प्राचीनज्योतिषम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(प्राचीनज्योतिष्यम् इत्यस्मात् पुनर्निर्दिष्टम्)


असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरुपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरुपं चपलः सरक्तगौरः मज्जासारश्च माहेयः इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्तिकुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते इति । कुजः (भूमिपुत्रः ) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? सूर्यादीनां सञ्चारः भ्रममूलः, ग्रहाणां स्वप्रकाशता नास्ति इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः । एते विषयाः इतः पूर्वं परिचायिताः इत्यतः विरम्यते विस्तरात् ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्राचीनज्योतिषम्&oldid=480611" इत्यस्माद् प्रतिप्राप्तम्