कन्याराशिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कन्याराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्[सम्पादयतु]

एकाकिन्याः कन्यायाः मनसि यानि तुमुलानि भवन्ति तानि सङ्केतयति अयं राशिः । स्वस्य विद्यया, वर्तनेन, वाचा, केनचित् रूपेण सर्वे यथा आत्मानं पश्येयुः तथा भवति कन्याराशिवतां व्यवहारः । एतेषु प्रतिभाः पाण्डित्यञ्च आधिक्येन विद्यते । तेषां सद्विनियोगः यत्र भवेत् तादृशेषु वाणिज्य-प्रचारादिषु विभागेषु एते कार्यरताः भवन्ति ।

अधिपतिः[सम्पादयतु]

मिथुन-कन्याराश्योः बुधः अधिपतिः । बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम् । बुधः नाम पण्डितः इत्यपि अर्थः । कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम् । अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।

राशिभावः[सम्पादयतु]

कन्यायाः सहजषष्ठभावः इति निर्दिश्यते । अन्येषां सम्मुखीकरणविधानं, स्पर्धात्मकपरीक्षाः, देहे रोगनिरोधशक्तिः, शत्रुः, रोगः, ऋणविषये जयापजयाः, श्रमशक्तिः, उद्योगः इत्यादयः अंशाः षष्ठभावे अन्तर्भवन्ति । कन्याराशिवत्सु अपि एते अंशाः विशेषतया दृश्यन्ते ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः[सम्पादयतु]

पिङ्गलवर्णः, स्त्रीजातिः, द्विस्वभावः, दक्षिणदिशः स्वामी, रात्रिबली, वायुस्तथा शीतप्रकृतिः, पृथ्वीतत्त्वम्, अल्पसन्ततिः, अस्य प्राकृतिकस्वभावः मिथुनराशिः इव भवति । विशेषतया अयं स्वस्योन्नत्यर्थं यत्नशीलस्तथा च स्वाभिमानी भवति । अनेन उदरस्य विचारः क्रियते । अस्य स्वामी बुधस्तथा राहुः भवति । तदुक्तं -

पार्तीयाथ कन्याख्या राशिर्दिनबलान्विता ।
शीर्षोदया च मध्याङ्गा द्विपाद्याभ्यचरा स्मृता ॥
ससस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी ।
कुमारी तमसा युक्ता बालभावा बुधाधिपः ॥

स्म्बद्धानि अक्षराणि[सम्पादयतु]

कन्याराशौ उत्तराषाढायाः २,३,४ पादाः, हस्तायाः ४ पादाः, चित्तस्य १,२ पादाः च भवन्ति इत्यतः टो, पा, पी, पो, षं, णा, था, पे ... इत्येतानि अक्षराणि कन्यासम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्[सम्पादयतु]

येषां जन्मदिनम् आगस्ट्-मासस्य २४ दिनाङ्कतः सेप्टेम्बर्-मासस्य २३ दिनाङ्कतः पूर्वं भवति तेषां कन्याराशिः ।

"https://sa.wikipedia.org/w/index.php?title=कन्याराशिः&oldid=478012" इत्यस्माद् प्रतिप्राप्तम्