सामग्री पर जाएँ

जाकिर हुसैन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
डा. जाकिर हुसैन
भारतस्य तृतीयः राष्ट्रपतिः
कार्यालये
१३/५/१९६२ – १३/५/१९६७
प्रधानमन्त्री इन्दिरा गान्धि
उपराष्ट्रपतिः श्रीवराहगिरि वेङ्कट गिरि
पूर्वगमः श्रीसर्वपल्ली राधाकृष्णन्
पादानुध्यातः श्रीवराहगिरि वेङ्कट गिरि
व्यक्तिगत विचाराः
जननम् ८/२/१८९७
हैदराबाद-महानगरम्
मरणम् ३/५/१९६९ (आयुः ७२)
देहली-महानगरं, भारतम्
राजनैतिकपक्षः स्वतन्त्रः
पतिः/पत्नी शाहजहां बैगम
अपत्यानि द्वे पुत्र्यौ
मुख्यशिक्षणम् अलीगढ-मुस्लिम-विश्वविद्यालयः, देहली-विश्वविद्यालयः, हम्बोल्ट् विश्वविद्यालयः - बर्लिन् (जर्मनी)
वृत्तिः दर्शनशास्त्री, प्राध्यापकः च
धर्मः मुस्लिमधर्मः

डा. जाकिर हुसैन ( /ˈɑːkrəhʊsɛɪnə/) (हिन्दी: जाकिर हुसैन , आङ्ग्ल: Zakir Hussain) भारतस्य सुयोग्यः, शिक्षाविदः राष्ट्रपतिः (१९६७-१९६९) आसीत् । भारतीयधर्मनिरपेक्षतायाः साक्षी इदम् अस्ति यत्, भारतस्य सर्वोत्कृष्टे स्थाने (राष्ट्रपतिपदे) मुस्लिम-देशभक्ताः अपि आरूढाः भवन्ति । १९४७ तमे वर्षे कृतं धर्माधारितं भारतविभाजनं पाकिस्थानस्य जनकः अभूत् । तथापि भारतस्य धर्मनिरपेक्षतायाः विचाराः शिथिलाः नाभूवन् । एवं भारतस्य स्वतन्त्रतान्दोलनस्य देशभक्तः नेता डा. जाकिर हुसैन राष्ट्रपतित्वेन चितः । डा. सर्वपल्ली राधाकृष्णन्-महाभागः यदा राष्ट्रपतिः आसीत्, तदा डा. जाकिर हुसैन उपराष्ट्रपतिपदारूढः आसीत् । डा. सर्वपल्ली राधाकृष्णन्-महाभागस्य कार्यकाले समाप्ते सति १९६७ तमस्य वर्षस्य ‘मई’-मासस्य नवमे (९) दिनाङ्के राष्ट्रपतिनिर्वाचने डा. जाकिर हुसैन बहुमतेन चितः । १९६७ तमस्य वर्षस्य ‘मई’-मासस्य त्रयोदशे (१३) दिनाङ्के डा. जाकिर हुसैन राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् । राष्ट्रपतिभवनप्रवेशसमनन्तरं विशालभवनस्थानि विलासवस्तूनि दृष्ट्वा तस्य मुखात् सहसा निर्गतम्, “एतस्मिन् राजभवने त्यागिवत् जीवनयापनं कुर्वन् स्वदायित्वं निर्वहामि इति प्रार्थनां कुर्वन्तु” ।

कुटुम्बेतिहासः

[सम्पादयतु]

अष्टादशे(१८)ऽब्दे अफ्गानिस्थानात् भारतम् आगताः केचन पठानपरिवाराः उत्तरप्रदेशराज्यस्य फर्रुखाबादमण्डले स्वनिवासं निश्चितं कृतवन्तः । तेषु केचन विविधजीविकोपार्जनार्थं कृषिं प्रारभन्त । केचन भारतीयसैनिकस्य दायित्वं स्वीकृतवन्तः । गुलाम हुसैन खान भारतस्य सैन्ये कार्यं कुर्वन् आसीत् । १८८८ तमे वर्षे तस्य पुत्रः फिदा हुसैन वाक्कीलस्य कार्यं कर्तुं हैदराबाद-महानगरं गतः । स्वतर्कैः शीघ्रं हि सः हैदराबाद-महानगरस्य प्रतिष्ठितः वाक्कीलः अभवत् । तस्य पत्न्याः नाम आसीत् 'नाजनीन' । तयोः षड् पुत्राः आसन् । तेषु तृतीयः पुत्रः एव अस्माकं तृतीयः राष्ट्रपतिः डा. जाकिर हुसैन ।

