फखरुद्दीन अली अहमद

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
फखरुद्दीन अली अहमद
भारतस्य पञ्चमः राष्ट्रपतिः
कार्यालये
१०/८/१९७४ – ११/२/१९७७
प्रधानमन्त्री इन्दिरा गान्धी
उपराष्ट्रपतिः श्रीबसप्प दानप्प जत्ति
पूर्वगमः श्रीवराहगिरि वेङ्कट गिरि
पादानुध्यातः श्रीनीलं सञ्जीव रेड्डि
व्यक्तिगत विचाराः
जननम् १३/५/१९०५
शिवसागरमण्डलमे, असमराज्यम्
मरणम् ११/२/१९७७ (आयुः ७२)
देहली-महानगरं, भारतम्
राजनैतिकपक्षः कोङ्ग्रेस
पतिः/पत्नी शाह जहां बेगम
अपत्यानि द्वे पुत्र्यौ
मुख्यशिक्षणम् स्टीफन्स्-महाविद्यालयः, केम्ब्रिज्-विश्वविद्यालयः
वृत्तिः वाक्कीलः
धर्मः मुस्लिमधर्मः

श्रीफखरुद्दीन अली अहमद ( /ˈphəkhərʊddɪnə əl əhəmədə/) (हिन्दी: फखरुद्दीन अली अहमद, आङ्ग्ल: Fakharuddin Ali Ahmed) भारतस्य पञ्चमः राष्ट्रपतिः (१९०५-१९७७) । भारतधर्मनिरपेक्षतायाः प्रतीकः अस्ति यत्, भारतस्य सर्वोत्कृष्टे स्थाने (राष्ट्रपतिपदे) मुस्लिम-देशभक्ताः अपि आरूढाः भवन्ति । यद्यपि १९४७ तमे वर्षे भारतस्य धर्माधारीतं विभाजनं पाकिस्थानस्य जनकः अभूत्, तथापि भारतस्य धर्मनिरपेक्षतायाः विचाराः शिथिलाः नाभूवन् । एवं भारतस्य स्वतन्त्रतान्दोलनस्य देशभक्तः नेता फखरुद्दीन अली अहमद राष्ट्रपतित्वेन चितः । डॉ. वराहगिरि वेङ्कट गिरि-महाभागस्य कार्यकाले समाप्ते सति १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य दशमे (१०) दिनाङ्के राष्ट्रपतिनिर्वाचने फखरुद्दीन अली अहमद बहुमतेन चितः । १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्विंशतितमे (२४) दिनाङ्के फखरुद्दीन अली अहमद राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् ।

जन्म, शिक्षणं च[सम्पादयतु]

१९०५ तमस्य वर्षस्य ‘मई’-मासस्य त्रयोदशे (१३) दिनाङ्के फखरुद्दीन अली अहमद जातः । तस्य पितुः नाम खलीलुद्दीन अली अहमद, मातुः नाम रुकिया सुल्ताना च । फखरुद्दीन अली अहमद इत्यस्य जन्म देहली-महानगरस्य ‘हौज काजी’-स्थले अभवत् । सः बाल्यकालादेव प्रतिभावान्, मेधावी चासीत् । फखरुद्दीन अली अहमद इत्यस्य जन्मनः स्वल्पे काले एव तस्य पितुः स्थानान्तरम् उत्तरप्रदेशराज्यस्य गोण्डामण्डले अभूत् । ततः सः शिक्षणयोग्यस्य स्वपुत्रस्य गोण्डामण्डलस्य सर्वकारविद्यालये प्रवेशम् अकारयत् । १९२१ तमे वर्षे फखरुद्दीन अली अहमद यदा ‘मैट्रिक’-इत्यस्य अध्यनं कुर्वन् आसीत्, तदा तस्य पितुः पुनः स्थानान्तरं देहली-महानगरे अभूत् । अतः ‘मैट्रिक’-इत्यस्याध्यनं सः देहली-महानगरे समापितवान् । ‘मैट्रिक’-इत्यस्य द्विवर्षात्मकम् अध्ययनं समाप्य सः १९२३ तमे वर्षे उच्चशिक्षणं प्राप्तुं इङ्ग्लैण्ड-देशम् अगच्छत् । इङ्ग्लैण्ड-देशस्य केम्ब्रिज्-विश्वविद्यालये यदा सः पठनम् आरभत, तदा सः अष्टादश(१८)वर्षीयः आसीत् । तस्मिन् एव विश्वविद्यालये जवाहरलाल नेहरू पठन् आसीत् । सः फखरुद्दीन अली अहमद इत्यस्मात् ज्येष्ठकक्षायां पठन् आसीत् । तस्मात् कालात् आजीवनं नेहरू तस्य मित्र-मार्गदर्शक-आदर्शरूपेण तं प्रेरितवान् इति सः स्वजीवन्याम् अलिखत् । पञ्चवर्षं यावत् केम्ब्रिज-विश्वविद्यालये स्नातकपदव्याः, एल्. एल्. बी. इत्यस्य च अध्ययनं समाप्य सः १९२८ तमे वर्षे भारतं प्रात्यागतः ।

