जयप्रकाश नारायण

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
जयप्रकाश नारायण
जयप्रकाश नारायण
जन्मतिथिः ११/८/१९०२
जन्मस्थानम् बलियामण्डलं, बिहारराज्यं, भारतम्
मृत्युतिथिः ०८/१०/१९७९
मृत्युस्थानम् पटना-महानगरं, बिहारराज्यं, भारतम्
तत्त्वचिन्तनम् समाजवादः
भारतस्य महान् लोकनायकः जयप्रकाशः

जयप्रकाश नारायण ( /ˈəjəprəkɑːʃə nɑːrɑːjənə/) (हिन्दी: जयप्रकाश नारायण, आङ्ग्ल: Jayaprakash Narayana) भारतस्य लोकनायकः । अस्य विषये बहूनां जनानां भ्रमः अस्ति यत्, "एषः कश्चन स्वतन्त्रसेनानी एव आसीत्, यः स्वातन्त्र्यप्राप्त्यनन्तरं स्वग्रामं गतः । ततः १९७४ तमे वर्षे देशस्य विकटपरिस्थितिं दृष्ट्वा सर्वकारस्य विरोधम् अकरोत्" इति । परन्तु भारतस्य स्वतन्त्रतायां 'गान्धी'-वत् जयप्रकाशस्य योगदानम् आसीत् । तस्य गहनचिन्तनस्य, कर्मठतायाः च परिणामः आसीत् यत्, महात्मा स्वतन्त्रभारतस्य एकाकी योद्धा (फक्कड योद्धा) इति तं सम्बोधयति स्म । महात्मा स्वकीयेषु बहुषु निर्णयेषु जयप्रकाशस्य परामर्शं, विमर्शं च स्वीचक्रुः इति तु प्रायः सर्वे जानन्ति एव ।

जन्म[सम्पादयतु]

बिहारराज्यस्य छपरामण्डलस्थे गङ्गा-सरयूनद्योः सङ्गमस्थले 'सिताब दियार'-नामकः कश्चन ग्रामः । सः ग्रामः सप्तविंशतिः (२७) द्वीपानां समूहः । तेषु सप्तविंशतिद्वीपेषु 'लाला का टोला' इति स्थानम् अन्तर्भवति । तस्मिन् स्थाने लाला हरसू दयाल इत्यस्य कस्यचित् मण्डलाधिकारिणः निवासः । तस्य पत्न्याः नाम फूल रानी इति । तस्य एकः पुत्रः, द्वे पुत्र्यौ च । तस्य पत्नी तृतीयवारं गर्भं धरते । परन्तु तस्मिन् वर्षे अर्थात् १९०२ तमे वर्षे ग्रामे 'प्लेग्' इत्यस्य रोगस्य प्रकोपः उद्भूतः । अतः लाला हरसू दयाल सपरिवारं बिहारराज्यस्य बलियामण्डलस्य बाबू खानी इतीदं स्थलम् अगच्छत् [१] । १९०२ तमस्य वर्षस्य 'अगस्त'-मासस्य एकादशे (११) दिनाङ्के तस्य पत्नी एकं बालकम् अजनयत् [२] । सः बालकः एव अस्माकं लोकनायकः जयप्रकाश नारायण ।

परिवारः[सम्पादयतु]

जयप्रकाशस्य द्वौ भ्रातरौ, द्वे भगिन्यौ च आसन् । तेषां नामानि क्रमेण हरिप्रकाशः, चन्द्रभानुः, चन्द्रकला, राजेश्वरः । त्रयोदशे वयसि हरिप्रकाशस्य 'हैजा'-रोगेण मृत्युः अभवत् । 'प्लेग्'-रोगग्रस्ता चन्द्रभानुः अपि दिवङ्गता । हरिप्रकाशचन्द्रभानू मृते सति जयप्रकाशः, चन्द्राकला च यदा बालौ आस्ताम्, तदा राजेश्वरस्य जन्म अभवत् [३][४]

बाल्यं शिक्षणञ्च[सम्पादयतु]

जयप्रकाशः यद्यपि चतुर्वर्षीयः अभवत्, तथापि तस्य दन्ताः न स्फुटिताः । अतः तस्य नाम 'बउल' इति प्रसिद्धमभवत् । 'बउल' इत्यस्य शब्दस्य अर्थः भवति अदन्ती (a person who doesn't have teeth) । ग्रामे 'बउलजी', 'बउल भैया' इति प्रसिद्धः आसीत् सः । तस्य विद्यारम्भसंस्कारः षड्वर्षे वयसि अभवत् । तस्य पितरौ तं ग्रामस्य प्राथमिकशालायां पठितुम् प्रैषयेताम् । प्राथमिकशिक्षानन्तरं माध्यमिकशिक्षां प्राप्तुम् सः पटना-महानगरम् अगच्छत् । पटना-महानगरस्य 'कोलेजीएट्'-विद्यालये सः प्रवेशं प्रापत् । जयप्रकाशस्य विद्यालयप्रवेशस्य षण्मासानन्तरं तस्य शिक्षकस्य स्थानान्तरणम् अभूत् । नवीनशिक्षकः ब्रिटिश-जनः आसीत् । सः ज्ञात्वैव "रक्षाबन्धनस्य पर्वदिने परीक्षा भविष्यति" इति अघोषयत् । भयभीताः विद्यार्थिनः तस्य विरोधं न अकुर्वन् । परन्तु जयप्रकाशः, तस्य पञ्चमित्राणि च रक्षाबन्धनपर्वदिने परीक्षायाम् अनुपस्थिताः आसन् । अतः द्वितीये दिने शिक्षकः अपृच्छत्, “ह्यः यूयं किमर्थं नागताः ?" इति । जयप्रकाशः उदतरत् (answered), “रक्षाबन्धनत्वात् वयं न आगताः” इति । आरम्भे तु शिक्षकः अक्रुध्यत् । परन्तु जयप्रकाशस्य स्पष्टोत्तरैः, बहुतर्कवितर्कानन्तरं च शिक्षकः अवदत्, “युष्माकं परीक्षा पश्चात् नेष्यामि, तत्र न कापि बाधा” इति । तस्मिन् विद्यालये जयप्रकाशस्य चरित्रविकासः अभूत् । तस्य विद्यालयस्य आचार्यः अमजद अली खान आसीत् । सः बालानां ज्ञानेन सह तेषां मानसिक-शारीरिकविकासविषये अपि चिन्तनं करोति स्म । तत एव जयप्रकाशस्य मनसि देशभक्त्याः, राष्ट्रवादिविचाराणां च चिन्तनं प्रारब्धम् । यदा जयप्रकाशः पटना-महानगरस्य विद्यालये पठन् आसीत्, तदा तस्य भगिन्याः चन्द्रकलायाः विवाहः ब्रज बिहारी सहाय-नामकेन युवकेन सह अभूत् । अतः जयप्रकाशः भगिन्या सह तस्याः गृहे न्यवसत् । जयप्रकाशस्य आवुत्तः (sister’s husband) पटना-महानगरस्य उच्चन्यायालये वाक्कीलः आसीत् । 'कोलेजीएट्'-विद्यालये जयप्रकाशस्य माध्यमिकशिक्षणं पूर्णमभवत् । अतः सः पटना-महानगरस्थे महाविद्यालये पौढाध्ययनं प्रारभत ।

