वृक्षायुर्वेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
वृक्षः

वृक्षायुर्वेदस्य उल्लेखः[सम्पादयतु]

अथर्ववेदः, वराहमिहिरस्य बृहत्संहिता, शार्ड्गधरपद्धतिः इत्यादिषु प्राचीनग्रन्थेषु वृक्षायुर्वेदस्य विचारः बहुधा चर्चितह् दृश्यते । स च वृक्षायुर्वेदविचारः तावत् अतिप्राचीनः । महर्षिः पराशरः (क्रि पू २००) अपि वृक्षायुर्वेदविषये चर्चां कृतवान् अस्ति । तेन उक्ताः बहवः विचाराः अद्यापि सस्यशास्त्रक्षेत्रे अपूर्वत्वेन परिगण्यन्ते । सस्यशास्त्रम् अधिकृत्य गंभीरम् वैज्ञानिकं च विवरणम् अत्र कृतं दृश्यते । महर्षिः पराशरः वृक्षाणां विभिन्नपरिवारान् उल्लिखितवान् अस्ति ।

पराशरस्य विभागक्रमः[सम्पादयतु]

वृक्षमूलाः

पराशरेण कृतः विभागक्रमः तथा वैज्ञानिकः च अस्ति यत् अद्यापि आधुनिके सस्यशास्त्रे सः विभागक्रमः अनुस्रियते ।

पराशरकृतः विभागः आधुनिकः विभागः
(क्रि पू ९००) (क्रि श १७००)
शमीगणीयाः Leguminoesae
पुपीलिकगणीयाः Rutaceae
स्वस्तिकगणीयाः Cruciferae
कूर्चगणीयाः Compositae (Plant cell)

पराशरमुनिः सस्यानां रसकोशः (Plant cell) विषये विस्तरेण कथयति स्वग्रन्थे । तेन कथितं तावत् आश्चर्यकरं वैज्ञानिकं च अस्ति यत् सूक्ष्मदर्शकादिसाहाय्यं विना अपि सः यत् कथितवान् तत् राबर्टहुक्केन (क्रि श १६६५) सूक्ष्मदर्शकसाहाय्येन यत् विवरणं दत्तं ततोऽपि वैज्ञनिकं निर्दुष्टं च अस्ति । पराशरमुनेः विवरणं तावत् -

  • कलावेष्टनम् (Outer wall)
  • सूक्ष्मपत्रकम् (Inner wall)
  • रञ्जकयुक्ता रसाश्रया (Sap with colouring matter)
  • अन्वक्षा (केवलनेत्राभ्यां द्रष्टुम् अशक्या)

राबर्टहुक् तु एतावत् एव वदति - "सस्येषु केचन विभागाः भवन्ति । ते च मधुकोषरचनासादृश्यं वहन्ति" इति । सस्यानि मृत्तिकातः द्रवरूपम् आहारं प्राप्नुवन्ति इत्येषः अंशः अस्मत्प्राचीनैः सुविदितः एव आसीत् । वृक्षायुर्वेदः 'पादप'शब्दः (पादैः पिबति इति पादपः) एतम् एव अथं द्योतयति । महाभारतस्य शान्तिपर्वणि - 'वृक्षः केन प्रकारेण भूमितः जलं स्वीकरोति' इत्येषः अंशः एवं निरूपितः -

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।
तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ इति ।

सस्यानाम् एषा जलोद्धरणप्रकिया आधुनिकविज्ञाने SUCTION FORCE इति उच्यते । एषः सिद्धान्तः १८१४ तमे क्रिस्ताब्दे डिक्सन्-जाली-(Dixon & Jolly)नामकाभ्याम् अमेरिकादेशीयाभ्यां सस्यशास्त्रीयाभ्यं प्रतिपादितः ।

वृक्षस्य काण्डः

ऋग्वेदे उल्लेखः[सम्पादयतु]

