विद्याभूषणः
विद्याभूषणः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | अरुणाचलकेतनम्, चाणक्यविजयम्, राजर्षिभरतः |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
विद्याभूषणः काव्यतीर्थश्चट्टलनगरीमधिवसति वङ्गदेशे। अस्य पिता विश्वेश्वरः अध्यापकः ‘कृतिरत्नम् आसीत्, माता च कुसुमकामिनीदेवी । अस्य कुलगुरुः श्रीमन्महेशचन्द्रो भट्टाचार्य आसीत्।
विश्वेश्वरः प्रथमं स्वपितुरधीतवान् । ततः चट्टलसंस्कृतमहाविद्यालये समभ्यैष्ट। तत्र शास्त्राचार्य-रजनीकान्तादयस्तस्य गुरव आसन् । ततः कलकत्ता-संस्कृतमहाविद्यालये तस्य राजेन्द्रनाथविद्याभूषणादयोऽध्यापका अवर्तन्त ।
विश्वेश्वरः पश्चिमवङ्गशिक्षाधिकारसेवातः प्राध्यापकपदाद् विश्रान्तः । तस्याध्यापनकर्म चट्टलसंस्कृत महाविद्यालये प्रमुखरूपेणासीत् । तेन खलु स्वरचितनाटकेषु निवदेकरूपेण दीनग्रन्थकार इति विशेषितः । तेन वाल्मीकिसंवर्धने नाटकस्वरचितग्रन्थानां नामानि लिखितानि तद्यथा -
रूपकाणि
[सम्पादयतु](१) दस्युरत्नाकरम् । (२) भरतमेलनम् । (३) वाल्मीकि-संवर्धनम् । (४) चाणक्यविजयम् । (५) प्रबुद्धहिमाचलम् । (६) विष्णुमाया | (७) राजर्षिभरतः । (८) उमा-तपस्विनी । (६) द्वारावती । (१०) ओङ्कारनाथमङ्गलम् । (११) मातृपूजनम् । (१२) उत्तरकुरुक्षेत्रम् । (१३) राजर्षिः सुरथः । (१४) काशीकोशलेशः । (१५) अरुणाचलकेतनम् ।
मञ्जुषापत्रिकानुसारमेतेषु रूपकेषु दस्युरत्नाकरस्य भरतमेलनस्य च ध्यानेशनारायणः सहलेखको बभूव।
खण्डकाव्यम्
[सम्पादयतु](१) काव्यकुसुमाञ्जलिः (२) गङ्गासुरतरङ्गिणी च ।
कथा
[सम्पादयतु]मणिमालिका
गीतिकाव्यम्
[सम्पादयतु]वन वेणुः
एतदतिरिक्तं विश्वेश्वरेण बंगभाषायां ‘पद्मपुर–‘पुष्पपराग' इति कृतिद्वयं प्रणीतम्।
कवेः गृहमेव विद्यालयः आसीत् , यत्र तस्य पिता कुलपरम्परयां रामायणं, महाभारतं, पुराणानि, महाकाव्यानि च पाठयति स्म । तस्य पिता सङ्गीतस्य नाट्यस्य च रसज्ञ आसीत् । तत्रैव स निकटवर्तिनि शिवमन्दिरप्राङ्गणे मध्याह्नानन्तरं पल्लीनाट्यगोठ्यामभिनयप्रस्तुतं प्रोत्साहको भवति स्म। चट्टलमहाविद्यालयेऽध्यापकः सन् विश्वेश्वरः सर्वप्रथमं कृष्णार्जुननाटकाभिनये कृष्णस्य भूमिकां निरवहत् । अनन्तरं बंग-संस्कृतभाषयोरनेकेषु रूपकेषु अभिनिनाय। अनेकसंस्थाभिस्तस्य रूपकाण्यभिनीतानि। कोलकातायाः आकाशवाण्या तस्य कृतीनां संक्षिप्तसंस्करणानि प्रसारितानि अर्थाभावात् तस्यानेकनाटकान्यप्रकाशितानि।
