सिद्दरबेट्टः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


सिद्दरबेट्टः (Siddarabetta) कर्णाटकस्य तुमकूरुमण्डले विद्यमानः कश्चन प्रसिद्धः पर्वतः । मण्डलकेन्द्रात् ३०कि.मी.दूरे तोविनकेरे (ತೋವಿನಕೆರೆ) समीपे विद्यमानः अयं पर्वतः ओषधानां खनिः अस्ति । द्विसहस्राधिकाः वनस्पतयः अत्र सन्तीति शोधकानाम् अभिप्रायः । पर्वतमस्तके श्री सिद्धेश्वरदेवस्य मन्दिरम् अस्ति । दक्षिणकाशीति ख्यातः सिद्धगिरिः सुवर्णगिरिः इत्यपि नामयुक्तो अस्ति । सम्पूर्णपर्वतः गुहामयः अस्ति । अत्र सुवर्णगवि(गवि नाम गुहा इत्यर्थः) बङ्गारदगवि, बूदगवि, लक्ष्मीदेवी गद्दुगे, योगसाधनागद्दुगे च सन्ति । अनेके सिद्धाः अत्र तपः आचरितवन्तः । पर्वतस्य एकस्यां गुहायां सिद्धेश्वरलिङ्गः अस्ति । अत्र पर्वते सञ्जीविनी अस्ति (रोगनाशकवनस्पतिः )। श्वासरोगः, क्षयरोगः, उदररोगाः, अत्रत्यपर्णानां खादनेन विनश्यन्तीति जनानां विश्वासः अस्ति । कर्णाट्कस्य प्राक्तन- मुख्यमन्त्री श्री केङ्गल् हनुमन्तरायः अत्र आगत्य वासं कृतवान् इति विशेषविषयः ।

मार्गः[सम्पादयतु]

तुमकूरुतः ३२.कि.मी
बेङ्गलूरुतः १०० कि.मी
"https://sa.wikipedia.org/w/index.php?title=सिद्दरबेट्टः&oldid=389136" इत्यस्माद् प्रतिप्राप्तम्