जन्म, बाल्यकाले अनुभूताः क्लेशाः च

[सम्पादयतु]

१८९७ तमस्य वर्षस्य 'फरवरी'-मासस्य अष्टमे (८) दिनाङ्के जाकिर हुसैन जातः । तस्य पिता क्षयरोगग्रस्तः (cancer patient) आसीत् । अतः यदा जाकिर हुसैन नववर्षीयः आसीत्, तदा तस्य पिता परिवारेण सह पुनः उत्तरप्रदेशस्थितं पुरातनगृहं गतवान् । १९०७ तमे वर्षे तस्य पिता दिवङ्गतः । जाकिर हुसैन यदा उच्चविद्यालये पठन् आसीत्, तदा तस्य मातुः, लघुभ्रातुः च 'प्लेग'-रोगेण मृत्युः अभूत् । तस्य मातुः, लघुभ्रातुः च यदा मृत्युः अभूत्, तदा सः परीक्षार्थम् आगरा-महानगरं गतवान् आसीत् । सः तस्य जीवन्यां लिखति, “परीक्षायाः पश्चात् यदा अहं गृहं प्राप्तुं रेलयाने आसम्, तदा अहं ज्ञातवान् 'प्लेग'-रोगस्य प्रसरण(spread)विषये । तस्मिन् दिने रेलस्थानकात् मां नेतुं कोऽपि न आगतवान् । अतः अहं पद्भ्यामेव गृहं प्राप्तवान् । गृहं यदा प्राप्तवान्, तदा मम मातुः मृत्योः ज्ञानमभूत् । मम माता मां प्रमुञ्च्य दूरं, बहु दूरं गतवती । बहु निराशः अहं किङ्कर्तव्यमूढः इतस्तः भ्रमितवान् । परन्तु मम माता दूरद्रष्टृ आसीत् । तस्याः जीवनकाले एव वयं भ्रातरः स्वनिर्भराः आस्म । मम माता वदति स्म, “स्वं कार्यं कुर्वन्तु । पूर्वजानां नाम उज्वलं कुर्वन्तु” इति । तस्याः वचनम् अस्माकं कृते आशीर्वादः आसीत्” ।

शिक्षणम्

[सम्पादयतु]

मातृपित्रोः निधनानन्तरं तयोः वचनपालनार्थं सः अध्ययनाय अधिकं ध्यानं यच्छति स्म । जाकिर हुसैन यदा हैदराबाद-महानगरे निवसति स्म, तदैव तस्य अध्ययनस्य आरम्भः अभवत् । नववर्षस्य आयुपर्यन्तं हैदराबाद-महानगरे 'मौलवी' तस्य गृहं पाठनाय गच्छति स्म । तस्मात् सः फारसी-उर्दू-अरबी-अङ्ग्रेजी-भाषाः, कुरान-शरीफ च अपठत् । हैदराबाद-महानगरात् स्थानान्तरे सति इटावा-महानगरे स्थितायाम् इस्लाम-पाठाशालायां तस्य प्रवेशः अभूत् । तस्यां पाठशालायाम् इस्लामीसभ्यता-संस्कृत्योः ज्ञानेन सह अङ्ग्रेजी-संस्कृतयोः च शिक्षणं सः प्राप्तवान् । पाठशालायां पठितुं सः छात्रावासे निवसति स्म । छात्रावासस्य नियमानुसारं सः प्रतिदिनं 'नमाज' पठति स्म ।

