सामग्री पर जाएँ

धोण्डो केशव कर्वे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
धोण्डो केशव कर्वे
धोण्डो केशव कर्वे
जन्म क्रि.श. १८५८ तमवर्षस्य एप्रिल्मासस्य अष्टादशमदिनम् ।
मुरुड, शेरावाली, रत्नागिरीमण्डलम् महाराष्ट्रराज्यम्
मृत्युः क्रि.श. १९६२तमवर्षस्य नवेम्बर्मासस्य नवमदिनम् ।
देशीयता भारतीयः
शिक्षणस्य स्थितिः Huzurpaga Edit this on Wikidata
वृत्तिः समाजपरिवर्तकः
धर्मः हिन्दुधर्मः
अपत्यानि Raghunath Dhondo Karve, भास्कर धोंडो कर्वे Edit this on Wikidata
पितरौ (माता)
(पिता)

महर्षिः डॉ. धोण्डो केशव कर्वे (जीवनकालः - क्रि.श. १८५८ तमवर्षस्य एप्रिल्मासस्य अष्टादशमदितः क्रि.श.१९६२तमवर्षस्य नवेम्बर्मासस्य नवमदिनपर्यन्तम् ) प्रसिद्धः समाजपरिवर्तकः । महिलाशिक्षा तथा विधवाविवाहः इत्यादिषु महत्वपूर्णविषयेषु अस्य योगदानं महत् अस्ति । स्वस्य जीवनमेव महिलासमुत्थानर्थमेव समर्पितवान् । अनेन मुम्बैनगरे प्रतिष्ठापितः एन्.एन्.डि.महिलाविश्वविद्यालयः भारतस्य सर्वप्रथमः महिलाविश्वविद्यालयः । एषः क्रि.श. १८९१तमवर्षतः १९१४पर्यन्तं पुण्यपत्तने (पुणेनगरे) फरगुस्स्न् महाविद्यालये गणितविषयस्य प्रध्यापकः आसीत् । एषः क्रि.श. १९५८तमे वर्षे भारतरत्नप्रशस्त्या सम्मनितः ।

शिक्षा उद्योगः च

[सम्पादयतु]

धोण्डो केशव कर्वे जन्म महाराष्ट्रराज्यस्य रत्नगिरिमण्डले मरुड(शेरावली)ग्रमे कस्मिंश्चित् दीनेकुटुम्बे अभवत् । पिता केशव पन्तः, माता लक्ष्मीबायी । अस्य प्राथमिकी शिक्षा मरुडग्रामे एव अभवत् । पश्चात् सतारानगरे सार्धद्विवर्षम् अध्ययनं कृत्वा मुम्बैनगरस्य राबर्टमानी इति शालायां प्रवेशं प्राप्तवान् । क्रि.श. १८८४तमे वर्षे एषः मुम्बैविश्वविद्यालयतः गणितविषये स्नातकपवीम् अवाप्नोत् । स्नातकः सन् एषः एल्फिस्ट्न् विद्यालये अध्यापकः अभवत् । कर्वेवर्यस्य विवाहः तस्य पञ्चदशे वयसि अभवत् । स्नतकपदविसमापनकाले अस्य पुत्रस्य सार्धवर्षध्वयम् अभवत् । संसारस्य निर्वहणार्थं शालाकर्यम् अतिरिच्य बालिकानां शालाद्वये अल्पकालिककार्यं करोति स्म । गोपालकृष्णगोकलेवर्यस्य आमन्त्रणं पुरस्कृत्य क्रि.श. १८९१तमे वर्षे पुण्यपत्तनस्य (पुणेनगरस्य) प्रसिद्धे पर्ग्युसन् महाविद्यालये प्राध्यापकः अभवत् []। अत्र निरन्तरं २३वर्षाणि सेवाम् अकरोत् ।

समाजमुखी

[सम्पादयतु]

भारते विधवानां स्थितिः करुणापूर्णा शोचनीया च असीत् । मुम्बैनगरे अध्ययनावसरे एव एतत् दृष्ट्वा विधवाविवाहस्य समर्थनं करोति स्म । अस्य पत्न्याः मरणम् अपि अस्य मुम्बैप्रवासावरे एव अभवत् । अतः क्रि.श. १८९३तमे वर्षे मार्चमासस्य एकादशे दिने गोडबायी इति विधवां परिणीतवान् । विधवाविहास्य विरोधकाले तस्मिन् तेन अतीवकष्टम् अनुभूतम् । मरुडग्रामे एतं समाजबहिष्कृतम् अघोषयन् । अस्य कुटुम्बस्य अपि प्रतिबन्धकम् अकुर्वन् । तश्चात् कर्वेवर्यः विधवाविवाहसङ्घं स्थापितवान् । किन्तु शीघ्रमेव ज्ञातवान् यत् द्वित्राः विधवाः पुनर्विवाहिताः भवन्ति चेत् अथवा विधवाविवाहस्य प्रचारः क्रियते चेत् समस्यायाः परिहारः न भवति इति । अधिकाधिकाः विधवाः सुशिक्षिताः भूत्वा स्वपादभ्यां स्थिताः भवेयुः । येन ताः गौरवपूर्णजीवनं यापयितुं शक्नुवन्ति । अनेन समस्या परिहृता भविष्यति इति चिन्तितवान् । अतः क्रि.श. १८९६तमे वषे एषः अनाथभलिकाश्रमप्रतिष्ठानम् इति सङ्घटनं रूपितवान् । क्रि.श. १९००तमे वर्षे पुणेनगरे हिङ्गणे इति नामके स्थाने किञ्चित् लघुगृहं निर्मीय अनाथबालिकाश्रमं स्थापितवान् । क्रि.श. १९०७तमवर्षे मार्चमासस्य चतुर्थे दिने महिलाविद्यालयम् आरब्धवान् । अस्य स्वीयं भवनं क्रि.श. १९११तमे वर्षे निर्मितम् ।