चाणक्यविजयम्
[सम्पादयतु]चाणक्य-विजयस्य प्रकाशनं रूपकमञ्जरीग्रन्थमालायाः प्रथमे भागे १९६० ईसवीये कोलकातायाः सन्नम्पम्। अस्मिन् नाटके चन्द्रगुप्तस्य पितृव्यपुत्रो नन्दस्तं प्रति संशयाकुलो भृशं पीडयति स्म । तदानीं चाणक्यः पाटलिपुत्रमधिवसति स्म । नन्दस्य प्रजापालनप्रवृतौ हीनतामवलोक्य चाणक्यः खिन्न आसीत्। एकदा ज्योतिविदो वेषेण स चन्द्रगुप्तममिलत्, तव हस्तरेखानुसारं त्वया राजपदं भोक्तव्यमिति न्यवेदयच्च। श्रुत्वैतञ्चन्द्रगुप्तस्य निराशा विगलिता।
द्वितीयेऽङ्के नन्दश्चन्द्रगुप्तमभिर्युक्ते यत्त्वं राजद्रोही वर्तसे, मद्विरुद्धमाचरसि चेति। चन्द्रगुप्तेन कथितम् - राजपुत्रत्वादहं स्वकीयं भागं प्राप्तमिच्छामि । नन्देनोक्तं त्वं दासीपुत्रोऽसि । अतस्तव कुतो भागः ? अथ पार्षदैश्चन्द्रगुप्तो दोषभागिति समर्थितः दण्डनीयश्च घोषितः। तस्य माता मुरागत्य पुत्ररक्षायै याचते स्म । परन्तु नन्दादेशाद् द्वावपि निगडितौ कारागारे प्रवेशितौ।
एकस्मिन् दिने रक्षिषु सुप्तेषु मुरा चन्द्रगुप्तममिलत् । तस्मिन्नेव समये चाणक्यस्य बालिका शिष्या गुप्तमार्गेण कारागृहं प्रविष्टा, तौ द्वावपि कारागृहाद् बहिस्तेनैव गुप्तमार्गेणानयच्च।
तृतीयेऽङ्के वनस्थलीं दर्भरहितं कुर्वणेन चाणक्येन चन्द्रगुप्तो विज्ञापितो यत् कुशैश्चरणस्य क्षतेः पितृश्राद्धे बाधा समुत्पन्ना । अत एव ममेदृशः समारम्भः । तदनु वार्तालापे चन्द्रगुप्तेन कथितम् - अहं हृतराज्यं प्रातुमिच्छामि। चाणक्येन तस्य साहाय्यं कर्तुं प्रतिज्ञातम् । एकदा नन्दः पितृश्राद्धं चिकीर्षति स्म । श्राद्धे ब्राह्मणा भोजयितव्या आसन् । आमन्त्रितश्चाणक्योऽपि तत्र गतः । नन्देन अपमानितः स प्रतिज्ञातवान् -
मोचयामि शिखां चेमां ज्वलन्तीं ब्रह्मतेजसा।
सवंशे त्वयि संनष्टे ग्रन्थियामि पुनश्च ताम्।।
चतुर्थेऽङ्क चन्द्रगुप्तः पल्लीगृहे संस्थितः कुसुमपुरम् अभिषेणयितुम् उपक्रमते । बालिका शिष्या परिव्राजकरूपम् आस्थाय चन्द्रगुप्तं मिलित्वा तस्मै आक्रमणयोजनायाः पत्रं प्रायच्छत् । चन्द्रगुप्तस्य सैनिकाः नवायुधैः सज्जा आसन् । पूर्णिमायाः रात्रौ चन्द्रगुप्तेन आक्रमिष्यता चाणक्यो द्रष्टव्यः आसीत्, यदा नागरिका उत्सवे प्रमत्ता भवेयुः।