इटावा-महानगरे प्राथमिकशिक्षणं समाप्य अलीगढमण्डले स्थिते 'मोहम्मदन ओरियण्टल एङ्ग्लो' (M.O.A.) महाविद्यालये 'इण्टरमीडियेट्' इत्यस्य अध्ययनं प्रारभत सः । प्रारम्भे सः विज्ञानसम्बद्धानां विषयाणां चयनम् अकरोत् । परन्तु कालान्तरे साहित्यिकग्रन्थेषु तस्य रुचिः उद्भूता । अतः सः 'बी.ए.' इत्यस्याध्यनार्थं अलीगढ-महाविद्यालयं गतवान् । तत्र सः अङ्ग्रेजी-दर्शन-अर्थशास्त्राणाम् अध्ययनं प्रारभत । १९१८ तमे वर्षे सः 'बी.ए.' उत्तीर्णं कृतवान् । उत्तमगुणैः उत्तीर्णः सन् 'इकबाल' इति पदवीं प्राप्तवान् सः । ततः सः अर्थशास्त्रविषयम् अधिकृत्य 'एम.ए.' इत्यस्य अध्ययनं प्रारब्धवान् । तदैव न्यायशास्त्रस्य(एल.एल.बी.) अध्ययनमपि सः प्रारब्धवान् आसीत् । १९२० तमे वर्षे सः 'एम.ए.' इत्यस्य अध्ययनं समाप्य अलीगढ-महाविद्यालये एव प्रवक्तुः पदं प्राप्तवान् । अध्यापनेन सह न्यायशास्त्रस्य अध्ययनमपि कुर्वन् आसीत् सः ।

जाकिर हुसैन निरन्तरम् अध्ययने रतः आसीत् । अध्ययनचक्रं विना तस्य जीवनस्य चक्रं निरर्थकमासीत् । अध्ययनाध्यापनयोः तस्य अधिका रुचिः आसीत् । सः लेखान् अपि लिखति स्म । सः अनुवादं, भाषणं च करोति स्म । तस्य भारतराष्ट्रियविचाराः अलीगढ-महाविद्यालये बहु प्रख्याताः आसन् । आङ्ग्लनेतृत्वस्य विरोधी सः भारतीयसंस्कृतेः प्रबलः पक्षधरः आसीत् । सः अलीगढ-महाविद्यालयस्य शिक्षकः आसीत्, छात्रः अपि आसीत् । अलीगढ-महाविद्यालये यदा सः आसीत्, तदा भारते आङ्ग्लनां विरोधः पूर्णबलेन भवन् आसीत् । १९२० तमे वर्षे महात्मा असहयोगान्दोलनस्य घोषणां कृतवान् आसीत् । मुस्लिमनेतारः अपि 'खिलाफत'-आन्दोलनस्य प्रारम्भं कृतवन्तः आसन् । महात्मनः असहयोगान्दोलनं, यवनानां 'खिलाफत'-आन्दोलनञ्च आङ्ग्लविरोधार्थम् आसीत् । तदा डा. जाकिर हुसैन अलीगढ-महाविद्यालयस्य छात्रसङ्घस्य उपाध्यक्षः आसीत् । द्वयोः आन्देलनयोः एकतायै अलीगढ-महाविद्यालये 'खिलाफत कोङ्ग्रेस'-अधिवेशनम् आसीत् । तस्मिन् अधिवेशने अबुल कलाम आजाद, हकीम अजमल खा, महात्मा च भागम् अगृह्णत् । सर्वे नेतारः छात्रान् उद्दिश्य एकं सारयुक्तं निवेदनम् अकुर्वन्, “भारतस्य स्वतन्त्रतायै छात्राः स्वयोगदानं दद्युः” इति । तत्र महात्मा अवदत्, “एषः एव भारतस्य क्रान्तिकालः अस्ति । भारतीयछात्रैः भारतस्य स्वतन्त्रतायै योगदानं दातव्यमेव । अतः सर्वकारेण चालितानां विद्यालयानां, महाविद्यालयानां च त्यागं कृत्वा भारतीयैकतायाः प्रमाणं सर्वे छात्राः दद्युः इति मे प्रार्थना” ।