१९१७ तमे वर्षे बकरी ईद् इत्यस्य अवसरे शाहाबाद-स्थलस्य ग्रामेषु हिन्दु-यवनयोः साम्प्रदायिकहिंसा अभूत् । बहवः हिन्दवः यवनाः च मृताः । अतः सर्वत्र तस्य कलहस्यैव चर्चा चलन्ती आसीत् । जयप्रकाशः स्वमित्रैः सह चर्चां कुर्वन् आसीत् । तत्र हिन्दु-यवनयोः साम्प्रदायिकहिंसायाः चर्चा आरब्धा एकेन । कश्चित् मित्रं स्वविचारान् प्राकटयत्, “अस्माकं देशस्य यवनाः स्वराजप्राप्तेः मार्गे अवरोधकाः एव सन्ति” इति । तस्य समर्थनं बहवः विद्यार्थिनः अकुर्वन् । उग्रस्वरेण जयप्रकाशः तस्य विरोधमकरोत् । सः अवदत्, “एतादृशं चिन्तनम् उचितं नास्ति” इति । स्वस्य जीवने प्रथमवारं जयप्रकाशः एतदृश्यां चर्चायां भागम् अवहत् । ततः सः स्वविचारान् पौनःपुन्येन सर्वेषां समक्षम् उपस्थापयति स्म । १९१९ तमे वर्षे 'मैट्रिक'-परीक्षायां जयप्रकाशः प्रथमश्रेण्या उत्तीर्णः । ततः सः पटना-महाविद्यालये 'इण्टर्' इत्यस्य अध्ययनं प्रारभत । यदा सः 'इण्टर्' पठन् आसीत्, तदा तेन तोता राम सनाढ्य इत्यनेन लिखितं महात्मनः जीवनसम्बद्धम् किञ्चित् पुस्तकं पठितम् । तस्मात् पुस्तकात् सः बहुज्ञानम् अर्जयत् । महात्मनः सत्याग्रहः, अहिंसा, राष्ट्रभावना इत्यादीनां विचाराणां आचरणं सः स्वजीवने प्रारभत । ततः १९२२ तमे वर्षे जयप्रकाशः अमेरिका-देशम् उच्चशिक्षां प्राप्तुम् अगच्छत्ल [५] । सः सप्तवर्षं यावत् तत्र अपठत् । १९२९ तमस्य वर्षस्य 'अगस्त'-मासस्य त्रयोदेशे (१३) दिनाङ्के सः 'एम्.ए' इति पदवीं प्रापत्, डॉक्टरेट् (Ph.D) पठितुम् ऐच्छत् च । परन्तु तस्य माता अस्वस्था आसीत् । अतः सः भारतं प्रत्यागच्छ्त् [६]

विवाहः[सम्पादयतु]

भारतीयक्रान्तिकाले बहवः क्रान्तिकारिणः तनु-मनो-धनैः राष्ट्रस्वतन्त्रतायै योगदानम् अयच्छन् । तेषु बहूनां धारणा आसीत् यत्, “विवाहः तु बन्धनमेव । तेन स्वातन्त्र्यसङ्ग्रामः शिथिलः भविष्यति” इति । परन्तु जयप्रकाशस्य विचाराः तु सकारात्मकाः आसन् । तस्य दृष्टौ स्त्रीः जीवनस्य पथि साधिका एव भवति न तु बाधिका । अतः सः बिहारराज्यस्य श्रीनगर-ग्रामस्य प्रतिष्ठितवाक्कीलस्य व्रज किशोर इत्यस्य पुत्र्या सह विवाहम् अकरोत् । जयप्रकाशस्य पत्न्याः नाम आसीत् प्रभावती । १९२० तमे वर्षे विवाहस्य पवित्रबन्धने यदा तौ बद्धौ, तदा जयप्रकाशः अष्टादशवर्षीयः, प्रभावती चतुर्दशवर्षीया च आसीत् । तदा विवाहे वरदक्षिणायाः (दहेज/dowry) प्रथा प्रचलिता आसीत् । परन्तु महात्मनः विचाराणाम् अनुगामी जयप्रकाशः वरदक्षिणां न स्व्यकरोत् । विवाहानन्तरं जयप्रकाशः यदा उच्चशिक्षां प्राप्तुम् अमरिका-देशम् अगच्छत्, तदा प्रभावती देशसेवायै गुजरातराज्यस्य साबरमती-आश्रमम् अगच्छत् [७]महात्मनः सान्निध्यं सम्प्राप्य सा तत्र महात्मनः पुत्रीत्वेन पत्युः विरहवर्षाणि अयापयत् ।