ऋग्वेदे एव (क्रि पू ६०००) Morphological character तत्त्वस्य आधारेण सस्यानां विभागः कृतः दृश्यते । सस्यभागाः ये यजुर्वेदे उक्ताः (पुष्प-पर्ण-काण्ड-मूलादयः) ते एव सन्ति व्यवहारे आधुनिककाले अपि । सस्यजीवनस्य अध्ययनं भारते प्राचीनकालात् अपि प्रवर्तते एव । अथर्ववेदः सस्यानाम् आकारं, गुणधर्मान्, लक्षणानि च अवलम्ब्य सस्यानां विभागं करोति । सस्यानां विभागाः केचन -

  • प्रस्थानवती (Spreading)
  • स्तम्भिनी (Bushy)
  • एकशङ्का (With Single shorl of calyx)
  • अंशुमती (Having many Shoots)
  • प्रतानवती (Extending)
  • विशाखा (Having Extending branches)
  • काण्डिनी (Jointed)
  • जीवाला (Lively)
  • नघरिषा (Harmless)
  • मधुमती (Very Sweet)

एषः सस्यविभागक्रमः ५००० वर्षेभ्यः पूर्वमेव कृतः आसीत् । किन्तु पाश्चात्त्यदेशेषु तु ग्रीक्देशीयः थियोप्रस्टस्वर्यः सस्यशास्त्रस्य संस्थापकः इति परिगण्यते, येन क्रि पू तृतीये शतके सस्यविभागक्रमः कृतः ।

ऋग्वेदे दर्शितः विभागक्रमः[सम्पादयतु]

ऋग्वेदे सस्यानां विभागः यः उक्तः सः एव आधुनिकैः अपि उक्तः अस्ति ।

वीरुधविशेषः
ऋग्वेदः थियोप्रस्टर्स्
(क्रि पू ६०००) (क्रि पू ३०००)
वृक्षाः Trees
ओषधयः Herbs
वीरुधः Shrubs

सुश्रुतस्य विभागक्रमः[सम्पादयतु]

सुश्रुतः चतुर्विधविभागं दर्शयति - वनस्पतयः, वृक्षाः, वीरुधः, ओषधयः चेति । 'अपुष्पाः फलवन्तो वनस्पतयः । पुष्पफलवन्तो वृक्षाः । प्रतानवत्यः स्तम्बिन्यश्च वीरुधः । फलपाकान्ताः ओषधयः' इति सः विवृणोति । एतत् एव विवरणं मनुः (१-४६-४८) अपि ददाति -

उद्भिज्जाः स्थावरा ज्ञेया बीजकाण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः ॥
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥
गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥

चरकस्य विभागक्रमः[सम्पादयतु]

चरकः स्थावराणां षड् भेदान् वदति -

  • पुष्पं विना ये फलन्ति ते वनस्पतयः ।
  • फलपाकान्ताः ओषधयः ।
  • आरोहणापेक्षाः लताः ।
  • वेण्वादयः त्वक्साराः ।
  • लता एव काठिन्येन आरोहणानपेक्षाः वीरुधः ।
  • ये पुष्पैः फलन्ति ते द्रुमाः ।

चरके सस्यजातिलक्षणं यत् उक्तं तत् विशेषावधानम् अर्हति - 'ऊर्ध्वं स्रोतः आहारसञ्चारो येषां ते तमःप्रधानाः अव्यक्तचैतन्याः अन्तःस्पर्शमेव जानन्ति, नान्यत् तदप्यन्तरेव जानन्ति, न बहिः, विशेषेणः अव्यवस्थितपरिणामाद्यनेकभेदवन्तः' इति ।

ओषधविशेषः

वराहमिहिरस्य विभागक्रमः[सम्पादयतु]

आधुनिकविज्ञानेन परिगण्यमानाः सस्यव्याधयः वराहमिहिरेण स्वकीये बृहत्संहितानामके ग्रन्थे उक्ताः सन्ति । ते च - बृहत्संहितायाम् आधुनिकविज्ञाने

१ पाण्डुपत्रता Chlorosis of leaves
२ प्रवालावृद्धिः Falling off of buds
३ शाखाशोषः Drying of branches
४ रसस्रुतिः Exudation of sap
"https://sa.wikipedia.org/w/index.php?title=वृक्षायुर्वेदः&oldid=358619" इत्यस्माद् पुनः प्राप्तिः