सामाजिकपरिवर्तनस्य नेता

[सम्पादयतु]

काशीनगरस्य बाबू शिवप्रसादगुप्तः जपान्देशं गतः तत्र विद्यमानेन महिलाविश्वविद्यालयेन बहुधा प्रभावितः अभवत् । जपान्देशस्य प्रत्यागमानस्य पश्चात् क्रि.श.१९१५तमे वर्षे गुप्तवर्यः महिलाविश्वविद्यलयेन सम्बद्धं कञ्चनग्रन्थं कर्वेवर्याय अयच्छत् । अस्मिन् एव वर्षे डिसेम्बर् मासे भारतीयराष्ट्रियकाङ्ग्रेस् इत्यस्य राजनीतिसङ्घटानस्य अधिवेशनं मुम्बैनगरे संवृत्तम् । अनेन सह राष्ट्रियसामाजिकसमावेशः (न्याशनल् सोशियल् कन्फरेन्स्) अपि सम्पन्नः यस्य अध्यक्षः महर्षिः कर्वेवर्यः चितः । गुप्तवर्येण दत्तपुस्तकस्य प्रेरणया स्वाध्यक्षीयभाषणस्य मुख्यविषयं महाराष्ट्रस्य महिलाविश्वविद्यालयस्य अकरोत् । महात्मा गान्धिः अपि महिलाशिक्षणस्य मातृभाषामाध्यमेन बोधनस्य च विषये सहमतं दर्शितवान् । अस्य फलरूपेण क्रि.श. १९१६तमे वर्षे कर्वेवर्यस्य निरन्तरप्रयासेन च पुणेनगरे महिलाविश्वविद्यालयस्य आधारशिला स्थापिता यस्य अग्रे महिलापाठशाला इति नाम्ना क्रि.श. १९१६तमवर्षस्य जुलै१६तमे दिने उद्घाटितम् । कर्वेवर्यः अस्य महाविद्यालयस्य प्रथमः प्रांशुपालः अभवत् । धनस्य आवश्यकतां मनसि निधाय तत्पदं त्यक्त्वा धनसङ्ग्रहार्थं प्रस्थितवान् । चतर्षुवर्षेषु एव सर्वव्ययं पूरयित्वा द्विलक्षषोडषसस्ररूप्यकाणि विश्वविद्यालयस्य कोशे पूरितवान् । तन्मध्ये मुम्बैनगर्याः ख्यतः उद्योगपतिः विठ्ठलदास दामोदर ठाकससी विश्वविद्यालयाय १५लक्षरूप्यकाणि दत्तवान् । अतः तस्य मातुः नाम्नि श्रीमती नत्थीबायी दामोदर ठाकससी (एस्.एन्.डी.टी.) महिलामहाविद्यालयः इत्येव प्रथितः । कतिपयवर्षाणां पश्चात् पुणेतः मुम्बैनगरं स्थानान्तरितः अयं विश्वविद्यालयः । स्वस्य ७०तमे वयसि विश्वविद्यालयार्थं धनसङ्ग्रहं कर्तुं यूरोप् अमेरिका आफ्रिका देशान् गतवान् ।

विद्याप्रसारविस्तारः

[सम्पादयतु]

क्रि.श. १९३६तमे वर्षे गोवाराज्ये शिक्षणस्य प्रचारार्थं महाराष्ट्रग्रामप्राथमिकशिक्षासमितिः इति सङ्घटनं कृतवान् । अनेन सङ्घटनेन कालक्रमेण विविधेषु ग्रामेषु ४०प्राथमिकविद्यायाः समारब्धाः । भारतदेशसस्य स्वातन्त्र्योत्तरम् एताः शालाः राज्यसर्वकारस्य हस्तगताः अभवन् । क्रि.श. १९१५तमे वर्षे कर्वेवर्यः मराठीभाषया आत्मचरितं लिखितवान् । क्रि.. १९४२तमे वर्षे काशीहिन्दुविश्वविदियालयः अस्मै गौरवपूर्वकं डाक्टरेट् उपादिम् अयच्छात् । क्रि.श. १९५४तमे वर्षे तस्य महिलाविद्यालयेन तमै एल्.एल्.डि.उपाधिः प्रदत्ता । क्रि.श. १९५५तमे वर्षे भारतसर्वकारः एतं पद्मविभूषणप्रशस्त्या सममानयत् । अस्य वयः १००वर्षेषु जातेषु क्रि.श. १९५७तमे वर्षे मुम्बैविश्वविद्यालयः अस्मै एल्.एल्.डि.इति उपाधिना सममानयत् । क्रि.श. १९५८तमे वर्षे भारतस्य उपराष्ट्रपतिः देशस्य सरोच्चेन पुरस्कारेण भारतरत्नप्रशस्त्या समलङ्कृतवान् । भारतस्य पत्रालयतन्त्रीसन्देशविभागेन् अस्य गौरवरूपेण अस्यमूल्याङ्कः प्रकाशितः । देशवासिनः अस्य १०४तमे वर्षवयसि महर्षिः इति उपधिम् अयच्छान् ।

टिप्पणी:

[सम्पादयतु]
  1. ""Fergusson College Department of Mathematics web page"". Archived from the original on 2006-06-19. आह्रियत 18 सितम्बर 2014.
"https://sa.wikipedia.org/w/index.php?title=धोण्डो_केशव_कर्वे&oldid=480485" इत्यस्माद् प्रतिप्राप्तम्