आग्रा
आग्रा आगरा | |
|---|---|
|
नगरम् | |
|
आग्रानगरस्थं ताजमहल् | |
|
Nickname(s): अक्बराबाद् | |
| देशः | भारतम् |
| राज्यम् | उत्तरप्रदेशः |
| मण्डलम् | आग्रामण्डलम् |
| Area | |
| • नगरम् | १८८.४० km२ |
| Elevation | १७१ m |
| Population (2010) | |
| • नगरम् | १,६८६,९७६ |
| • Rank | 19 |
| • Density | ८,९५४/km२ |
| • Metro | १,७२७,२७५ |
| भाषाः | |
| • अधिकृताः | हिन्दी |
| Time zone | UTC+5:30 (IST) |
| पिन् |
282 X |
| Telephone code | 91(562) |
| Website | agra.nic.in |
Agra (
i/ˈɑːɡrə/; हिन्दी: आगरा, उर्दू: آگرہ)
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति आग्रामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति आग्रानगरम् । आग्रानगरं सा.श.१५०१ समये सिकन्दरलोधी इत्यस्य प्रशासनकाले भारतस्य राजधानी आसीत् । मोगलवंशीयानां बाबरहुमायून् इत्यादीनां प्रशासनकाले आग्राप्रदेशे अनेके भवनविशेषाः निर्मिताः । अक्बरः आग्रातः फतेपुरसिक्रिपर्यन्तं सा.श.१५७० तः १५८५ पर्यन्तं प्रशासनं कृतवान् । अनन्तर शाहजहानः तेजोमहालयः इति प्रसिद्धं शिवालयं परिवर्त्य ताजमहल् इति स्मारकसौधं कृतवान् । औरङ्गजेबः राजधान्याः देहलीनगरं प्रति स्थानन्तरितवान् । आग्रादुर्गम् अनेकैः प्रशासकैः निर्मितम् अस्ति । अक्बरः जहाङ्गीरः शाहजहानः औरङ्गजेबः च एतत् दुर्गं निर्मितवन्तः सन्ति । अत्र दरबारभवनं , शीषमहल्, राज्ञीवासः , प्रार्थनामन्दिरम् इत्यादीनी दर्शनीयानि सन्ति । आग्रातः १० कि.मी. दूरे दयालबाग् स्थले राधास्वामीमन्दिरं सुन्दरम् अस्ति । शिल्पकलादृष्ट्या अतीवभव्यम् अमोघं चास्ति । आग्रातः उत्तरभागे १० कि.मी. दूरे सिकन्दरस्थले अकबरस्य मृतस्मारकम् अस्ति । अत्र हिन्दुयवनशैल्या निर्मितानि गोपुराणि प्रतिकोणं सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।

अत्र हिन्दुमुस्लिं शैल्या निर्मितानि गोपुराणि प्रतिकोनेषु सन्ति । त्रिस्तरीयाणि गोपुराणि अतीव सुन्दराणि सन्ति ।