जाकिर हुसैन सर्वेषु विद्यार्थिषु उत्कृष्टः, प्रतिभावान् च आसीत् । अतः अलीगढ-महाविद्यालयस्य आचार्यः जियाउद्दीन जाकिर हुसैन इत्येनं न्यवेदयत्, “त्वं महाविद्यालयं त्यक्त्वा न गच्छसि चेत् अहं त्वां 'डेप्युटि कलेक्टर'-पदाय नियोजयिष्यामि” इति । परन्तु निस्स्वार्थी जाकिर हुसैन देशकल्याणाय महाविद्यालयं त्यक्तवान् एव । सः एतस्याः घटनायाः उल्लेखं स्वजीवन्यां करोति, “जीवनस्य सर्वप्रथमः सः मुख्यनिर्णयः मया स्वेच्छया कृतः आसीत् । तत्पश्चात् अहं मम जीवने तादृशान् निर्णयान् पुनः न कृतवान् । अधुना मम पार्श्वे यत्किमपि अस्ति, तत् तस्य निर्णयस्य बलेनैवास्ति” ।

सर्वकारेण चालितानां शिक्षणसंस्थानां त्यागं कृत्वा आगतेभ्यः विद्यार्थिभ्यः नवीनस्य राष्ट्रियविश्वविद्यालयस्य आवश्यकता उद्भूता । अतः १९२० तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकविंशति(२१)तमे दिनाङ्के जाकिर हुसैन-द्वारा प्रेरितस्य 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य स्थापना अभवत् । १९२२ तमे वर्षे सः विद्यावारिधिप्राप्त्यर्थं (PhD) जर्मनी-देशम् अगच्छत् । १९२६ तमे वर्षे यदा सः भारतं प्रत्यागच्छत्, तदा 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयः दुस्स्थितौ आसीत् । समाजे चर्चा आसीत् यत्, 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य पिधानं भविष्यति” इति ।

वैवाहिकजीवनम्

[सम्पादयतु]

जाकिर हुसैन यदा 'इण्टरमीडियेट्' पठन् आसीत्, तदा शाहजहा बैगम इत्यनया सह तस्य विवाहः जातः आसीत् । तयोः द्वे पुत्र्यौ आस्ताम् । तयोः नाम क्रमेण सईदा, साफिया च । तस्य पारिवारिकजीवनं शान्तियुतं, सुखप्रदं च आसीत् ।

शिक्षणक्षेत्रे योगदानम्

[सम्पादयतु]

१९२७ तमे वर्षे 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य कुलपतेः मृत्यौ सति विश्वविद्यालयस्य पूर्णः कार्यभारः डा. जाकिर हुसैन इत्यस्योपरि आपतितः । विश्वविद्यालयस्य निर्वहणार्थं धनस्याभावः आसीत् । अतः डा. जाकिर हुसैन देहली-महानगरं, हैदराबाद-महानगरं च गत्वा धनिकेभ्यः धनम् अयाचत । यात्रायाः साफल्येन विश्वविद्यालयस्य आर्थिकी स्थितिः सुदृढा अभूत् । डा. जाकिर हुसैन यदा विश्वविद्यालयस्य कुलपतिपदम् अलङ्कृतवान् आसीत्, तदा विश्वविद्यालयः पिहितः भविष्यति इति निश्चितमासीत् । परन्तु एकवंशतिः वर्षपश्चात् यदा विश्वविद्यालयस्य कार्यभारात् डा. जाकिर हुसैन विमुक्तः अभवत्, तदा तस्य विश्वविद्यालयस्य गणना उत्तमविश्वविद्यालयेषु अभवत् । डा. जाकिर हुसैन इत्यस्य काले हिन्दु-मुस्लिमविद्यार्थिनाम् एकतायै अपि विश्वविद्यालयः प्रख्यातः आसीत् । डा. जाकिर हुसैन गान्धि-विचारानुगामी आसीत् । अतः तस्मिन् विश्वविद्यालये महात्मना निर्दिष्टायाः शिक्षणपद्धत्याः अनुसरणं भवति स्म ।

स्वातन्त्र्यसङ्ग्रामे योगदानम्

[सम्पादयतु]