महात्मा १९०६ तमे वर्षे ब्रह्मचर्यस्य प्रतिज्ञाम् अकरोत् । ततः तेन प्रभाविताः बहवः जनाः तस्य अनुगमनम् अकुर्वन् । तेषु अनुगामिषु प्रभावती अन्यतमा । साऽपि ब्रह्मचर्यपालनस्य निश्चयम् अकरोत् । सा स्वनिश्चयस्य विषये महात्मानम् अवदत् । परन्तु महात्मा तस्यै परामर्शम् अयच्छत्, “तव पतिः तु अमेरिका-देशे अस्ति । तेन सह चिन्तयित्वा ब्रह्मचर्यस्य सङ्कल्पः क्रियते चेदेव उचितम्” इति । ततः प्रभावती जयप्रकाशं पत्रं लिखित्वा स्वसङ्कल्पविषये असूचयत् । जयप्रकाशः उदतरत्, “एतादृशं विषयं पत्राचारेण चर्चयेव इति योग्यं नानुभवाम्यहम् । अतः स्वदेशं यदा प्राप्स्यामि, तदैव चर्चयिष्यावः” इति । ततः अमेरिका-देशात् पुनरागत्य जयप्रकाशः तया सह ब्रह्मचर्यसम्बद्धां चर्चाम् अकरोत् । जयप्रकाशः प्रभावत्याः ब्रह्मचर्यस्य निर्णयेन दुःखितः आसीत् । तयोः परस्परं बहुवारं चर्चाः अभूवन् । परन्तु ताः चर्चाः निष्फलाः एव आसन् । अतः जयप्रकाशः प्रभावतीं नीत्वा साबरमती-आश्रमम् अगच्छत् । महात्मना सह जयप्रकाशस्य प्रथममेलनम् आसीत् तत् । अतः तस्य हृदि हर्षः, क्रोधः च इत्यनयोः मिश्रभावः आसीत् । दीर्घकालं यावत् तेषां त्रयाणां ब्रह्मचर्यसम्बद्धा चर्चा अभवत् । परन्तु जयप्रकाशस्य मनोद्वेगः शान्तः नाभूत् । अतः गृहं प्रत्यागत्य जयप्रकाशः महात्मना सह पत्राचारं प्रारभत । सः वारंवारं महात्मानं न्यवेदयत् यत्, "प्रभावतीं बोधयतु, सा ब्रह्मचर्यस्य सङ्क्लपं त्यजेत्" इति । एकस्मिन् पत्रे महात्मा जयप्रकाशम् अबोधयत् यत्, "त्वं द्वितीयविवाहं कुरु । कारणं तव पत्नी ब्रह्मचर्यस्य सङ्कल्पं त्यक्तुं नेच्छति" इति । तत् पत्रं जयप्रकाशस्य हृदयं द्रव्यकरोत् (पिघला दिया) । सः अन्वभवत् यत्, “मम पत्नी ब्रह्मचर्यव्रतं पालयितुम् एतावती उत्सुका अस्ति चेत्, मया तस्याः निर्णयस्य सम्माननं कर्तव्यमेव” इति । ततः सोऽपि ब्रह्मचर्यस्य पालनं प्रारभत ।

स्वातन्त्र्यसङ्ग्रामाय योगदानम्[सम्पादयतु]

१९३० तमे वर्षे नेहरू इत्यस्यानुरोधेन जयप्रकाशः इलाहाबाद-महानगरम् अगच्छत् । इलाहाबाद-महानगरे सः स्वराजभवन-नामके गृहे न्यवसत् [८] । तत् भवनं नेहरू इत्यस्य आनन्दभवनस्य समीपे आसीत् । अतः नेहरू-जयप्रकाशयोः सम्बन्धः घनिष्टः अभूत् । तदानीन्तन आङ्ग्लसर्वकारस्य 'वायसरॉय्' कोङ्ग्रेस-पक्षं सर्वकारविरोधी पक्षत्वेन अघोषयत् । अनया घोषणया भारते स्वतन्त्रतान्दोलनस्य वेगः अवर्धत । न केवलं जयप्रकाशः एव, अपि तु तस्य पत्नी प्रभावती अपि स्वातन्त्र्यान्दोलनाय स्वयोगदानम् अयच्छत् । इलाहाबाद-कोङ्ग्रेस-महिलाविभागस्य नेतृत्वं कमला नेहरू, प्रभावती च कुर्न्वन्त्यौ आस्ताम् । एकस्मिन् आङ्ग्लविरोधिसम्मेलने ते निगृहीते अभवताम् । प्रभावत्याः वर्षद्वयस्य कारावासः जातः । प्रभावती यदा कारागारे बन्दिनी आसीत्, तदा इङ्ग्लैण्ड-देशात् भारतस्य वास्तविकस्थितिं द्रष्टुं शिष्टमण्डलम् आगतमासीत् । जयप्रकाशः भारतस्य विविधक्षेत्राणां वास्तविकस्थितिं तस्य मण्डलस्य समक्षम् उपस्थापयत् । तेन आङ्ग्लसर्वकारस्य मानहानिः अभूत् । अतः कृद्धाः आङ्ग्लाधिकारिणः येन केनापि प्रकारेण कोलकाता-महानगरे जयप्रकाशं कारागारं प्रेषितवन्तः । कोलकाता-उच्चन्यायालयस्य न्यायाधीशः तं कोलकाता-महानगरस्य कारागारात् नासिक-नगरस्य कारागारं प्रैषयत् । १९३३ तमे वर्षे जयप्रकाशः कारागारात् मुक्तः अभूत् । १९३४ तमे वर्षे बिहारराज्ये विनाशकारी भूकम्पः जातः । अतः जयप्रकाशः सर्वं कार्यं त्यक्त्वा भूकम्पग्रस्तानां सेवाकार्ये संलग्नः अभूत् ।

१९३९ तमे वर्षे द्वितीयविश्वयुद्धस्य आरम्भः अभूत् । अतः स्वतन्त्रतासम्बद्धां चर्चां कर्तुं पटना-महानगरे 'कोङ्ग्रेस सोशलिस्ट् पार्टि' इत्यस्य सभा आरब्धा । तस्यां सभायां जयप्रकाशः मुख्यवक्ता आसीत् । सः अवदत्, “एतत् युद्धं साम्राज्यवादि अस्ति । अतः अस्माभिः तस्य विरोधः कर्तव्य एव । किञ्चत् कालानन्तरं सभाकरणाय, सम्मेलनकरणाय प्रतिबन्धस्य आदेशाः भविष्यन्ति । अतः अस्माभिः सद्यः एव देशस्वतन्त्रतायै निर्णयः कर्तव्यः । युद्धवातावरणे यदि एतादृशाः आदेशाः भवन्ति, तर्हि अस्माभिः तस्य पालनं न कर्तव्यम् । वीथीषु, गृहस्य अलिन्देषु (on terrace) स्थित्वा वयं स्वतन्त्रतायै सभाः करिष्यामः” इति ।