वैवाहिकजीवनम्[सम्पादयतु]

फखरुद्दीन अली अहमद इत्यस्य वैवाहिकजीवनं बहुविलम्बेन प्रारब्धम् । चत्वारिंशत्तमे (४०) वयसि तस्य विवाहः आबिदा हैदर इत्यनया सह अभूत् । विलम्बेन विवाहः जातः परन्तु विवाहस्य स्थितिः तु हास्यपूर्णा, गौरवपूर्णा इति वक्तुं शक्नुमः । कन्यायाः गृहजनाः वरस्य विषये प्रश्नम् अकुर्वन् यत्, “वरः सद्यः आजीविकार्थं किं कुर्वन् अस्ति” इति । फखरुद्दीन अली अहमद इत्यस्य परिवारस्य जनाः उत्तरम् अयच्छन्, “वरस्तु जोरहाट-कारागारे बन्दी अस्ति” इति । ततः वरस्य विषये कन्यायाः परिवारस्य जनेषु बहवः भ्रमाः उद्भूताः । परन्तु फखरुद्दीन अली अहमद महात्मना प्रेरिते 'भारत छोडो'-आन्दोलने आङ्ग्लानां विरोधं कृतवान् आसीत्, अतः कारागारे बन्दी आसीत् इति श्रुत्वा कन्यायाः गृहजनाः विवाहार्थं सम्मताः अभूवन् । ततः १९४५ तमस्य वर्षस्य 'नवम्बर'-मासस्य नवमे (९) दिनाङ्के फखरुद्दीन अली अहमद, आबिदा हैदर इत्यन्योः विवाहः सम्पन्नः ।

राजनीतिप्रवेशः[सम्पादयतु]

१९२८ तमे वर्षे यदा फखरुद्दीन अली अहमद भारतं प्रत्यागच्छत्, तदा सः लाहोर-उच्चन्यायालये वाक्कीलत्वेन कार्यं प्रारभत । तस्य पितुः इच्छा आसीत् यत्, “यथा अहं सर्वकारस्य कार्यम् अकरवं, तथैव मम पुत्रः अपि सर्वकारस्य कार्यं कुर्यात्" इति । परन्तु फखरुद्दीन अली अहमद इत्यस्य मनसि आङ्ग्लानां प्रति श्रद्धा नासीत् । यतो हि यदा सः इङ्ग्लैण्ड-देशे पठन् आसीत्, तदा आङ्ग्लाः मानवतायाः उच्चगुणानां चर्चां कुर्वन्तः आसन् । परन्तु भारते वसद्भिः नागरिकैः सह ते पशुवत् व्यवहारं कुर्वन्तः आसन् । अतः फखरुद्दीन अली अहमद इत्यस्य सर्वकारस्य वृत्तिप्राप्तेः इच्छा नासीत् । तस्य पिता यदा फखरुद्दीन अली अहमद इत्यस्य विचारान् अजानत्, तदा सोऽपि पुत्रस्य विचाराणां सम्मानम् अकरोत् । फखरुद्दीन अली अहमद देशसेवां कर्तुम् इच्छति स्म । अतः सः १९३१ तमे वर्षे कोङ्ग्रेस-पक्षस्य सदस्यः अभवत् । १९३९ तः १९७४ वर्षपर्यन्तं फखरुद्दीन अली अहमद कोङ्ग्रेस्-पक्षसञ्चालितस्य सर्वकारस्य विभिन्नविभागानां मन्त्रिपदं व्यभूषयत् ।