महात्मना प्रेरिताय असहयोगान्दोलनाय स्वयोगदानं दत्त्वा स्वतन्त्रतायाः प्रतीकस्य 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य रक्षणं कृत्वा डा. जाकिर हुसैन पूर्णमनसा देशसेवां कृतवान् । ततः सः कोङ्ग्रेस-पक्षे कार्यं कृतवान् । तस्य मुख्यं कार्यम् आसीत् शिक्षणद्वारा क्रान्तिः । शिक्षायाः माध्यमेन देशे जागरूकता कथं भवेत्, देशः स्वतन्त्रः कथं भवेत् इत्येताभ्यां कार्याभ्यां सः परिश्रमम् अकरोत् । स्वातन्त्र्यसङ्ग्रामकाले डा. जाकिर हुसैन योग्यः शिक्षाविदः विचारकः इति प्रसिद्धः अभवत् । परन्तु कोङ्ग्रेस-मुस्लिमलीग-पक्षयोः यः विभाजनसम्बद्धविवादः आसीत्, तेन डा. जाकिर हुसैन इत्यस्य मनः उद्विग्नं भवति स्म । अतः १९४६ तमे वर्षे 'जामिया मिलिया इस्लामिया'-विश्वविद्यालयस्य रजतजयन्त्याः अवसरे सः मार्मिकं भाषणं कृतवान् आसीत् । तस्मिन् कार्यक्रमे कोङ्ग्रेस-मुस्लिमलीग-पक्षयोः महात्मा-सरदार-जिन्ना-मौलाना आजाद-नेहरू-आदयः सर्वे नेतारः उपस्थिताः आसन् । भाषणसमये सः उक्तवान्, “'खुदा'-र्थे भवन्तः पारस्परिकं मतभेदं विस्मृत्य कार्यं कुर्वन्तु । अस्माकं वर्तमानस्थित्यै कः उत्तरदायी अस्ति, तस्य विचारार्थम् एषः उचितकालः नास्ति । एतस्मिन् काले अस्माभिः निर्णयः कर्तव्यः यत्, वयं सुसभ्यं भविष्यं इच्छामः उत कलहपूर्णं जीवनम् । अतः अहं भवतः सर्वान् प्रार्थयामि, कृपया एकी भूत्वा देशस्य एकतायै चिन्तनं कुर्वन्तु” इति ।

राजनीतिप्रवेशः

[सम्पादयतु]

महात्मा शिक्षणपद्धत्याः परिवर्तनम् इच्छति स्म । सः न केवलं शिक्षणस्य पद्धत्याः परिवर्तनम् इच्छति स्म, अपि तु विद्यार्थिनां शारीरिक-मानसिक-बौद्धिकविकासमपि । अतः १९३७ तमे वर्षे शिक्षणक्षेत्रे संशोधनाय राष्ट्रियसमितिः रचिता । तस्याः समित्याः अध्यक्षत्वेन डा. जाकिर हुसैन चितः । अतः १९४६ तमे वर्षे यदा अन्तिमसर्वकारस्य मन्त्रिमण्डलस्य रचना अभूत्, तदा नेहरू शिक्षणमन्त्रिपदाय डा. जाकिर हसैन इत्येतस्य नाम प्रस्तापितवान् । परन्तु जाकिर हुसैन राजनीतिप्रवेशाय निषेधमकरोत् । शिक्षणक्षेत्रे एव योगदानस्य इच्छा आसीत् तस्य । अतः सः तस्य प्रस्तावं निराकरोत् । परन्तु १९५७ तमे वर्षे नेहरू इत्यस्य आग्रहेण तेन बिहारराज्यस्य राज्यपालपदम् अलङ्कृतम् । एवं राजनीतिक्षेत्रे तस्य योगदानं प्रारब्धम् ।

