन्दवर्धनोऽपि अस्मिन् विषये राजशेखरेण सहमतः । वस्तुतोऽयम् ग्रन्थः अष्टादशाधिकरणेषु संविभक्तः बृद्ग्रन्थ आसीत् । परन्तु अधुना केवलं प्रथमाधिकरणमात्रम् उपलभ्यते । अस्मिन्नधिकरणे अष्टादशाध्यायाः सन्ति ।
विषयानुक्रमः
[सम्पादयतु]- प्रथमाध्याये शास्त्रावतरणस्य इतिहासः, ब्रह्मणा काव्यपुरुषस्य सृष्टिः, काव्यविद्यायाः प्रसाराय काव्यपुरुषस्य नियोजनम्, तेन च काव्यपुरुषेण अष्टादशभ्यः शिष्येभ्यः एकैकस्य अधिकरणस्य कृतः उपदेशः, तैः शिष्यैश्च तत्तद्विषयेषु पृथक् पृथक् ग्रन्था विरचिताः इत्यादयो विषया विद्यन्ते ।
- द्वितीयाध्याये वाङ्मयस्य काव्यं शास्त्रं चेति द्वैविध्यम्, शास्त्रे च पौरुषेयम् अपौरुषेयम् इति द्वैविध्यम्, अपौरुषेयं मन्त्रब्राह्मणरूपम्, पौरुषेयं पुनः पुराणम्,आन्वीक्षिकी-मीमांसा-स्मृति-तन्त्रशास्त्ररूपम् । अलङ्कारशास्त्रमपि वेदस्य सप्तमम् अङ्गम् इति, चतुर्दशविद्यासु पञ्चदशत्वेन साहित्यविद्यापि अन्तर्भवतीति प्रख्यापितमत्र । अपि च आन्वीक्षिकी-त्रयी-वार्ता-दण्डनीतिसंज्ञिकासु विद्यासु पञ्चमी साहित्यविद्या इति अत्र प्रतिपादितम् राजशेखरेण ।
- तृतीयाध्याये पुत्रार्थिनी हिमालये तपस्यन्ती सरस्वती, ब्रह्मणः प्रसादेन तस्याः पुत्रप्राप्तिः, तं पुत्रमादाय सरस्वती यदा स्नानार्थं निष्क्रान्ता तदा तम् उशनाः स्वाश्रमं निनाय, तमपत्यमपश्यन्तीं रुदतीं सरस्वतीं वाल्मीकिरुपागत्य उशनस आश्रमं प्रति नीतवान् । अत्र मूलग्रन्थस्य कानिचन वाक्यानि स्मरणीयानि भवन्ति । यथा-"एवं गुरुभ्यो गिरः पुण्याः पुराणीः श्रुणुमः स्म यत् किल धिषणं शिष्याः कथाप्रसङ्गे पप्रच्छुः "कीदृशः पुनरसौ सारस्वतेयः काव्यपुरुषो वो गुरुः?" इति । स तान् बृहताम्पतिरूचे । "पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ तपस्यामास । प्रीतेन मनसा तां वैरिञ्चः प्रोवाच । 'पुत्रं ते सृजामि’ इति । अथैषा काव्यपुरुषं सुषुवे । सोऽप्युत्थाय सपादोपग्रहं छन्दस्वतीं वाचमुदचीचरत् ।
- यदेतद्वाङ्मयं विश्वम् अर्थमूर्त्या विवर्तते ।
- सोऽस्मि काव्यपुमानम्ब! पादौ वन्देय तावकौ ॥ इति ।
एवमेव शुक्रस्य समीपेऽपि सारस्वतेयः छन्दस्वतीं वाचमुदैरयत् यथा-
- या दुग्धाऽपि न दुग्धेव कविदोग्धृभिरन्वहम् ।
- हृदि नः सन्निधत्तां सा सूक्तिधेनुः सरस्वती ॥ इति ।
वाल्मीकिद्वारा मुहुरात्मीयं पुत्रं प्राप्तवती सरस्वती तं वाल्मीकिं कृपयाऽनुप्रेक्ष्य तस्मै निभृतं स्वच्छन्दांसि प्रायच्छत् । स च वल्मीकभवः मुनिः निषादनिहतसहचरीकं क्रौञ्चयुवानं करुणक्रेङ्कारया गिरा क्रन्दन्तमुदीक्ष्य शोकवान् श्लोकमुज्जगाद ।
- मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
- यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ इति ।
- चतुर्थाध्याये गुरुशिष्ययोः द्वैविध्यं प्रोक्तम् । प्रथमः बुद्धिमान्, द्वितीयः आहार्यबुद्धिश्च इति । प्रसङ्गानुसारं दुर्बुद्धिरपि शिष्यः विवेचितः । प्रतिभा च कल्पिता कारयित्री चेति द्विविधा भवतीति अभिहिता । श्याम-मङ्गलनाम्नोः मतान्युपन्यस्य कविकर्मणः सहायकतत्वविवेचना कृता ।
- पञ्चमाध्याये प्र्तिभा-व्युत्पत्तिविवेचनात्र विहिता । बहूनां प्राक्तनशास्त्रकृतां मतानि विविच्य कविभेदानुकीर्तनं, नवविधा काव्यपाकचर्चाऽपि कृता दृश्यते । कुकवित्वं च निरस्तम् ।
- षष्ठाध्याये पदवाकविवेकः, सप्तमाध्याये वाक्यानां विचारः, अष्टमाध्याये काकुवाक्प्रकारः, नवमाध्याये पाठप्रतिष्ठा, दशमाध्याये काव्यार्थयोनयः, एकादशाध्याये अर्थानुशासनम्, द्वादशाध्याये कविचर्चा, त्रयोदशाध्याये राजचर्या, चतुर्दशाध्याये शब्दार्थहरणोपायाः, पञ्चदशाध्याये कविविशेषः, षोडशाध्याये कविसमयः, सप्तदशाध्याये देशकालविभागः, अष्टादशाध्याये भुवनकोश इति विषयाः निरूपिताः ।
ग्रन्थप्रणयनम्
[सम्पादयतु]श्रीकण्ठात्=सदाशिवात् शासितः षड्भिरैश्वर्यैः सम्पन्नः परमेष्ठी निजमानसपुत्रेभ्यः मरीच्यादिभ्यः प्रथमम् "काव्यम्" उपदिदेश । तेषु शिष्येषु देवतानामपि पूज्यः सरस्वतीतनयः काव्यपुरुषः लोके आद्यः काव्यप्रवर्तकः अभवत् । स च काव्यपुरुषः अष्टादशाधिकरणैरुपेतां काव्यविद्यां स्वर्गनिवासिभ्यः स्वशिष्येभ्यः देवेभ्यः सप्रपञ्चं प्रोवाच । तेषु शिष्येषु कस्मै किम् उपदिष्टम्, केन वा किमभ्यस्तम्, केन च पुनः कस्य प्रचारः कृतः इति सूचयन्नाह ग्रन्थकारः । यथा- इन्द्रः कविरहस्यनामकम् अधिकरणम्, उक्तिगर्भकनामकः उक्तिवैचित्र्यपादकम् अधिकरणम्, सुवर्णनाभः रीतिनिर्णयम्, प्रचेता अनुप्रासिकम्, यमः यमकम्, चित्राङ्गदः चित्रकाव्यम्, शेषः शब्दश्लेषम्, पुलस्त्युअः वास्तवम्, औपकायनः औपम्यम्, पाराशरः अतिशयम्, उतथ्यः अर्थश्लेषम्, कुबेर उभयालङ्का्रिकम्, कामदेवः वैनोदिकम्, भरतः रूपकनिरूपणम्, नन्दिकेश्वरः रसाधिकारिकम्, धिषणः सोषाधिकरणम्, उपमन्युः गुणौपादानिकम्, कुचुमाराख्यः औपनिषदिकम् च अधीत्य प्रचारयामासुः । तदनन्तरं ते सर्वेऽपि प्रत्येकतया स्वशास्त्राणि विरचयाञ्चक्रुः । एवं च आबहोः कालात् सा काव्यविद्या विच्छिन्ना आसीत् । ततः यायावरेण राजशेखरेण सा सङ्क्षिप्य अष्टादशप्रकरणी काव्यविद्या काव्यमीमांसानाम्नी प्रणीतास्ति इति ।
वाह्यसूत्राणि
[सम्पादयतु]- काव्यमीमांसा (विकिस्रोतः)