पञ्चमेऽङ्के कौमुदीमहोत्सवे राजा, राज्ञा तयोः परिचारकाः सुहृदश्च हर्षनिमग्नाः भवन्ति । राज्ञी वीणा वादयित्वा राजानं हर्षयति । विदूषको राज्ञीं परितो नृत्यति । चन्द्रगुप्तः सेनासमेतः समागत्य चाणक्याय स्वागताशंसनं सादरं व्याजहार । अथ परित्राजिकावेषधारिणी शिष्या समागत्य न्यवेदयत् - नगरप्रवेशमार्गों राजभवनस्य गुप्तमार्गश्च मया ज्ञातौ । मया नन्दस्य सैन्यबलस्यापि निखिला सूचना समधिगता। चाणक्यस्य आदेशानुसारं कुसुमपुरमाक्रान्तम् । स नीलकञ्चुकं दधार । चन्द्रगुप्तो विजयते स्म । तस्मै राजनीतिश्चाणक्येनोपदिष्टा।
सप्तमाङ्के चाणक्यो नन्दस्य मन्त्रिणं गुणसिन्धुं चाणक्यवशवर्तिनं करोति । अन्ते चन्द्रगुप्तश्चाणक्यचरणयोः स्वमुकुटं न्यस्यति । चाणक्यः स्वशिखां बध्नाति । ततस्तपसे वनं गच्छति। यथा -
धर्मराज्यं प्रतिष्ठाप्य भारते श्रीगुणान्वितम्।
पूर्णव्रतोऽस्मि सानन्दं यास्यामि तपसे वनम्॥
चाणक्यः शिष्यां बालिकामुपदिदेश – “खण्डच्छिन्नविक्षिप्तं भारतवर्षमैक्यं प्रापय।”
अस्मिन्नाटके सङ्गीतेन, वीणावादनेन च दर्शकाः सविशेषमानन्दमाप्नुवन्ति । चाणक्यद्वारा ज्योतिर्विदो रूपस्याङ्गीकरणेन बालिकया परिव्राजकारूपधारणेन च छायातत्त्वमुपलभ्यते।
वाल्मीकि-संवर्धनम्
[सम्पादयतु]ब्रह्म-नारदौ पर्यटन्तौ विपिने दस्युराजस्य रत्नाकरस्य अनुचरैः दृष्टौ । अथ संकेतपूर्वकं दस्यवः तयोर्मार्गमुपरुद्धवन्तः । ताभ्यां स्व-स्वविषयेऽतिदीनता प्रदर्शिता, परन्तु दस्युराजादेशाद् अस्यवस्तयोः अविवसनमन्वेषणं समारब्धम्।
अथ ब्रह्मा दस्युराजमपृच्छत् अपि तवास्मिन् पापकर्मणि कोऽपि समभागी ? दस्युराजरत्नाकरोऽस्योत्तरं प्रष्टुं तौ निबध्य गृहं गतवान् । तस्य पितरौ तस्य पापप्रवृत्तेः प्रथमत एव समुद्विग्नावास्ताम् । अथ रत्नाकरेण पृष्टौ पापकर्तैव पापभाग् भवतीत्यूचतुः । भार्यापि तादृगेवोत्तरं दत्तवती। पापकर्मणो भृशमुद्विग्नो दस्युराजो ब्रह्मनादयोः शरणं स्वात्मशुद्धये गतः । चतुराननोऽब्रवीत् जय श्रीराम श्रीरामेति जप । कालान्तरेण रत्नाकरस्तत्रैव समाधिमधिगतवान् ।
अथ बहुकालानन्तरं ब्रह्मनारदौ पुनस्तत्र समागतौ । रत्नाकरस्य हस्तौ स्पृष्ट्वा ब्रह्मादिदेश - उत्तिष्ठ ब्रह्मन् ! परिहर योगसमाधिं जगतां कल्याणाय। ततो निषादेन निहतं क्रौञ्चं परितस्तद्भार्यायाः करुणक्रन्दनं श्रुत्वा वाल्मीकिमुखान्निःसृतम् -
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