१९६२ तमे वर्षे तस्य कार्यकाले समाप्ते सति सः देहली-महानगरं प्रत्यगच्छत् । तस्मिन् एव वर्षे सः उपराष्ट्रपतित्वेन चितः । डा. जाकिर हुसैन इत्यस्य उपराष्ट्रपतित्वेन दायित्वम् अशान्तमेव आसीत् । १९६२ तमे वर्षे एव चीन-देशेन सह भारतस्य युद्धम् अभूत् । तस्मिन् युद्धे भारतस्य अतिनिम्नपराजयः अभवत् । ततः नेहरू दिवङ्गतः । तस्य निधनानन्तरं लाल बहादूर शास्त्री प्रधानमन्त्री अभूत् । तस्य कार्यकाले पाकिस्थानदेशः भारतस्योपरि आक्रमणमकरोत् । तस्मिन् युद्धे भारतस्य विजयात् हर्षानुभवावसरे लाल बहादूर शास्त्री दिवङ्गतः येन डा. जाकिर हुसैन इत्यस्य हृदयं दुःखे निमज्जितम् । ततः इन्दिरा गान्धि यदा प्रधानमन्त्री अभवत्, तदा तस्य उपराष्ट्रपतिकार्यकालः समाप्तः अभवत् । पञ्चवर्षेषु द्वयोः प्रधानमन्त्रिणोः निधनस्य, युद्धद्वयस्य च साक्षी अभवत् सः । बहु दुष्करस्थित्यामपि सः विनयेन, संयमेन च कार्यम् अकरोत् । तस्य मनसि यत् दुःखम् आसीत्, तेन तस्य कार्यस्योपरि कदापि प्रभावः नाभूत् ।

डा. सर्वपल्ली राधाकृष्णन्-महाभागः यदा राष्ट्रपतिः आसीत्, तदा डा. जाकिर हुसैन उपराष्ट्रपतिः आसीत् । डा. सर्वपल्ली राधाकृष्णन्-महाभागस्य कार्यकालस्य समाप्त्यनन्तरं १९६७ तमस्य वर्षस्य ‘मई’-मासस्य नवमे (९) दिनाङ्के राष्ट्रपतिनिर्वाचने डा. जाकिर हुसैन बहुमतेन चितः । १९६७ तमस्य वर्षस्य ‘मई’-मासस्य त्रयोदशे (१३) दिनाङ्के डा. जाकिर हुसैन राष्ट्रपतिपदस्य गौरवरक्षणस्य शपथम् अकरोत् । राष्ट्रपतिभवनप्रवेशसमनन्तरं विशालभवनस्थानि विलासवस्तूनि दृष्ट्वा तस्य मुखात् सहसा निर्गतम्, “एतस्मिन् राजभवने त्यागिवत् जीवनयापनं कुर्वन् स्वदायित्वं निर्वहामि इति प्रार्थनां कुर्वन्तु” ।

डा. जाकिर हुसैन यदा उपराष्ट्रपतिः आसीत्, तदा तु सः बहूनां देशानां प्रवासं कृतवान् आसीत् । परन्तु राष्ट्रपतिकार्यकाले देशद्वयस्यैव प्रवासम् अकरोत् सः । १९६८ तमे वर्षे सः रूस-देशं गतवान् । तस्मिन् एव वर्षे सः नेपाल-देशस्य प्रवासमपि अकरोत् । सः तस्य भाषणे उक्तवान् आसीत्, “मह्यं राष्ट्रपतेः दायित्वं दत्त्वा देशेन शिक्षकस्य सम्माननं कृतमस्ति । अहं सङ्कल्पं कृतवान् आसम् यत्, अहं मम जीवनं शिक्षाक्रान्त्यै यक्ष्यामि इति । अहं मम सार्वजनिकजीवनं गान्धि-चरणाशीर्वादेन प्रारब्धवानासम् । महात्मा एव प्रत्यक्षं, परोक्षञ्च आजीवनं मम मार्गदर्शनम् अकरोत् । सर्वदा अहं सर्वान् गान्धि-मार्गे एव प्रेरयिष्यामि” इति ।


भारतस्य राष्ट्रपतयः
पूर्वतनः
सर्वपल्ली राधाकृष्णन्
जाकिर हुसैन अग्रिमः
वि वि गिरि

सम्बद्धाः लेखाः

[सम्पादयतु]

राष्ट्रपतिः

महात्मा गान्धी़

पण्डित नेहरु

इन्दिरा गान्धी

बाह्यानुन्धाः

[सम्पादयतु]

http://www.youtube.com/watch?v=0cpJnCM7tsM

http://pastpresidentsofindia.indiapress.org/zakirhusain.html

http://www.iloveindia.com/indian-heroes/dr-zakir-hussain.html


"https://sa.wikipedia.org/w/index.php?title=जाकिर_हुसैन&oldid=429636" इत्यस्माद् प्रतिप्राप्तम्