भारते आपतितायाः युद्धसमस्यायाः देशस्य समक्षं त्रयः विकल्पाः आसन् । युद्धे भारतदेशः ब्रिटन्-देशस्य साहाय्यं कुर्यात् इति प्रथमः विकल्पः महात्मना उपस्थापितः । युद्धस्य विरोधं कृत्वा यथा आङ्ग्लाः देशत्यागं कुर्युः, तथा चिन्तनीयम् इति द्वितीयः विकल्पः जयप्रकाशेन उपस्थापितः । ब्रिटन्-सर्वकारः भारतसम्बद्धायाः युद्धनीतेः घोषणां कुर्यात् इति तृतीयविकल्पस्तु कोङ्ग्रेस-पक्षस्य गान्धी-जयप्रकाशयोः विकल्पयोः सम्मिश्रणमासीत् । तदा या स्थितिः आसीत्, तस्याः वर्णनं जयप्रकाशः अकरोत् । सः अलिखत्, “एतस्मिन् काले देशे विचित्रवातावरणस्य दर्शनं कुर्वन्नस्मि अहम् । राजनीतिः दूषिता भवन्ती अस्ति । कुत्रचित् वादविवादाः, कुत्रचित् परस्परम् अभियोगाश्च भवन्तः सन्ति । कश्चित् जनः अन्यस्य जनस्य विरोधं कुर्वन् अस्ति इति अहं पश्यन् अस्मि । कोङ्ग्रेस-पक्षस्य स्थापनायाः चतुःपञ्चाशत् (५४) वर्षाणि अभवन् । एतेषु वर्षेषु महता परिश्रमेण सङ्घटितस्य पक्षस्य विभाजनं मा भूयात् इति मे इच्छा । सद्यः देशाय महात्मनः आवश्यकता अधिका अस्ति । परन्तु महात्मा 'वायसरॉय्' इत्यस्य कथने विश्वसिति । अतः महात्मना 'वायसरॉय्'-सदृशेभ्यः आङ्ग्लाधिकारिभ्यः सावधानेन भाव्यम् । यदि महात्मा 'चेम्बर् लेन्'-प्रस्तावम् अङ्गीकरोति, तर्हि भारतीयानां स्वतन्त्रतान्दोलनं, प्रजातान्त्रिकशान्तिः, न्यायप्रणालीत्यादयः नश्यन्ति । एतस्मिन् युद्धे ब्रिटिश्-जनानां कशेरु(spine)भङ्गः भविष्यति । अतः अस्माभिः तेषां सहायकरणे, 'चेम्बर् लेन्'-प्रस्तावस्य अङ्गीकारे च कोऽपि लाभः नास्ति” इति ।

जयप्रकाशस्य एतादृशात् विद्रोहिभाषणात् आङ्ग्लसर्वकारः क्रुद्धः सन् तं पुनः कारागारं प्रैषयत् । १९४० तमस्य वर्षस्य 'मार्च'-मासस्य षोडशे (१६) दिनाङ्के ‘हरिजन’-मासिके महात्मा जयप्रकाशस्य कारावासविषये स्वप्रतिक्रियाम् अलिखत्, “जयप्रकाशं कारागारे प्रेषयित्वा सर्वकारेण स्वस्मै महती विपदा जनिता अस्ति । जयप्रकाशः कोऽपि लघुकार्यकर्ता नास्ति । सः तु समाजवादस्य प्रवक्ता अस्ति । तस्य जीवने विश्रामाय समयः अपि नास्ति । सः एकाकी योद्धा (फक्कड़ लड़वैया) अस्ति । तस्य कारावासेन सर्वकारस्यैव हानिः अस्ति” इति । महात्मनः कथनानन्तरं नेहरू अपि स्वभाषणे जयप्रकाशस्य कारावासस्य निन्दाम् अकरोत् । एवं सर्वे नेतारः, देशवासिनः च जयप्रकाशस्य कारावसस्य विरोधम् अकुर्वन् ।

न्यायालये अभियोगस्य काले जयप्रकाशः न्यायाधीशस्य समक्षम् अवदत्, “युद्धं सफलं कर्तुं यानि अस्त्राणि, शस्त्राणि, अन्यानि वस्तूनि च आवश्यकानि आसन्, तेषां सङ्ग्रहणे सर्वकारस्य यः प्रयासः आसीत्, तस्मिन् प्रयासे अहं विघ्नम् अजनयम् इति सर्वकारेण मयि आरोपणं कृतम् अस्ति । परन्तु सर्वकारेण मयि आरोपत्वेन यत् लाञ्छनं कृतमस्ति, तत् तु भारतमातरं प्रति मम कर्तव्यमासीत् । अतः तं कर्तव्यात्मकम् आरोपम् अहं सहर्षम् अङ्गीकरोमि । अस्य आरोपस्य यः कोऽपि दण्डः अस्ति, सः मया स्वीक्रियते" इति ।

अग्रे सः अवदत्, "भारतस्य स्वतन्त्रतायाः लक्ष्ये अवरोधम् उत्पादयितुं सर्वकारेण आङ्ग्लन्यायव्यवस्था रचिता अस्ति । अतः अस्मभ्यं (भारतीयेभ्यः) तस्याः न्यायव्यवस्थायाः विरोधः स्वाभाविकः अस्ति । मम देशः विश्वयुद्धे भागं न गृहिष्यति । यतो हि शोषण-आधिपत्य-अत्याचार-प्रभुत्वादि-स्वार्थपूर्णेभ्यः उद्देशेभ्यः जर्मनि-ब्रिटन्-देशौ युद्ध्यमानौ स्तः । भारते स्थिताः एकाकिनः आङ्ग्लाः तु यद्धे धूलिकामग्नाः भविष्यन्ति इति ते जानन्ति । अतः ते भारतीयजनानां साहाय्येन एतत् युद्धं कर्तुम् इच्छन्ति, येन ते चिरकालं यावत् भारतस्योपरि आधिपत्यं कर्तुं शक्नुयुः । कोऽपि भारतीयः स्वार्थपूर्णे, साम्राज्यवादसमर्थके एतस्मिन् युद्धे भागम् ओढुं न इच्छति । सः स्वस्य देशस्य सम्पदां देशस्वतन्त्रतायै व्ययं कर्तुम् इच्छति, न तु अन्येन सह युद्धं कृत्वा स्वस्य पराधीनतायाः लोहपाशं दृढं कर्तुम् । भारतीयजनानां युद्धस्य विरोधं दृष्ट्वा अपि तस्मिन् विरोधविषये आङ्ग्लैः न किमपि अवधानं कृतम् । भारतीयानाम् इच्छाविरुद्धं भारतस्य जन-धन-साधनानाम् उपयोगं ते कुर्वन्तः सन्ति । जर्मन्-जनाः यथा पोलेण्ड्-देशस्योपरि आक्रमणम् अकुर्वन्, तथैव भारतस्योपरि आङ्ग्लानाम् आक्रमणमेतत् । वयं भारतीयाः अस्याक्रमणस्य प्रतीकारं निश्चयेन करिष्यामः । अहम् एतावता यत् अवदं, देशजनानाम् उपरि तस्य कीदृशः प्रभावः भविष्यति इति तु अहं न जाने । परन्तु मम वचनेन युद्धस्य सञ्चालनकार्ये बाधा उद्भूता अस्ति इति श्रुत्वा अहं बहु आनन्दम् अनुभवामि । अतः न्यायाधीशः यां कामपि शिक्षां दद्यात् तस्यै अहं प्रस्तुतः” इति ।