राष्ट्रपतित्वेन फखरुद्दीन अली अहमद[सम्पादयतु]

डॉ. वराहगिरि वेङ्कट गिरि-महाभागस्य कार्यकाले समाप्ते सति १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य दशमे (१०) दिनाङ्के राष्ट्रपतिनिर्वाचने फखरुद्दीन अली अहमद बहुमतेन चितः । १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्विंशतितमे (२४) दिनाङ्के फखरुद्दीन अली अहमद राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् । यदा राष्ट्रपतित्वेन तस्य दायित्वम् आसीत्, तदा प्रधानमन्त्री इन्दिरा गान्धि आसीत् । परन्तु तस्याः राजनैतिकस्थितिः समीचीना नासीत् । यतो हि पुत्रप्रेम्णा ग्रस्ता सा देशस्य हितं विस्मृतवती आसीत् । तस्याः पुत्रः सञ्जय गान्धी, तस्य मित्राणि च सर्वकारत्वेन कार्यं कुर्वन्तः आसन् । तेषां निर्णयाः देशहिताय न अपि तु देशस्य अहिताय एव आसन् । भारतीयजनसङ्ख्यां नियन्त्रितुं ते 'नसबन्धी' इत्यस्य अभियानस्य घोषणाम् अकुर्वन् । तस्मिन् अभियाने सञ्जय गान्धी इत्यस्य कृपादृष्टिं प्राप्तुं केचन मुख्यमन्त्रिणः तु अष्टादशवर्षीयाणां यूनाम् आरभ्य षष्ठिवर्षीयाणां वृद्धानां 'नसबन्धी' अकारयन् । एतत् तु उदाहरणमासीत्, इतोऽपि असांविधानिक-अराजनैतिक-अमानवीयनिर्णयाः सर्वकारेण जनेषु आरोपिताः आसन् । उत्कोचं विना सर्वाकारिविभागेषु कार्यं न भवति स्म । नेतारः भ्रष्टाचारं कृत्वापि दण्डं न प्राप्नुवन्ति स्म । सर्वत्र अराजकतायाः वातावरणमासीत् । तेन अराजकतायाः वातावरणेन दुःखितः एकः स्वातन्त्र्यसेनानी सर्वकारस्य विरोधम् अकरोत् । सः स्वान्त्र्यसेनानी महात्मना सह भारतस्वतन्त्रतान्दोलने भागम् अवहत् । तस्य नाम आसीत् श्रीजयप्रकाश नारायणजयप्रकाश नारायण भारतस्य स्वतन्त्रतया सन्तुष्टः सन् राजनीतिक्षेत्रस्य त्यागं कृत्वा स्वस्य ग्रामे शान्त्या जीवनं यापयति स्म । परन्तु महात्मनः मार्गस्य अनुगामी सः यदा देशे अराजकतायाः वातावरणम् अपश्यत्, तदा सः सर्वकारस्य विरोधमकरोत् ।

