संस्कृतवाङ्मयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

संस्कृते किं नास्ति?[सम्पादयतु]

संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥

संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥

भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥

संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥

सामूहिकम्[सम्पादयतु]

सामुहिकविषयम् अधिकृत्य पाश्चात्यानां पैनः पुन्येन कथनं श्रूयते यत् भारतीयानाम् इतिहासप्रज्ञा नास्ति, कालगणनानैपुण्यं नास्ति इति । किम् इतिहासः नाम केचन वर्षविशेषाः, कानिचित् नामानि, काश्चित् पराजयगाथाः च ? विद्यालये यत् इदानीं पाठ्यते तावन्मात्रकम् एव किम् भवति इतिहासः ? इतिहासपठनस्य उद्देश्यं किमिति आदौ परिचिन्तनीयम् । सुन्दरस्य भविष्यस्य निर्माणम् एव इतिहासस्य लक्ष्यम् इति मम मतिः । अतः एव खलु स्वामी विवेकानन्दः उक्तवान् यत् येषाम् उत्कृष्टः भूतकालः अस्ति तेषाम् एव भविष्यत् कालः उत्तमः सम्भवति इति? एताः वर्ष-नाम –पराजयगाथाः पठामः चेत किं पुर्वोक्तं लक्ष्यं सिध्दं भवेत् ? तादृशं लक्ष्यं साधयितुं रामायण – महाभारतादीनां पठ्नम् एव उत्तमं साधनं खलु ?

कालगणनानुसारी इतिहासः भारते नास्ति इत्यतः एषा युक्तिः खलु उपस्थाप्यते ? इति केचित् वदेयुः । तत्तु सर्वथा असमञ्जसम् । राजतरङ्गिण्यादयः एतिहासिकाः ग्रन्थाः अत्र सन्ति एव बहवः ॥ ये सेकेण्ड् नामकं कालं लघुतमं मन्यन्ते, ये च वर्षम् एव बृहत्तमं मन्यन्ते, ते लवस्य परार्धस्य च उपयोक्तृणाम् अस्माकम् उपहासं यत् कुर्वन्ति तत् पङ्गुना खञ्जेन वा कृतः पादवतः उपहासः इव भवति ॥

Devimahatmya Sanskrit MS Nepal 11c.jpg

प्राचीन विज्ञानम्[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Presenting Indian S&T Heritage in Science Museums, Propagation : a Journal of science communication Vol 1, NO.1, January 2010, National Council of Science Museums, Kolkata, India, by S.M Khened, [१].
  • Presenting Indian S&T Heritage in Science Museums, Propagation : a Journal of science communication Vol 1, NO.2, July, 2010, pages 124-132, National Council of Science Museums, Kolkata, India, by S.M Khened,[२].
  • Geek Nation: How Indian Science is Taking Over the World by Angela Saini (2011)

124-132, [३]

"https://sa.wikipedia.org/w/index.php?title=संस्कृतवाङ्मयम्&oldid=395954" इत्यस्माद् पुनः प्राप्तिः