राशिविज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


[[Category:]]

स्वकीये ब्रह्माण्डे एकं भचक्रं विद्यते । तस्य चक्रस्य भागाः ३६० अंशपरिमिताः सन्ति । तस्मिन्नेव भचक्रे द्वादशराशयः सन्ति । अतः प्रति त्रिंशदंशविशेषः एकः राशिर्भवति । यथा –
ज्योतिषाधारेणा भचक्रं कालपुरुषात्मकमस्ति । तस्यैवाङ्गस्वरूपेणा द्वादशराशयः सन्ति । ते यथा –

मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः ।
तुलालिधनुषो नक्रकुम्भमीनास्ततः परम् ॥

अर्थात्- मेषः, वृषः, मिथुनः, कर्कः, सिंहः, कन्या, तुला, वृश्चिकः, धनुः, मकरः, कुम्भः, मीनश्चैते द्वादशराशयो भवन्ति । राशेः पर्यायवाचिशब्दरूपेण क्षेत्रं, गृहं, ऋक्षं, भं भावश्चादयः व्यवह्रियन्ते । नक्षत्रसमूहैः राशयः भवन्ति । ३६० डिग्रिमानैः युक्तं कान्तिचक्रं द्वादशधा विभक्तं वर्तते । अस्य कारणीभूतः अस्ति चन्द्रः । कस्मिंश्चित् पूर्णिमादिने चन्द्रः यस्मिन् नक्षत्रे भवति तत्रैव पुनः आगमनाय १२ मासाः अपेक्षिताः भवन्ति । सूर्यस्य विषये प्रत्यक्षप्रामाणस्य प्राप्तिः असाध्या । यतः सूर्यस्य प्रकाशे अन्यानि नक्षत्राणि न दृश्येरन् एव । अतः सूर्योदयात् प्राक् आकाशे दृश्यमानानि नक्षत्राणि, सूर्यास्तमस्य अनन्तरं पश्चिमदिशि दृश्यमानानि नक्षत्राणि वा परिगणय्य यदि गणयामः तर्हि समाननक्षत्राणां दर्शनं १२ मासानाम् अनन्तरम् एव भविष्यति । अतः राशयः द्वादशधा विभक्ताः सन्ति । ३६० डिग्रिमानैः युक्तं ज्योतिर्वृत्तं द्वादशधा यदि विभज्येत तर्हि एकैकः भागः ३० डिग्रिमानयुक्तः भवति ।

द्वादशराशयः[सम्पादयतु]

क्रमसंख्या राशिः परिधिः
मेषः ०-३०डिग्रिमानयुक्तः
वृषभः ३०-६०डिग्रिमानयुक्तः
मिथुनः ६०-९०डिग्रिमानयुक्तः
कर्काटकः ९०-१२०डिग्रिमानयुक्तः
सिंहः १२०-१५०डिग्रिमानयुक्तः
कन्या १५०-१८०डिग्रिमानयुक्तः
तुला १८०-२१०डिग्रिमानयुक्तः
वृश्चिकः २१०-२४०डिग्रिमानयुक्तः
धनुः २४०-२७०डिग्रिमानयुक्तः
१० मकरः २७०-३००डिग्रिमानयुक्तः
११ कुम्भः ३००-३३०डिग्रिमानयुक्तः
१२ मीनः ३३०-३६०डिग्रिमानयुक्तः

एकैकं नक्षत्रं १३.२० डिग्रिमानयुक्तं भवति ।

कालपुरुषस्य अङ्गानि[सम्पादयतु]

कालपुरुषस्याङ्गेषु मेषराशिः मस्तकं, वृषराशिः मुखं, मिथुनराशिः भुजद्वयं, कर्कराशिः हृदयप्रदेशः, सिंहराशिः उदरस्थानं, कन्याराशिः कटिस्थलम्, तुलाराशिः वस्तिः नाभिलिङ्गयोर्मध्यभागः, वृश्चिकराशिः गुह्याङ्गं लिङ्गादिगुप्ताङ्गानि, धनुराशिः उरुः, मकरराशिः जानुः कुम्भराशिः जंघद्वयं , मीनराशिः पादद्वयं च भवति । यथोक्तं –

कालाङ्गानि वराङ्गमाननमुरो हृत्क्रोडवासोभृतो,
वस्तिर्व्यजनमुरुजानुयुगले जङ्घे ततोऽङ्घ्रि द्वयम् ।
मेषाश्विप्रथमा नवर्क्षचरणाचक्रस्थिता राशयो,
राशिक्षेत्रगृहर्क्षभानि भवनं चैकार्थसम्प्रत्ययाः ॥ (बृ. जा. – १/४)

राशिस्वरूपम्[सम्पादयतु]

मेषादिराशीनां स्वरुपमधस्तात् प्रतिपाद्यते । यथा –
मत्स्यौ घटी नृमिथुनं सगदं सवीणं,
चापी नरोऽश्वजघनो मकरो मृगास्यः ।
तौलीससस्यदहना प्लवगा च कन्या,
शेषाः स्वनामसदृशाः खचराश्च सर्वे ॥

