राष्ट्रपतिशासनम्
आन्तरिकापत्कालः अर्थात् संविधानविरोधीनि कार्याणि राज्ये चलन्ती सन्ति, शासकः संविधानानुसारं राज्ये शासनं कर्तुम् असमर्थः अस्ति वा । राष्ट्रपतिः एतादृषं यदि राज्यपालस्य सूचनेन, अन्यरीत्या वा जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां कर्तुं शक्नोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशत्तमा(३५६)नुच्छेदानुसारं संसदः स्वीकृत्या सह षण्मासावधेः वर्षत्रयं यावत् राष्ट्रपतिशासनं भवितुमर्हति । राष्ट्रपतिशासनकाले राज्यस्य राज्यपाल एव राष्ट्रपतेः आदेशानुगुणं शासनं करोति । अस्य षड्पञ्चाशदधिकत्रिशत्तमस्य (३५६) अनुच्छेदस्य बहुवारं दूरुपयोगः जातः अस्ति । अतः भारते बहुषु राज्येषु प्रादेशिकापत्कालस्य घोषणाः अभवन् । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः विपक्षस्य यस्मिन् राज्ये शासनम् अस्ति, तस्मिन् राज्ये शासकात् सत्ताम् अपकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति । राज्ये कोपि पक्षः बहुमतं सिद्धं कर्तुम् असमर्थः भवति चेदपि राष्ट्रपतिशासनं भवति । परन्तु तत् आपत्कालत्वेन न परिगण्यते ।