तस्य वचनस्यानन्तरं न्यायधीशस्तु शून्यत्वमेव अनुभवन् आसीत् । किंवक्तव्यमूढं तम् उद्दिश्य जयप्रकाशः पुनः तीव्रवचनप्रहारं प्रारभत । सः जानाति स्म "मम एतत् कथनं देशजनाः ध्यानेन शृण्वन्तः सन्ति । कारागारे स्थित्वापि अहं देशजनेभ्यः सन्देशं दातुम् इच्छामि चेत्, एतत् उत्कृष्टं स्थलमस्ति" इति । अतः सः किञ्चित् विरम्य सारांशत्वेन कानिचन गूढानि वाक्यानि अवदत् । “भारतस्य रक्षाकार्ये अहं विघ्नम् उत्पादितवान् इति दोषारोपणं मयि सर्वकारेण कृतमस्ति, तस्य उपहासार्थम् अहं किं वदानि ? परन्तु आङ्ग्लाः स्मरेयुः यत्, बन्दी स्वस्य बन्धनकारणानां रक्षणाय बद्धः न भवति । परन्तु सः स्वस्य बन्धनकारणं नाशयितुं बद्धः भवत्येव इति तु निश्चितम् । साम्राज्यवादस्य, 'नाजी'-वादस्य (नाजी-वादः कश्चन राजनैतिकवादः । नाजी-वादस्य अर्थः यः बलवान् अस्ति, स एव राष्ट्रस्य, संसारस्य वा शासनं बलेन स्वहस्तगतं कुर्यात् इति । एषः वादः व्यक्तिस्वातन्त्र्यस्य, लोकतन्त्रस्य च विरोधी अस्ति । अडॉल्फ् हिट्लर् 'नाजी'-वादी इति इतिहासविदां मतम् अस्ति ।) च अहं विरोधी अस्मि । अहं तु केवलं मम देशस्य स्वतन्त्रताम् एव इच्छामि” इति ।

जयप्रकाशस्य एतत् ऐतिहासिकं भाषणं महात्मा स्वस्य ‘हरिजन बन्धु’-नामकस्य मासिकस्य प्रथमे पृष्ठे अलिखत् । लेखस्य शीर्षकम् आसीत् “धीरयोद्धुः भाषणं (बहादुर योद्धा का बयान)” इति । १९४० तमस्य वर्षस्य अन्ते भारतीयानाम् आग्रहेण जयप्रकाशः कारागारात् विमुक्तः । ततः जयप्रकाशः महात्मानं, सुभाष चन्द्र बोस इत्येनं च अमिलत् । मेलनानन्तरं जयप्रकाशः कांश्चन आङ्ग्लविरोधिनीं गुप्तसंस्थाम् अस्थापयत् । तस्याः संस्थायाः कार्यकर्तारः ग्रामं ग्रामम् अटन्तः आङ्ग्लविरोधिजनमताय कार्यं कुर्वन्तः आसन् । ततः 'करो या मरो'-आन्दोलने, 'भारत छोडो' आन्दोलने च सक्रियरूपेण जयप्रकाशः भागम् अवहत् [९]

भारतस्वतन्त्रतानन्तरं जयप्रकाशः[सम्पादयतु]

१९५७ तमे वर्षे जयप्रकाशः समाजवादिपक्षात् आत्मानं भिन्नमकरोत् । सः केवलं समाजवादविषये बालान् पाठयति स्म । ततः जयप्रकाशः समाजवादस्य विचारकत्वेन प्रसिद्धः अभवत् । तेन वैदेशिकाः अपि आकर्षिताः अभवन् । अतः ते जयप्रकाशं स्वदेशम् आह्वयन् । अनेकेषु देशेषु अटनं कृत्वा सरलः जयप्रकाशः समजवादस्य सङ्कल्पनाम् अबोधयत् । सः षण्मासं यावत् इङ्ग्लैण्ड्-फ्रान्स्-जर्मनि-स्विट्जर्लैण्ड्-पोलेण्ड्-जेकोस्लोवाकिया-इज्राइल्-मिस्र-लेबनान्-पाकिस्थानादीनां देशानां प्रवासमकरोत् ।

१९५९ तमे वर्षे जयप्रकाशः 'भारतीय राजव्यवस्था का पुनर्निमाण' इति निबन्धम् अलिखत् । तस्मिन् लेखे सः अलिखत्, “पक्षयोः मध्ये या राजनीतिः भवति, सा पक्षप्रधाना राजनीतिः मिथ्याभाषिणः नेतॄन् जनयति । पक्षप्रधानराजनीत्याः कुपुत्राः ते मिथ्याभाषिणः नेतारः कपटप्रेरितराजनीत्यै कार्यं कुर्वन्ति । पक्षप्रधानराजनीत्यां सर्वदा राष्ट्रभावनायाः अपेक्षया पक्षः एव प्रधानः भवति । अतः स्वस्य पक्षस्य हितं यत्र रक्षितं भवति, तत्र कलहस्थितिं निवारयन्ति ते । अन्यथा स्वपक्षस्य हितं रक्षितुं कलहस्थितिमपि जनयन्ति ते नेतारः । राज्यस्य, देशस्य वा सञ्चालने जनानां साक्षात् योगदानं न भवदस्ति । अतः लघवः पक्षाः जनानां प्रतिनिधित्वेन शासनं कृत्वा लोकतन्त्राधारितस्य शासनस्य आडम्बरं कुर्वन्ति । परन्तु तस्मिन् शासने नेतारः केवलं स्वस्य, स्वपक्षस्य च स्वार्थस्य सिद्धिं कुर्वन्ति । देशस्य हितं न चिन्तयन्ति” इति ।