यक्रौञ्चमिथुनादेकमवधीः काममोहितम्।।
अन्ततो निषादः आगत्य वाल्मिीकिं क्षमामयाचत । वाल्मीकिः स्वशापेन चिखेद । तदानीमेव सरस्वती महर्षिमब्रवीत् -
"मच्छन्दादेव ते कण्ठान्निर्गतेयं सरस्वती।" ब्रह्मणोक्तम् - अनेन निषादप्रसङ्गेन वाग्देवी त्वां रामायणं लेखितुं प्रेरयति । ततः सरस्वती रामकथां गानाय नारदं समादिदेश।
अस्य प्रकाशनं कोलकातायाः रूपकमञ्जरी-ग्रन्थमालायामभवत् । अस्याभिनयोऽनेकैः प्रतिष्ठानैः कृतः । अस्य प्रसारणम् आकाशवाण्यापि विहितम्।
प्रबुद्धहिमाचलम्
[सम्पादयतु]प्रबुद्धहिमाचलं नाटकम् उच्चस्तरीयं मन्यते । अत्र भारतीयाः सनातनवैभवोत्कर्ष-शिक्षिताः। उमामहेश्वरस्य यात्राप्रसङ्गे नाटकमिदमभिनीतम् । आकाशवाण्यापीदं प्रसारितम्। नाटकेऽस्मिन् यद्यप्याङ्गिककार्याणां विपुलता नास्ति, तथापि वैचारिककार्यसिद्धिः प्रचुरमात्रायां विलसति।गन्धर्वराजकन्यया मधुच्छन्दया भवानी-शङ्करौ समर्चितौ । तस्याः पितरावपि तौ पूजितवन्तौ । पश्चाद् विजयकेतुरभिषिक्तः । देवस्थानस्य नवीनो नरपतिः सर्वैरभिनन्दितः । समेषां कृते राज्यगौरवाय जयपताका-सम्मानो निहितः । सेनाध्यक्षेण प्रतिज्ञातं यदहं देवस्थानगौरम् अवरुणाचलदुर्गञ्च रक्षिष्यामि।
विशालपुरस्य राष्ट्रपालो विक्रमवर्धन आदिदेश – अद्यावधि सर्वे मठा, मन्दिराणि तथा तेषां सम्पत्तयो राज्याधिकारे भविष्यन्ति । तत्र निवासिनो जनाः कृषिं कुर्वन्तु शिल्पाजीवा वा भवन्तु । सर्वे श्राम्यन्तु । अपर आदेश आसीत् - समग्रा भूमिः राष्ट्रायत्ता भविष्यति । सर्वे जनाः स्वां जीविकां कृषिशिल्पादिभिः सम्पादयन्तु इति।
द्वितीयेऽङके विशालपुरस्य राज्यप्रासादे राष्ट्रपतिः विक्रमवर्धनो मन्त्रणां करोति स्म । तन्मतमासीत् अस्माकं राष्ट्रस्याभ्युदयस्तु निष्पन्नः । किंतु प्रतिवेशिनो राज्यस्य देवस्थानस्य श्रीरस्माकं नेत्रयोः पीडां जनयति । कथं नास्माभिः स्वराष्ट्रस्य वर्धमानायै जनसंख्यायै देवगिरेस्तटवर्ती प्रदेशः स्वायत्तीक्रियते ? मन्त्रिभिरनुमोदितं राष्ट्रपतिमतम् । ततश्चण्डशासनो नाम सेनाध्यक्षो देवस्थानमाक्रमितुं सैन्यं सज्जयते स्म।