अर्थात् निम्नाकारयुक्ताः मेषादिराशयः भवन्ति । यथा- मत्स्यद्वयाकारः मीनराशिः , घटधारकपुरुषस्याकारः कुम्भराशिः, स्त्रीपुरुषयोः युगलचित्रं मिथुनराशिः अत्र पुरुषस्य हस्ते गदा तथा स्त्रियाः हस्ते वीणा वर्तते, धनुर्धारिपुरुषस्याकारः धनुरत्र पुरुषस्य कटिप्रदेशादधः भागः अश्वाकारः ऊर्ध्वभागश्च पुरुषाकारः मकरराशिः मकरसदृशः वर्तते , परन्तु तस्य मुखं हरिणसदृशं, तुलाराशेः स्वरूपं तुलाधारिपुरुषस्य वर्तते, कन्याराशेः स्वरूपं वालिकायाः वर्तते यस्या एकस्मिन् हस्तेऽग्निरन्यस्मिन् च अन्नं वर्तते तथा च सा नावोपरि उपविष्टा भवति, मेषराशेः मेष इव स्वरूपं, बृषराशेः वृष इव, कर्कस्य कर्क इव, सिंहस्य सिंह इव तथा च वृश्चिकस्य वृश्चिक इव स्वरूपं वर्तते ।

राशीनां नामान्तराणि[सम्पादयतु]

राशीनां नामान्तराण्यपि बृहज्जातके प्रतिपादितानि । यथा –
क्रियताबुरिजितुमकुलीरलेयपार्होनजूककौर्प्याख्याः ।
तौक्षिकाअकोकेरोहृद्रोगश्चान्यर्भचेत्थम् ॥ (बृ. जा. – १/८)
अर्थात् क्रियः मेषस्य, ताबुरिः बृषस्य, जितुमः मिथुनस्य,कुलीराः कर्कस्य, लेयः सिंहस्य, पाथोनः कन्यायाः , जूकः तुलायाः कौर्पिः वृश्चिकस्य तौक्षिकः धनोः आकोकेरः मकरस्य, हृद्रोगः कुम्भस्य , अन्त्यभञ्च मीनस्य नामान्तरं वर्तते ।

राशिषु नक्षत्राणां विभजनम्[सम्पादयतु]

एकस्यां राशौ पादप्रमाणोत्तरं नक्षत्रद्वयम् भवति । (१३.२० + १३.२० + ३.२० = ३० डिग्रिपरिमितम्) । एतेन नक्षत्रविभजनेन एव प्रतिविषयं राशिदृष्ट्या विश्लेषणं कर्तुं शक्यते । मुहूर्त-गोचरादीनां निर्णये अयं विषयः अनिवार्यः भवति ।

राशिः नक्षत्रविभजनम्
मेषः अश्विनी (४) भरणी (४) कृत्तिका (१)
वृषभः कृत्तिका (२,३,४) रोहिणी (४) मृगशिरा् (१,२)
मिथुनः मृगशिरा (३,४) आर्द्रा (४) पुनर्वसु (१,२,३)
कर्काटकः पुनर्वसु (४) पुष्य (४) आश्लेषा (४)
सिंहः मखा (४) पूर्वा फाल्गुनी(४) उत्तरा फाल्गुनी (१)
कन्या उत्तर (२,३,४) हस्त (४) चित्त (१,२)
तुला चित्त (३,४) स्वाति (४) विशाखा (१,२,३)
वृश्चिकः विशाखा (४) अनूराधा (४) ज्येष्ठा (४)
धनुः मूल (४) पूर्वाषाढा (४) उत्तराषाढा (१)
१० मकरः उत्तराषाढा (२,३,४) श्रवण (४) धनिष्ठा (१,२)
११ कुम्भः धनिष्ठा (३,४) शतभिष (४) पूर्वाभाद्र (१,२,३)
१२ मीनः पूर्वाभाद्र (४) उत्तराभाद्र (४) रेवती (४)

राशिविभागः[सम्पादयतु]

स्वभावानुसारं राशयः त्रिधा विभक्ताः - चर, स्थिर, द्विस्वभावयुक्ताः - इति ।

क्रमसंख्या राशिः स्वभावः
मेषः चरः
वृषभः स्थिरः
मिथुनः द्विस्वभावः
कर्काटकः चरः
सिंहः स्थिरः
कन्या द्विस्वभावः
तुला चरः
वृश्चिकः स्थिरः
धनुः द्विस्वभावः
१० मकरः चरः
११ कुम्भः स्थिरः
१२ मीनः द्विस्वभावः

चरराशीनां स्वभावः[सम्पादयतु]

एषु राशिषु ये जाताः ते क्रियाशीलाः, चञ्चलाः, परिवर्तनापेक्षिणः, लक्ष्यबद्धाः, उत्साहिनः, पर्यटनोत्सुकाश्च भवन्ति ।

स्थिरराशीनां स्वभावः[सम्पादयतु]

एते स्थिराभिप्रायवन्तः, सुखजीवनाभिलाषिणः, एकाग्रता-निग्रह-सहना-हठ-आत्मविश्वासयुक्ताश्च भवन्ति ।

द्विस्वभावराशीनां स्वभावः[सम्पादयतु]

द्विधा अपि चिन्तनं, द्वन्द्वस्वभावः, अभिप्रायपरिवर्तनं, बोधनाशक्तिः, उपदेशः, विभिन्नाशयाः, बुद्धिमत्ता च भवति ।

तत्त्वाधारेण विभागः[सम्पादयतु]

अग्नितत्त्वम् भूतत्त्वम् वायुतत्त्वम् जलतत्त्वम्
मेषः वृषभः मिथुनः कर्काटकः
सिंहः कन्या तुला वृश्चिकः
धनुः मकरः कुम्भः मीनः
"https://sa.wikipedia.org/w/index.php?title=राशिविज्ञानम्&oldid=395780" इत्यस्माद् पुनः प्राप्तिः