तेन एतादृशानि अनेकानि भाषणानि कृतानि । ततः १९६१ तमे वर्षे चीनयुद्धकाले, १९६५ तमे वर्षे पाकिस्थानयुद्धकाले च जयप्रकाशः सुष्ठुरीत्या भारतीयसर्वकारस्य मार्गदर्शनमकरोत् ।

जयप्रकाशस्य निवृत्तिः[सम्पादयतु]

१९७१ तमस्य वर्षस्य 'नवम्बर'-मासस्य षोडशे (१६) दिनाङ्के जयप्रकाशस्य हृदयाघातः अभूत् । सः मासत्रयं रुग्णालये (hospital) यापयत् । ततः सः १९७२ तमस्य वर्षस्य 'फरवरी'-मासस्य अष्टाविंशति(२८)तमे दिनाङ्के रुग्णालयात् गृहम् प्राप्नोत् (reached) । तदनन्तरं तेन गृहे कानिचन दिनानि एव व्यतीनानि आसन् । एकस्मिन् दिने स्वस्य पत्न्याः स्वास्थ्यं सम्यग्नास्ति इति तेन सूचना प्राप्ता । वैद्यः तस्याः शल्यक्रियाम् (operation) अकरोत् । शल्यक्रियानन्तरं ज्ञानमभवत् यत्, प्रभावती तु कर्करोगेण (cancer) ग्रस्ता अस्ति । जयप्रकाशस्य भ्रातृपुत्रस्य नाम अनिलः आसीत् । सः प्रभावत्याः प्रियः आसीत् । अतः प्रभावती तस्य विवाहे तु भवेदेव इति गृहे सर्वेषाम् इच्छासीत् । अतः १९७३ तमस्य वर्षस्य 'अप्रैल'-मासस्य सप्तदशे (१७) दिनाङ्के अनिलस्य विवाहः निश्चितः कृतः । परन्तु प्रभावत्याः स्वास्थ्यम् अधिकं शिथिलम् अभवत् । अतः १९७३ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चदशे (१५) दिनाङ्के अनिलस्य विवाहः निश्चितः । परन्तु प्रभावती चतुर्दशस्य (१४) दिनाङ्कस्य रात्रौ एव दिवङ्गता । प्रभावत्याः इच्छायाः पूर्त्यै पञ्चदशे दिनाङ्के एव अनिलस्य विवाहः अभवत् ।

प्रभावत्याः मृत्योः अनन्तरं जयप्रकाशस्य जीवने निराशा उद्भूता । सः राजनीति-पाठन-भाषणादीनि सर्वाणि कार्याणि त्यक्त्वा स्वस्य गृहे एव निवसति स्म । मितभाषी सन् सः सात्विकजीवनं यापयन् आसीत् । परन्तु इतोऽपि भारतमातुः सेवा जयप्रकाशस्य भाग्ये आसीत् । आजीवनं सः आङ्ग्लानाम् अत्याचारेभ्यः देशस्य रक्षणम् अकरोदेव । ततः अपि अधिकं तस्य योगदानम् इदमस्ति यत्, अराजकतायाः कारणेन देशस्य स्थितिः यदा विस्फोटकी अभूत्, तदा जयप्रकाशः तस्याः स्थितेः विषये नावदिष्यत् चेत् देशस्य महती हानिः अभविष्यत् ।

२६/०६/१९७५ भारते आपत्कालः[सम्पादयतु]

सम्पूर्णक्रान्तियात्रायां जनसहयोगः

भारतीयराजनीतिक्षेत्रस्य कलङ्करूपः १९७५ तमस्य वर्षस्य आपत्कालः । जयप्रकाशस्य पक्षाधारितस्य राजनीतेः बहिष्कारस्य समर्थकी एषा घटना । १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्विंशतितमे (२४) दिनाङ्के फखरुद्दीन अली अहमद राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् । तस्य यदा राष्ट्रपतित्वेन दायित्वम् आसीत्, तदा प्रधानमन्त्री इन्दिरा गान्धी आसीत् । परन्तु तस्याः राजनैतिकस्थितिः समीचीना नासीत् । यतो हि पुत्रप्रेम्णा ग्रस्ता सा देशस्य हितं विस्मृतवती आसीत् । तस्याः पुत्रः सञ्जय गान्धी, तन्मित्राणि च सर्वकारत्वेन कार्यं कुर्वन्तः आसन् । तेषां निर्णयाः देशहिताय न अपि तु देशस्य अहिताय एव आसन् । भारतीयजनसङ्ख्यां नियन्त्रितुं ते 'नसबन्धी' इत्यस्य अभियानस्य घोषणाम् अकुर्वन् । तस्मिन् अभियाने सञ्जय गान्धी इत्यस्य कृपादृष्टिं प्राप्तुं केचन मुख्यमन्त्रिणः तु अष्टादशवर्षीयाणां यूनाम् आरभ्य षष्ठिवर्षीयाणां वृद्धानां 'नसबन्धी' अकारयन् । एतत् तु उदाहरणमासीत्, इतोऽपि असांविधानिक-अराजनैतिक-अमानवीयनिर्णयाः सर्वकारेण जनेषु आरोपिताः आसन् । उत्कोचं विना सर्वाकारिविभागेषु कार्यं न भवति स्म । नेतारः भ्रष्टाचारं कृत्वापि दण्डं न प्राप्नुवन्ति स्म । सर्वत्र अराजकतायाः वातावरणमासीत् [१०]