तदानीमेव मदन्तिका तृष्णामोहमयी-वह्निशिखाप्रभृतिभिः सखीभिरागत्य विक्रमवर्धनः स्वगीतेन आनन्दितः। तृतीयाङ्के गन्धर्वनगरस्य नैसर्गिक-सुषुमामण्डिते प्रान्ते मृगयापरायणो विजयकेतुरायातः । तस्य सखायः परिचारकाश्च पश्चाद् वियुक्ता आसन् । स तत्र पान्थवेषधारिणं दस्युमपश्यत् | दस्युनिर्दिष्टमार्गेण गत्वा स मधुच्छन्दादि-गन्धर्वकुमारीरपहरन्तं दस्युराजमपश्यत् । विजयकेतुस्तेषामुपरि बाणानवर्षयत् । तद् दृष्ट्वा ते पलायिताः । ताः सर्वाः गन्धर्वकन्याः विजयकेतुर्गन्धर्वराजस्य चित्रभानोः सविधे प्रापयामास । पारितोषिकरूपेण गन्धर्वराजः स्वां दुहितरं मधुच्छन्दां विजयकेतवे प्रदत्तवान्।
चतुर्थाङ्के राजकविः सुधाकण्ठो देवस्थानस्य राजमार्गेषु वीणां वादयन् कथयति स्म । विविधसांस्कृतिक-प्रवृत्तिनायकाः स्व-स्वां विचारसरणिं समर्थयन्तो राष्ट्रियजीवनादर्शान् प्रस्तावयन्ति। पञ्चमाङ्के सूच्यते यद् विशालपुरसैनिकररुणाचलप्रान्त-प्रदेशोऽभिषेणितः । सिन्धुकूटाधिपतिरपि शत्रुणांसहैति सेनापतिना पुरञ्जयेन समाचारः प्रेषितो यच्छत्रुः पराजितः । देवस्थानस्य सर्वे जना राष्ट्ररक्षायै समुद्यता आसन् । राष्ट्रकन्या नवयुवकानामुत्साहवर्धनाय राष्ट्रगीतमगायन्।
पूर्वकूटप्रदेशस्य शरणार्थिनो देवस्थानं प्रविष्टाः । तेषां निवासः सुव्यवस्थितः । सनातनो रत्नमञ्जरी चास्यां दिशि महत् कृतवन्तौ । रत्नमञ्जर्याः प्रार्थनागानं श्रुत्वा विजयकेतुः समादिशत् -
उन्मोचय मम नगरद्वारमनाथेभ्य आश्रयदानाय। अद्य प्रभृति राजभवनं शरणार्थिभ्यः स्थानदानाय सदोन्मुक्तं तिष्ठतु | राज्ञी मधुच्छन्दापि शरणार्थिव्यवस्याथां पूर्णसहायपरा बभूव । राजकविना सुधाकण्ठेन लोकजागरणाय गीतानि विरचितानि। षष्ठाङ्के ब्रह्मानन्दः सनातनं निवेदयति स्म - देवा अधुना योग निद्रामाश्रयन्ते । देवतात्मा हिमाचलोऽपि समाधिलीनो निद्राति•••••••••पश्यैनां दिव्यालोकसमुद्भासितदिङ्मण्डलां देवीमूर्तिम्। चिन्मयीविश्वधात्री विश्वरूपा परमेश्वरीयं भक्तजनैः चिरमाराध्यते। सनातनः स्थिरयोगासनः सन् योगविधिना महासमाधिमङ्गीचकार।
उत्तरकुरुक्षेत्रम्
[सम्पादयतु]प्रस्तुतनाटके कौरव-पाण्डव-कृष्णानां महाभारत-युद्धानन्तरदुःस्थितेश्चित्रणमस्ति। कुरुक्षेत्रयुद्धे सर्वसम्बन्धुिषु निहतेषु फाल्गुनो दुःखनिमग्नोऽभवत् । कृष्ण इदं धर्मयुद्धं क्षत्रियाणां श्रेयसे मनुते स्म। युधिष्टिरेण कथितम् - अहं राज्यं परीक्षिते दत्त्वा वानप्रस्थं ग्रहीतुमिच्छामि। कृष्णेन अभिहितं - यादवानाम् आह्वानादहं द्वारकां जिगमिषामि । धर्मो युष्मान् रक्षत्विति कथयित्वा स द्वारकां प्रातिष्टत।