१९७५ तमस्य वर्षस्य 'जून'-मासस्य द्वादशे (१२) दिनाङ्के इलाहाबाद-उच्चन्यायालयेन इन्दिरा गान्धी इत्यस्याः विरुद्धम् अभियोगस्य निर्णयः कृतः । इन्दिरा गान्धी निर्वाचनसम्बद्धभ्रष्टाचारस्य दोषी इति इलाहाबाद-उच्चन्यायालयेन उद्घोषितम् । भारतीयसर्वोच्चन्यायालयाय याचिकां दातुं इन्दिरा गान्धी इत्यनयाः पार्श्वे विंशतिः दिनानां कालः आसीत् । परन्तु सर्वोच्चन्यायालयः अपि एतादृशं, इतोऽपि कठिनं वा न्यायं करिष्यति इति भयः तस्याः मनसि आसीत् । तस्याः राजनैतिकक्रूरतायाः परिणामः आसीत् यत्, १९७५ तमस्य वर्षस्य 'जून'-मासस्य षड्विंशति(२६)तमे दिनाङ्के एव भारते आन्तरिकापत्कालस्य घोषणा अभूत् ।

आपत्काले फखरुद्दीन अली अहमद[सम्पादयतु]

कस्मिंश्चित् राज्ये संविधानविरोधीनि कार्याणि चलन्ति सन्ति, कस्यचित् राज्यस्य शासकः कैश्चित् कारणैः संविधानानुसारं राज्ये शासनं कर्तुं न शक्नुवन् अस्ति इति वा राष्ट्रपतिः राज्यपालस्य सूचनया, अन्यरीत्या वा यदि जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां करोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशतस्य (३५६) अनुच्छेदस्य अनुसारं संसदः सभ्यानां सम्मतिस्वीकरणानन्तरं षण्मासावधेः राष्ट्रपतिशासनं भवितुमर्हति । राष्ट्रपतिशासनस्य षण्मासानाम् अवधिः अधिकाधिकं वर्षत्रयं यावत् भवितुमर्हति । राष्ट्रपतिशासनकाले राज्यस्य राज्यपाल एव राष्ट्रपतेः आदेशानुगुणं तद्राज्यस्य शासनं करोति । भारते बहुषु राज्येषु प्रादेशिकापत्कालस्य घोषणाः अभवन् ।

अस्य षड्पञ्चाशदधिकत्रिशतस्य (३५६) अनुच्छेदस्य बहुवारं दुरुपयोगः कृतः अस्ति । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः यदि कस्मिंश्चित् राज्ये सत्तारूढः नास्ति, तर्हि तस्मिन् राज्ये सत्तारूढात् पक्षात् सत्ताम् अपाकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति ।

इन्दिरा गान्धी एतस्य षड्पञ्चाशदधिकत्रिशततमस्य (३५६) अनुच्छेदस्य दुरुपयोगम् अकरोत् । १९७५ तमस्य वर्षस्य 'जून'-मासस्य पञ्चविंशति(२५)तमे दिनाङ्के गृहमन्त्रिद्वारा फखरुद्दीन अली अहमद इत्येनम् आपत्कालस्य प्रस्तावे हस्ताक्षरं कर्तुम् सा आदिशत् । इन्दिरा गान्धी स्वस्य पत्रे अलिखत्, “भवान् आपत्कालस्य पत्रे हस्ताक्षरं करोतु । मन्त्रिणां समर्थनात्मकं पत्रं श्वः प्रातः दास्याम्यहम्” इति । ततः आपत्कालप्रस्तावे राष्ट्रपतेः हस्ताक्षरार्थं कः अगच्छत् इति विषये भिन्नानि मतानि सन्ति । केचन वदन्ति हस्ताक्षरं कारयितुम् इन्दिरा गान्धी स्वयं राष्ट्रपतिभवनम् अगच्छत् इति । केचन वदन्ति, “पञ्चविंशतितमे दिनाङ्के रात्रौ सञ्जय गान्धी स्वमित्रैः सह राष्ट्रपतिभवनम् अगच्छत् । बलेन आपत्कालप्रस्तावे राष्ट्रपतेः हस्ताक्षरम् अकारयत् सः” इति । यत्किमपि जातं स्यात् तस्यां रात्रौ, परन्तु फलं तु कलङ्कवत् एव आसीत् । १९७५ तमस्य वर्षस्य 'जून'-मासस्य पञ्चविंशतितमे दिनाङ्के मध्यरात्रौ भारते आपत्कालस्य घोषणा अभवत् ।

