मीनराशिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मीनः द्वादशसु राशिषु अन्यतमः अस्ति । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्[सम्पादयतु]

मीनद्वयं पञ्चभिः लेपनैः युक्ता आकृतिः एव मीनाकृतिः । मीनद्वयं द्वयोः भावयोः सङ्केतरूपः । निर्णयावसरे द्वैधीभावः पौनःपुन्येन पीडयति एव । एतयोः मीनयोः पञ्च नक्षत्राणि लिप्तानि सन्ति इत्यतः मीनराशिवन्तः अनुबन्धाय प्रतीक्षमाणाः भवन्ति । सर्वैः सह आत्मीयसम्बन्धपोषणे एते आसक्ताः भवन्ति । मीनः जले यथा वेगेन सञ्चरति तथैव एते अपि स्वस्थाने प्रतिभाः प्रदर्शयन्ति । एतेषां जीवने वेगः दृश्यते । मीनाः यथा अचिरात् दिक्परिवर्तनं कुर्युः तथैव एते स्वस्य निर्णयान् परिवर्तयन्तः भवन्ति । एते अंशाः मीनराशिवत्सु, मीनलग्नवत्सु, मीनराशौ रविः येषु विद्येत तेषु च दृश्यते ।

अधिपतिः[सम्पादयतु]

धनु-मीनराश्योः अधिपतिः गुरुः । ग्रहराज्यव्यवस्थायाः अनुसारं गुरुः समर्थः न्यायनिष्ठः अमात्यः । स्वस्य चिन्तनानि लोककल्याणकारकाणि भवेयुः इति आशास्ते अयम् । लोकोपकारिणां कार्याणां विषये संशोधने अग्रेसरप्रवृत्तिः एतेषु दृश्यते । उत्तम चिन्तनानि लक्ष्यसाधनशक्तिश्च धनुराशिवतां वैशिष्ट्यम् । उपकारिणां विधानानां प्रचाराय निरन्तरं प्रयतन्ते एते । विषयाणां गभीराध्ययनं, लाभालाभविषये विश्लेषणम्, उत्तमस्य प्रोत्साहनम्, अनुत्तमस्य निवारणाय समीचीनयोजनानिर्माणं च अमात्यस्य गुरोः कार्याणि । जनानाम् आवश्यकतायाः अभिज्ञानं, सर्वे यथा प्राप्नुयुः तथा करणाय संशोधनानि योजनाश्च तेषां द्वारा एव भविष्यति । स्वस्य भावान् अन्येषां द्वारा कार्यान्वयनं कर्तुम् एते प्रयतन्ते । अहमेव अग्रे भवेयम् इति एते न चिन्तयन्ति । आडम्बर-विलासादयः एतेषु न दृश्यन्ते । सामान्य-अपेक्षाणां विषये सहकारः प्राप्तः चेत् एते सन्तुष्टाः । स्वकार्ये एव मग्नाः सन्तः अन्येषाम् अपि मार्गदर्शनं कुर्वन्तः भवन्ति । सामान्यपरिशीलनं मीनराशिवतां वैशिष्ट्यम् । सर्वविधसंशोधनानि परमात्मनः प्राप्त्यै मार्गाः इति गुरुग्रहस्य प्रभावेण एव भावयितुं शक्यम् । आत्मगौरववर्धनं गुरुग्रहस्य वैशिष्ट्यम् ।

राशिभावः[सम्पादयतु]

मीनराशेः सहज-व्ययभावः इति निर्दिश्यते । व्ययस्थाने मानसिक-शारीरक-आर्थिकव्ययादयः अंशाः अत्र द्रष्टव्याः । सुखनिद्रा, मोक्षस्थानानि अपि अत्र एव परिशीलनीयानि ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः[सम्पादयतु]

द्विस्वभावः, स्त्रीजातिः, कफप्रकृतिः, जलतत्त्वं, रात्रिबली, विप्रवर्णः, उत्तरदिशः स्वामी, जलचरराशिः, पिङ्गलवर्णश्च भवति । अस्य प्राकृतिकस्वभावः उत्तमः, दयालुः , दानशीलश्च अस्ति । अनेन पादस्य विचारः क्रियते । अस्य स्वामी बृहस्पतिः । यथा चिक्तं –

मीनौ पुच्छास्य संलग्नौ मीनराशिर्दिवाबली ॥
जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः ।
अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी ॥
सुराचार्याधिपश्चास्य राशीनां गदितं मया ।

स्म्बद्धानि अक्षराणि[सम्पादयतु]

मीनराशौ पूर्वाभाद्रायाः चतुर्थः पादः, उत्तराभाद्रायाः ४ पादाः, रेवत्याः ४ पादाः च भवन्ति इत्यतः दी, दू, षं, झा, धा, दे, दो, चा, ची ... इत्येतानि अक्षराणि मीनराशिसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्[सम्पादयतु]

येषां जन्मदिनम् फेब्रवरी-मासस्य २० दिनाङ्कतः मार्च-मासस्य २० दिनाङ्कतः पूर्वं भवति तेषां मीनराशिः ।

"https://sa.wikipedia.org/w/index.php?title=मीनराशिः&oldid=478133" इत्यस्माद् प्रतिप्राप्तम्