पुत्रशतस्य मृत्योः धृतराष्ट्रो हस्तिनापुरप्रासादे विषष्णोऽवर्तत । गान्धारी-युधिष्ठिरादयस्तम् अमिलन्। युधिष्ठिरस्तपसे वनं प्रति स्वां जिगमिषां न्यवेदयत्।
कुन्त्या द्रौपदी समभिहिता – अहं वानप्रस्थग्रहणात् पूर्वमद्य गार्हस्थ्यभारं तुभ्यं समर्पयामि । गान्धारी कुन्तीं ततो न्यवारयत्। कुन्त्योक्तं — सम्प्रति भवत्या सार्धं श्रेयः साधयिष्यामि।
द्वारकायां कृष्णो रुक्मिणीं सत्यभामाश्चाब्रवीत् अहं प्रभासक्षेत्रं गन्तुमिच्छामि । मद्वंश्या इमेऽधर्माचरणात् परस्परकलहपूर्वकं विनष्टाः भविष्यन्ति । अहमपि स्वकीयां नरलीला समापयिष्यामि। नारद आगतः । तस्यातिथ्यं रुक्मिणी-सत्यभामे कृतवत्यौ । ततो निर्गत्य नारदो मदिरापानात् प्रमत्तं नारीवेशधरं साम्बं ददर्श । नारदः साम्बपार्श्वे गतैः यादवैः पृष्ठः - इयं स्त्री पुत्रं सविष्यते उताहो कन्याम्? नारदस्तेषाम् असाम्प्रतमाचरणं वीक्ष्योवाच – एको मुसल उत्पत्स्यते येन युष्माकं सर्वेषां यादवानां नाशो भविता।
अर्जुनो यदा द्वारकाम् आयातस्तदा दारुकस्तम् अब्रवीत् - भगवता भवान् मृतयादवानाम् अन्त्येष्टिसंस्काराय समादिष्टः। अवशिष्टानां नारीणां बालकानाञ्च योग्यस्थाने निवेशनायापि भवानादिष्टः।
अथ द्वारकामागत्य दारुकः युधिष्ठिरमवोचत् - कृष्णेनेहलोकलीला संवृता । द्वारकायां यादवाः विनष्टाः । इदं सर्वं गान्धार्याः शापात् संवृत्तम् । अर्जुनेन निवेदितम - मार्गे यादवमहिला दस्युभिः लुण्ठिताः । शेषाः गृहीत्वाहमायातः । ततो युधिष्ठिरो यादवानां कृते उदकदानब्राह्मणभोजनादिसुकृतं कारयित्वा वनं जिगमिषुः परीक्षितं राज्येऽभिषिक्तवान्।
पञ्चमाङ्के परीक्षित् मृगयार्थमटन् वनलक्ष्मीं ददर्श । सा तं तस्मिन् वने मृगयातो निवारयामास । ततोऽनुचरानन्विष्यन् स शमीकस्य कण्ठे मृतसर्पं प्रक्षेप्य तत्पुत्रेण शप्तः सप्ताहाभ्यन्तरे सर्पदंष्टः सन् मृत्युशापमर्जितवान् । अथ परीक्षिद् गङ्गातटे शुकदेवश्रावितां भागवतकथा शुश्राव । सप्तमेऽह्नि कश्चन ब्राह्मणः पुष्पफलादिपरिपूर्णं भाजनं दधानः तत्सर्वं वस्तु राज्ञे समुपायनीकृतवान्। तस्मात् पुष्पभाजनान्निष्क्रम्य सर्पः परीक्षितं दंष्टवान् । स दिवंगतः।
जनमेजयो नागयज्ञं समनुष्ठितवान्। आस्तीकवचनाज् जनमेजयः तस्माद् घोरकर्मणो विरमति स्म। प्रस्तुतनाटकस्याभिनयः मधुपूर्णिमामहोत्सवे सम्पन्नः । अस्य प्रकाशनं संस्कृतसाहित्यपत्रिकायाः ५० तमे वर्षे सर्वेष्वकेषु तथा ५१ तम-वर्षस्य प्रथमभागे संवृत्तम्।