जयप्रकाशस्य पत्न्याः मृत्युः अभवत् । तेन सः निराशः गृहे स्थितः आसीत् । परन्तु बिहारराज्यस्य छात्राणां स्थितिः दयनीया आसीत् । १९७४ तमस्य वर्षस्य 'मार्च'-मासस्य अष्टादशे (१८) दिनाङ्के पटना-विश्वविद्यालयस्य छात्राः सर्वकारविरोधिप्रदर्शनम् अकुर्वन् । प्रदर्शनं कुर्वन्तः ते बिहारविधानसभायाः पुरः प्राप्ताः । तेषां विद्यार्थिनां दमनं कुर्वन्तः बिहारराज्यस्य आरक्षकाः छात्रेषु दण्डानां प्रहारम् अकुर्वन् । तेन तत् प्रदर्शनं हिंसकप्रदर्शने परिवर्तितम् । तस्यां हिंसायां दश विद्यार्थिनः मृताः । ततः छात्राः जयप्रकाशं मार्गदर्शनार्थम् अप्रार्थयन् । परन्तु जयप्रकाशस्य स्वास्थ्यं समीचीनं नासीत् । अतः सः मार्गदर्शनस्य प्रस्तावं निराकरोत् । स्वल्पेषु दिनेषु किङ्कर्तव्यमूढाः केचन छात्राः जयप्रकाशं पुनः मार्गदर्शनाय आह्वयन् ।

जयप्रकाशः छात्राणां कष्टं ज्ञात्वा तेषां मार्गदर्शनाय सिद्धः अभवत् । देशस्य समस्यायाः विषये सः भाषणम् अयच्छत् । सः अवदत्, “सर्वकारेण एतत् स्मरणीयं यत् तस्य निर्णयैः जनसामान्यानां दुःखं वर्धते । तेन दुःखेन सन्तप्ताः एव ते हिंसायाः विचारं कुर्वन्ति । अहं किमर्थम् एतेषां साहाय्यं करोमि इत्यस्य प्रश्नस्य एकमेव उत्तरमस्ति । भ्रष्टाचारं, कुशासनं च दृष्ट्वा अहं तूष्णीं स्थातुं न शक्नोमि । एषा स्थितिः भारते कुत्रचिदपि भवेत् । तस्याः स्थितेः कारणं तु सर्वकारः एवास्ति । देशस्य एतादृशीं स्थितिं दृष्टुम् अहं स्वतन्त्रतान्दोलनेषु भागं नावहम्” इति ।

१९७४ तमस्य वर्षस्य 'अप्रैल'-मासस्य एकोनविंशति(१९)तमे दिनाङ्के बिहारराज्यस्य पटना-महानगरस्थे 'गान्धी मैदान' इत्यस्मिन् स्थले जयप्रकाशः विशालसभायाः आयोजनम् अकरोत् । तस्यामेव सभायां जनाः लोकनायक इति नाम्ना तं सम्बोधयन् । ततः १९७४ तमस्य वर्षस्य 'जून'-मासस्य पञ्चमे (५) दिनाङ्के सप्त कि.मी. लम्बमानस्य प्रदर्शनस्य मार्गदर्शनं कुर्वन् जयप्रकाशः बिहारराजभवनं प्रति पदयात्रां प्रारभत । तां पदयात्रां ‘सम्पूर्णक्रान्तियात्रा’ इति जानीमः वयम् । १९७५ तमस्य वर्षस्य 'मार्च'-मासस्य षष्ठे (६) दिनाङ्के 'सिंहासन खाली करो कि जनता आती है' इति सूत्रं जयप्रकाशः छात्रेभ्यः अयच्छत् [११]

१९७५ तमस्य वर्षस्य 'जून'-मासस्य द्वादशे (१२) दिनाङ्के इलाहाबाद-उच्चन्यायालयेन इन्दिरा गान्धी इत्यस्याः विरुद्धम् अभियोगस्य निर्णयः कृतः । इन्दिरा गान्धी निर्वाचनसम्बद्धभ्रष्टाचारस्य दोषी इति इलाहाबाद-उच्चन्यायालयेन उद्घोषितम् । भारतीयसर्वोच्चन्यायालयाय याचिकां दातुं इन्दिरा गान्धी इत्यनयाः पार्श्वे विंशतिः दिनानां कालः आसीत् । परन्तु सर्वोच्चन्यायालयः अपि एतादृशं, इतोऽपि कठिनं वा न्यायं करिष्यति इति भयः तस्याः मनसि आसीत् । तस्याः राजनैतिकक्रूरतायाः परिणामः आसीत् यत्, १९७५ तमस्य वर्षस्य 'जून'-मासस्य षड्विंशति(२६)तमे दिनाङ्के एव भारते आन्तरिकापत्कालस्य घोषणा अभूत् ।

देशभक्तानां सर्वकारविरोधिप्रदर्शनेन भीतः सञ्जय गान्धी इत्यस्य षड्पञ्चाशदधिकत्रिशततमस्य (३५६) अनुच्छेदस्य दुरुपयोगं कृत्वा आपत्कालम् अघोषयत् । परन्तु प्रधानमन्त्री इन्दिरा गान्धी आसीत् । अतः तया आपत्कालः उद्घोषितः इति तस्याः कुख्यातिः अस्ति । १९७५ तमस्य वर्षस्य आपत्काले जयप्रकाशः, मोरारजी देसाई इत्यादीनाम् अनेकानां देशभक्तानां कारावासः अभूत् । लक्षाधिकाः जनाः मृताः । कोटिशः रूप्यकाणां नाशः अभवत् । वीथीषु, मार्गेषु सर्वकारविरोधिनां हत्याः अभवन् । सर्वकारस्य बलप्रयोगेनापि देशभक्तानां हृदि भयः नोत्पन्नः । सर्वे जयप्रकाशस्य विमुक्तिम् इच्छन्ति स्म । जनविरोधेन शीघ्रं हि सर्वेषां देशभक्तानां विमुक्तिः अभवत् । ततः जयप्रकाशेन देशस्य विविधपक्षैः सह चर्चा कृता, जनतापक्षस्य रचना च कृता । परन्तु जनतापक्षस्य अन्तःकलहेन दुःखितः जयप्रकाशः पुनः राजनीतिक्षेत्रात् निवृत्तिं स्व्यकरोत् ।

जयप्रकाशस्य मृत्युः[सम्पादयतु]