१९७५ तमस्य वर्षस्य आपत्कालपत्रम्[सम्पादयतु]

In exercise of powers conferred by clause 1 of Article 352 of constitution, I, Fukhruddin Ali Ahmed, President of India, by this proclamation declare that a great emergency exists where by the security of India is threatened by internal disturbances.
New Delhi: 25th June 1975 President

फखरुद्दीन अली अहमद इत्यस्य राजनैतिकक्षतिः, नेहरू इत्येनं प्रति प्रेम, इन्दिरा गान्धी इत्यनयाः भयः वा स्यात्, परन्तु तेन कृतः निर्णयः आभारते कलङ्कः एव आसीत् । आपत्कालस्य प्रस्तावे हस्ताक्षरकरणात् प्राक् तेन वक्तव्यम् आसीत् यत्, “अस्मिन् पत्रे मन्त्रिमण्डलस्य हस्ताक्षरानन्तरम् एव मम हस्ताक्षरः भवेत् इति संविधानानुसारम् उचितम्” इति । सः तस्याः विरोधेन पदत्यागं कर्तुं शक्नोति स्म । परन्तु सः असांविधानिकरीत्या तस्मिन् प्रस्तावे हस्ताक्षरम् अकरोत् । तस्मिन् प्रस्तावे हस्ताक्षरं कृत्वा राष्ट्रात् पक्षः उत्कृष्टः इत्यस्याः विचारधारायाः समर्थनं कुर्वन् सः इन्दिरा गान्धी इत्येतस्यै भारतीयसंविधानस्य अपमानं कर्तुम् अवसरम् अयच्छत् । भारताय, फखरुद्दीन अली अहमद इत्येतस्मै, इन्दिरा गान्धी इत्येतस्यै च सः आपत्कालः कलङ्कः एव ।

फखरुद्दीन अली अहमद इत्यस्य मृत्युः[सम्पादयतु]

डॉ. जाकिर हुसैन यथा स्वकार्यकालं विना समाप्य एव देहम् अत्यजत्, तथैव फखरुद्दीन अली अहमद इत्यनेन सह अपि अभूत् । १९७७ तमस्य वर्षस्य 'फरवरी'-मासस्य एकादशे (११) दिनाङ्के राष्ट्रपतिभवने सः हृदयाघातेन मृतः ।


भारतस्य राष्ट्रपतयः
Orange animated left arrow.gif पूर्वतनः
वि वि गिरि
फखरुद्दीन अली अहमद अग्रिमः
बसप्प दानप्प जत्ति
Orange animated right arrow.gif

सम्बद्धाः लेखाः[सम्पादयतु]

राष्ट्रपतिः

सर्वोच्चन्यायालयः

राष्ट्रपतिभवनम्

आपत्कालः

इन्दिरा गान्धी

बाह्यानुन्धाः[सम्पादयतु]

http://pastpresidentsofindia.indiapress.org/ahmed.html

http://www.britannica.com/EBchecked/topic/10208/Fakhruddin-Ali-Ahmed

http://www.rrtd.nic.in/fakhruddinaliahmed.htm

http://www.gloriousindia.com/biographies/fakhruddin_ali_ahmed.html

http://www.mapsofindia.com/who-is-who/government-politics/fakhruddin-ali-ahmed.html


"https://sa.wikipedia.org/w/index.php?title=फखरुद्दीन_अली_अहमद&oldid=429638" इत्यस्माद् पुनः प्राप्तिः