भरतमेलनम्
[सम्पादयतु]भरतस्य चारित्रिकादर्शं प्रतिष्ठापयितुं कविरिदं नाटकं प्रणीतवान्। रामवनवासादति संतप्तः भरतो रामस्य प्रत्यावर्तनाय प्रातिष्ठत । शृङ्गवेरपुरसमीपे रामस्य सुहृन्निषादराजः ससैन्यं भरतमायान्तं दृष्ट्वा तमाक्रमिणं मत्वा स्वां सेनां सज्जीकृत्याब्रवीत् -
एषा मे शोणितास्वादलोलुपा मर्मघातिनी।
नृत्यतु समरोल्लासाच्छल्यकी शितधारिणी॥
अथ स जटाधारिणं भरतं दृष्ट्वा ब्रूते स्म - अयं तु कश्चित् परित्राजकः । भरतस्तमुक्तवान् – दीनोऽहं रामं द्रष्टुमिच्छामि । गुहराजस्तस्मै रामस्य पर्णशय्यामदर्शयत् । तद् दृष्ट्वा भरतो रुरोद -
क्व बत स्वर्णपर्यङ्के कोमला पुष्पशय्या।
क्व चेह रामभद्रस्य वृक्षमूलाधिवासः।।
अथ सीतामुद्दिश्य सोऽब्रवीत् -
यूथभ्रष्टा मृगी कान्ता चरत्येका यथा वने।
निःसहाया तथार्या मे संश्रितेदं शिलातलम्।।
पञ्चमाङ्के भरद्वाजाश्रमच्छात्राः भरतागमनानध्यायेन प्रसन्ना दृश्यन्ते । षष्ठेऽङ्के भरतश्चित्रकूटाश्रमे रामममिलत् । भरतेनोक्तम्मम मात्रा भवान् वनं प्रतिष्ठाप्य पापमाचरितम् । रामेणाभिहितम् मम माननीयाया जनन्याः कृते नैवं वक्तव्यम् । तदानीमेव कैकेयी रामसमीपमागत्य तमब्रवीत् - अहं भवन्तं वनं प्रतिष्ठा कलङ्कभागिन्यस्मि। भरत उवाच - वयं भवन्तं विना कथं जीविष्यामः ? भवान् स्वं राज्यं गृह्णातु । रामेणोक्तम् - पितुः राज्ञायाः विपरीतमाचरणम् असाम्प्रतं वर्तते । अस्माभिस्तथानुष्ठिते जनकः स्वर्गभ्रष्टो भविष्यति । कैकेय्यापि रामस्य अयोध्यां प्रति प्रतिनिवर्तनं वारं वारं समर्थितम् । रामस्तथा कर्त्तुम् असमर्थतां प्रकटयामास। स भरतमकथयत् - "स्वीकृत्य राजभारं पाल्यता प्रजागणः।" अन्ते भरतेनोक्तम् - तर्हि स्वपादस्पर्शपरिपूतं दीयतां मे पादुकायुगलम् । तदेव रत्नसिंहासने स्थापयित्वा भक्तः प्रतिनिधिः सन् राज्यभारं वक्ष्यामि । रामस्तस्मै पादुकायुगलं समर्पयन्नुवाच -
हे वीर धन्योऽसि गुणैर्वरेण्यैरुदारचेता रघुवंशदीपः।
त्वत्कीर्तिमाल्यं विमलं वहन्ती जाता सुधन्या वसुधा प्रकामम्॥
अथ स भरतमशिक्षयत् - माता कैकेयी सदा समादरणीया । भरतेनोक्तम् -
चतुर्दशैव वर्षाणि यापयामि प्रतीक्षया।
अन्ते चेत्त्वां न पश्येयं प्रवेक्ष्यामि हुताशनम्॥
अथ भरतः सर्वैः सहायोध्यां प्रत्यागच्छत् । अस्य प्रकाशनं मञ्जूषाया १३ तमे वर्षे संवृत्तम्।