मकरराशिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मकरः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्[सम्पादयतु]

मकराः जले भूमौ च अटतः । जले विद्यमानाः मकराः अधिकशक्तिशालिनः भवन्ति । हठेन सेवाधर्मपालनं, महता परिश्रमेण वा स्वस्य कार्यसमाप्तिः अस्य स्वभावः । स्वस्य स्थानबलं जले यथा अधिकं तथा मकरराशिवन्तः स्वस्य प्रदेशे एव अधिकाम् अभिवृद्धिं प्राप्नुवन्ति । लोके उदात्तधर्मस्य सेवाधर्मस्य सङ्केतरूपेण एते तिष्ठन्ति ।

अधिपतिः[सम्पादयतु]

मकर-कुम्भराश्योः शनिः अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । मकरराशौ श्रमपूर्वकसेवा दृश्यते । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति ।

राशिभावः[सम्पादयतु]

मकरराशेः सहज-दशमभावः इति निर्दिश्यते । कुटुम्बेन प्राप्यमाणः उत्तराधिकारः, समाजे प्राप्यमाणानि स्थानमानानि, उद्योगे प्राप्यमाणं गौरवं, वृत्तौ लाभालाभाः, वृद्धि-क्षयादयः - इत्यादयः अंशाः अत्र द्रष्टव्याः ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः[सम्पादयतु]

चरसंज्ञकः, स्त्रीजातिः, पृथ्वीतत्त्वं, वातप्रकृतिः, पिङ्गलवर्णः, रात्रिबली, वैश्यवर्णः, शिथिलशरीरं, दक्षिणदिशः स्वामी । अस्य प्राकृतिकस्वभावः उच्चदशाभिलाषी वर्तते । अस्य स्वामी शनिः । यथा चोक्तं-

मन्दाधिपस्तमी भौमी याम्येट् च निशिवीर्यवान् ॥
पृष्ठोदयी बृहद्गात्रो मकरो जलभूचरः ।
आदौ चतुष्पादन्ते च द्विपदो जलगो मतः ॥

स्म्बद्धानि अक्षराणि[सम्पादयतु]

मकरराशौ उत्तराषाढायाः २,३,४ पादाः, श्रवणायाः ४ पादाः, धनिष्ठायाः १, २ पादौ च भवन्ति इत्यतः बो, जा, जि, जू, जे, जो, ख, गा, गि ... इत्येतानि अक्षराणि मकरराशिसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्[सम्पादयतु]

येषां जन्मदिनम् फेब्रवरी-मासस्य २० दिनाङ्कतः मार्च्-मासस्य २० दिनाङ्कतः पूर्वं भवति तेषां मकरराशिः ।

"https://sa.wikipedia.org/w/index.php?title=मकरराशिः&oldid=478132" इत्यस्माद् प्रतिप्राप्तम्