सम्भाषणम्:सचिन तेण्डुलकर
विषयः योज्यताम्सचिनतेण्डुलकरः प्रसिद्धः कश्चन क्रिकेट्क्रीडापटुः । जगत्प्रसिद्धः मुष्टियुद्धपटुः मोहमदालिः आत्मनिर्वेदं विना घोषयति - "अहम् अस्मि अतीव प्रतिभाशाली" इति। नम्रवाग्मिना सचिनतेण्डुलकरेण कदापि न उच्यते यत् 'क्रिकेट्क्षेत्रे, महाप्रतिभाशाली अस्मि अहम् एव' इति । किन्तु निस्सन्देहं सः तथा अस्ति एव। सः जागतिकक्रिकेटक्षेत्रस्य केन्द्रबिन्दुः जातः अक्टोबरमासस्य १७ दिनाङ्के मोहाल्यां, यत्र आस्ट्रेलिया भारतयोः द्वितीयं टेस्ट् प्रवृत्तम् । वेस्ट-इण्डिसदेशीयेन ब्रियानलारेण ११,९५३ धावनाङ्कान् प्राप्य यः जागतिकविक्रमः प्रतिष्ठापितः आसीत् तम् अपि अतिशय्य सचिनेन विक्रमः क्रियेत इति केनापि न ऊहितम् आसीत् । सचिनस्य क्रीडाङ्गणप्रवेशावसरे लारस्य जागतिकविक्रमस्य भङ्गाय १५ धावनाङ्कमात्रम् अपेक्षितम् आसीत् । चायविरामतः पूर्वं सचिनेन १३ धावनाङ्काः प्राप्ताः । पीटरसिडलस्य प्रथमं कन्दुकक्षेपणं प्राप्य तेन धावनम् आरब्धम् । द्वितीयं धावनाङ्कम् आसाद्य तेन तृतीयस्य निमित्तं धावनम् अनुवर्तितम्।
Start a discussion about सचिन तेण्डुलकर
विकिपीडिया की सामग्री को यथासंभव सर्वश्रेष्ठ बनाने के लिए लोगों द्वारा जहाँ पर चर्चा की जाती है उन्हें वार्ता पृष्ठ कहा जाता है। सचिन तेण्डुलकर में सुधार कैसे करें, इसपर अन्यों के साथ चर्चा आरंभ करने के लिए आप इस पृष्ठ को काम में ले सकते हैं।