भारतपाकिस्थानयुद्धम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


भारतपाकिस्थानदेशयोः मध्ये वारचतुष्टयं युद्धम् अभवत् । उभयोः पक्षयोः असङ्ख्याकाः सैनिकाः, जनसामान्याः मृताः । उभयोः देशयोः आर्थिकस्थितेः उपरि अतिगभीरः कुठाराघातः अभवत् । तथापि केषाञ्चन दिनानां मध्यान्तरे सीमावर्तिक्षेत्रेषु युद्धविरामोल्लङ्घनस्य वार्ताः दूरदर्शने आगच्छन्ति । १९४७, १९६५, १९७१, १९९९ तमे वर्षे भारत-पाकिस्थानदेशयोः मध्ये भीषणानि युद्धानि अभवन् । सर्वेषु युद्धेषु भारतस्य विजयः अभवत् । सर्वेषु युद्धेषु युद्धारम्भः पाकिस्थानदेशेन कृतः आसीत्, अन्तश्च भारतेन । १९९९ तमस्य वर्षस्य युद्धं कारगिलयुद्धत्वेन प्रख्यातम् अस्ति ।