१९७९ तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तम(७)दिनाङ्कस्य प्रातः जयप्रकाशः श्वसने क्लेशम् आनुभवत् [१२] । अतः प्राणवायोः (oxygen) यन्त्रेण श्वसनं कर्तव्यमिति वैद्यः तम् असूचयत् । परन्तु अष्टमे दिनाङ्के प्रातः जयप्रकाशः देहत्यागम् अकरोत् । लोकनायकस्य जयप्रकाशस्य मृत्योः समाचारं श्रुत्वा आभारतं शोकमग्नम् अभवत् । प्रधानमन्त्री चौधरी चरण सिंह सप्तदिनात्मकस्य राष्ट्रियशोकस्य घोषणाम् अकरोत् ।

प्रशस्तयः[सम्पादयतु]

भाषणानि, न्यायालयकथनानि च[सम्पादयतु]

जीवनी[सम्पादयतु]

  • Why Socialism, 1936
  • War Circulars, 1–4 CSP, Lucknow
  • Inside Lahore Fort, Sahityalaya Patna 1947
  • Nation Building in India – JP Narayan
  • Three Basic Problems of India. From Socialism to Sarvodaya, Sarva Seva Sangh Prakashan, Varansi 1957
  • A Plea for Reconstruction of Indian Polity, Sarva Seva Sangh Prakashan, Varansi 1959
  • Swaraj for the People, Sarva Seva Sangh Prakashan, Varansi 1961
  • Sarvodaya Answer to Chinese Aggression, Sarvodaya Prachuralaya Tanjore 1963
  • Face to Face, Navchetna Prakashan, Varansi 1970
  • Prison Diary, Samajwadi Yuvjan Sabha Calcutta 1976 and Popular Prakashan, Bombay 1977.

सम्पादनकार्यम्:

  • Towards Struggle, edited by Yusuf Meherally, Padma Publications, Bombay 1946,47
  • Socialism,Sarvodaya and Democracy, edited by Bimal Prasad, Asia Publishing House Bombay 1964
  • Communitarian Society and Panchayti Raj, edited by Brahmanand Navchetna Prakashan Varansi 1970
  • Nation-Building in India, edited by Brahmanand Navchetna Prakashan Varansi 1974
  • Towards Revolution, edited by Bhargava and Phadnis, Arnold-Heinemann New Delhi 1975
  • J.P’s Jail Life (A Collection of Personal Letters) translated by G S Bhargava, Arnold-Heinemann New Delhi 1977
  • Towards Total Revolution, edited by Brahmanand Popular Prakashan Bombay 1978
  • J P:Profile of a non-conformist, Interviews by Bhola Chatterji, Minerva Associates, Calcutta, 1979
  • To All Fighters of Freedom II, A Revolutionary’s Quest-selected writings of Jayprakash Narayan, edited by Bimal Prasad Oxford University Press New Delhi 1980
  • Concept of Total Revolution: An Introductory Essay(JP and social change) by Bimal Prasad

सम्बद्धाः लेखाः[सम्पादयतु]

आपत्कालः

इन्दिरा गान्धी

महात्मा गान्धी

बाह्यानुबन्धाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. "JP's village gets power 65 yrs after Independence", Zeenews, 22 April 2012. 
  2. Ratan, Das (2007). Jayaprakash Narayan: His Life and Mission. Sarup & Sons. p. 7. ISBN 81-7625-734-6. http://books.google.com.hk/books?id=rdekxv8HsvMC&lpg=PA7&ots=2UKWih8hiT&dq=JayaPrakash%20Narayan%20children&pg=PA7#v=onepage&q=JayaPrakash%20Narayan%20children&f=false. Retrieved 30 July 2013. 
  3. Das, Sandip (2005). Jayaprakash Narayan: A Centenary Volume. Mittal Publications. p. 109. ISBN 978-81-8324-001-7. http://books.google.co.in/books?id=U9U0LiT3dtMC&pg=PA239. Retrieved 13 March 2013. 
  4. ४.० ४.१ Vaidya, Prem. "Jayaprakash Narayan – Keeper of India's Conscience". LiberalsIndia.com. Retrieved 16 August 2012. 
  5. Das, Sandip (2005). Jayaprakash Narayan: A Centenary Volume. Mittal Publications. p. 239. ISBN 978-81-8324-001-7. http://books.google.co.in/books?id=U9U0LiT3dtMC&pg=PA239. Retrieved 25 April 2012. 
  6. Das, Sandip (2005). Jayaprakash Narayan: A Centenary Volume. Mittal Publications. p. 230. ISBN 978-81-8324-001-7. http://books.google.co.in/books?id=U9U0LiT3dtMC&pg=PA239. Retrieved 25 April 2012. 
  7. Ratan, Das (2007). Jayaprakash Narayan: His Life and Mission. Sarup & Sons. p. 7. ISBN 81-7625-734-6. http://books.google.com.hk/books?id=rdekxv8HsvMC&lpg=PA7&ots=2UKWih8hiT&dq=JayaPrakash%20Narayan%20children&pg=PA18#v=onepage&q&f=false. Retrieved 30 July 2013. 
  8. Ralhan, O.P. (2002). Encyclopaedia of Political Parties. Anmol Publications Pvt. Ltd.. pp. 17998 (at pages 73–74). ISBN 978-81-7488-865-5. 
  9. Srivastava, N.M.P. (1988). Struggle for Freedom: Some Great Indian Revolutionaries. K.P.Jayaswal Research Institute, Government of Bihar, Patna. 
  10. Harish Khare. "Obligations of a lameduck", The Hindu, 16 May 2001. Retrieved on 2 January 2009. 
  11. McRobie, George. "Surur Hoda: Trade unionist who spread the message of Mahatma Gandhi", 30 June 2003. Retrieved on 6 January 2012. 
  12. Datta-Ray, Sunanda K. "Inconvenient Prophet". India Today. Archived from the original on 31 January 2009. Retrieved 6 January 2012. 
  13. Correspondent, NDTV. "List of all Bharat Ratna award winners", 24 January 2011. Retrieved on 29 November 2012. 
  14. Uncensored 'Loknayak' to be screened soon
  15. Loknayak
  16. “I am fully indebted to theatre”


"https://sa.wikipedia.org/w/index.php?title=जयप्रकाश_नारायण&oldid=377379" इत्यस्माद् पुनः प्राप्तिः