सचिन तेण्डुलकर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सचिन् तेण्डुल्कर्
{{{imagealt}}}
वैय्यक्तिकपरिचयः
सम्पूर्णनाम सचिन् रमेशतेण्डुल्करः
जन्म (१९७३-२-२) २४ १९७३ (आयुः ५०)
बाम्बे (अधुना मुम्बई), महाराष्ट्रराज्यम्, भारतम्
प्रसिद्धनामानि लिट्ल् मास्टर्, टेण्ड्ल्य
औन्नत्यम् 5 फ़ुट 5 इंच (1.65 मी)
ताडनशैली दक्षिणहस्तेन
कन्दुकक्षेपणशैली दक्षिणस्कन्धः (लेग् स्पिन्, आफ् स्पिन्, मध्यमवेगः)
पात्रम् ताडकः
अन्ताराष्ट्रियविवरणानि
राष्ट्रम् भारतम्
प्रथमटेस्ट् (cap 187) १५ नवेम्बर् 1989 v पाकिस्थानम्
अन्तिमटेस्ट् २४ जनवरी 2012 v आस्ट्रेलिया
प्रथम-ओ डि ऐ(cap ७४) १८ डिसेम्बर् १९८९ v पाकिस्थानम्
अन्तिम-ओ डि ऐ २६ फेब्रवरी २०१२ v आस्ट्रेलिया
ओ डि ऐ युतकसङ्ख्या. १०
टि २० 1 December 2006 v South Africa
गृह्यगणविवरणानि
वर्षम् गणः
1988 Cricket Club of India
1988–present Mumbai
2008–present Mumbai Indians
1992 Yorkshire
वृत्तिजीवनस्य सांख्यिकी
स्पर्धा Test ODI FC LA
क्रीडाः 188 453 292 541
प्राप्ताः धावनाङ्काः 15,470 18,111 24,389 21,684
सामान्यताडनानि 55.44 45.16 58.62 45.84
१००s/५०s 51/65 48/95 78/111 59/113
श्रेष्ठाङ्कः 248* 200* 248* 200*
Balls bowled 4,174 8,032 7,539 10,220
विकेट् 45 154 70 201
बोलिङ्ग् 54.33 44.32 61.95 42.11
५ विकेट् (एकस्मिन् इनिङ्गस्) 0 2 0 2
१० विकेट् (एकास्यां स्पर्धायाम्) 0 n/a 0 n/a
श्रेष्ठबोलिङ्ग् 3/10 5/32 3/10 5/32
क्याच्/स्टाम्पिङ्ग् 113/– 136/– 181/– 171/–
Source: Cricinfo, 28 January 2012
सचिनतेण्डुलकरः

सचिनतेण्डुलकरः (Sachin Tendulkar) प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् ।

वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।

सः टेस्ट्क्रीडासु (५१) ओ.डि.ऐ.क्रीडासु, अन्ताराष्ट्रिय-एकदिवसीयक्रीडासु(४९) च आहत्य १८,४२६ [१] धावनाङ्कान् पाप्य जागतिकविक्रमं निर्मितवान् अस्ति । क्रीडाजीवनस्य आरम्भावसरे सः आसीत् षोडाशवर्षीयः । तदा लिटल् मास्टर् इति प्रीत्या सः सर्वैः निर्दिष्टः भवति स्म । मुम्बयीनगरे जातः अयम् एतावता २५ टेस्टक्रीडासु नायकत्वं निरूढवानस्ति । तेण्डुलकरस्य द्दढाग्रहः निष्ठायुता परिश्रमशीलता च तस्य यशसः कारणानि । एकदिनात्मिकायां क्रीडायां तेन १०० क्रीडापटवः बाह्यीकृताः, १०० कन्दुक-ग्रहणानि कृतानि च सन्ति । प्रसिद्धस्य वीक्षकविवरणकर्तुः हर्षाभोग्लेवर्यः वदति -‘सचिनः क्रिकेटरूपस्य गौरीशङ्करपर्वतस्य शिखरे एव स्थितः अस्ति’ इति ।

सचिन् रमेश् तेण्डुल्कर् एप्रिल्मासस्य २४ तमे दिने १९७३ तमे वर्षे जातः। अयं भारतीयक्रिकेट्-क्रीडालुः विश्वस्य क्रिकेट्-इतिहासे अतिश्रेष्ठक्रिकेट्-ब्याट्स्मन् वर्तते । सः क्रिकेट्-इतिहासे एव अत्यधिकशतकानि अपि साधितवानस्ति, पञ्चदिवसीय क्रिकेट् क्रीडास्पर्धायां (टेस्ट् इति कथ्यते) एकदिवसीयायाम् अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायां च । एकदिवसीयक्रीडायां द्विशतकं धावनाङ्कान् साधितवत्सु क्रीडालुषु एषः प्रथमः अस्ति । २००२ तमे वर्षे यदैषः १२ वर्षाणिमात्रं क्रीडितवानासीत् तदा एव क्रिकेट्-क्रीडासम्बद्धा विस्डेन्नामिका पत्रिका उदघोषयत् यत् 'एषः विश्वस्य अतिश्रेष्ठेषु दाण्डिकक्रीडालुषु सार्वकालिकद्वितीयायां श्रेण्यां तिष्ठति, टेस्ट्-क्रिकेट्-क्रीडायां प्रसिद्धस्य क्रीडालोः डोनाल्ड् ब्राड्मन्स्य समनन्तरमिति, एकदिवसीय-क्रिकेट्-स्पर्धायामपि क्रीडालोः विवियन् रिचर्ड्स्स्य समनन्तरम् एषः एव तिष्ठति इति । २००७ तमे वर्षे सेप्टम्बर्मासे आस्ट्रेलियादेशस्य ख्यातः कन्दुकक्षेपकः(bowler) शेन् वार्न् अवदत् यत् 'तेण्डुल्करः स्वेन साकं क्रीडितवत्सु अतिश्रेष्ठः क्रीडालुः' इति । २०११ तमे वर्षे भारतीयक्रिकेट्-गणेन विश्वप्रशस्तिस्पर्धायां यः विक्रमः प्राप्तः तस्य प्राप्तौ तेण्डुल्करस्य पात्रं मुख्यम् आसीत् । सचिनः विश्वप्रशस्ति-क्रिकेट्-स्पर्धायां षड्वारं भागम् ऊढवान् अस्ति ।

छायाचित्राणि[सम्पादयतु]

बाह्यसम्पर्कतन्तु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सचिन_तेण्डुलकर&oldid=473908" इत्यस्माद् प्रतिप्राप्तम्