रविशङ्कर
रविशङ्करः | |
---|---|
व्यैक्तिकतथ्यानि | |
जन्मनाम | रोबिन्द्रो शौंकोर चौधरी |
मूलतः | बनारस, भारतम् |
वृत्तिः | सङ्गीतकारः |
वाद्यानि | सितारवाद्यम् |
रविशङ्करः भारतीयराष्ट्रियसङ्गीतस्य प्रसिद्धः सितारवादकः आसीत् । सम्पूर्णे विश्वस्मिन् सङ्गीक्षेत्रे रविशङ्करस्य ख्यातिः उत्कृष्टतमा अस्ति । रविशङ्करः विंशतितमायाः शताब्द्याः महत्सङ्गीतज्ञेषु गण्यते । ई. स. १९९९ तमे वर्षे रविशङ्करः भारतस्य सर्वोच्चनागरिकत्वेन भारतरत्नप्रशस्तिः प्राप्ताः । रविशङ्करः भारतीयचलच्चित्रेषु, पाश्चात्यचलच्चित्रेषु च सङ्गीतानि निर्मान्ति स्म । अस्य नाम्नः अग्रे “पण्डित” इति उपाधिः उच्यते । यतः “पण्डितः” इत्युक्ते “विशेषज्ञः(Master)” इति ।
जन्म, परिवारश्च
[सम्पादयतु]ई. स. १९२० तमस्य वर्षस्य अप्रैल-मासस्य ७ दिनाङ्के (७ अप्रैल १९२०) रविशङ्करस्य जन्म वाराणस्याम् अभवत् [१]। तस्य परिवारः बङ्गाली आसीत् । तस्य पितुः नाम श्यामशङ्करः आसीत् । सः तत्र अधिवक्ता आसीत् । तस्य मातुः नाम हेमाङ्गिनी च आसीत् । श्यामशङ्करः इङ्ग्लेण्ड्-देशस्य लण्डन-नगरे अधिवक्तृत्वेन कार्यं कुर्वन् आसीत् । रविशङ्करस्य उदयशङ्करः नामकः अग्रजः आसीत् । उदयशङ्करः प्रसिद्धः नर्तकः अभवत् । रविशङ्करः उदयशङ्करेण सह नृत्यकार्यकमाय विदेशम् अपि गच्छति स्म ।
शिक्षणम्
[सम्पादयतु]रविशङ्करस्य आरम्भिकशिक्षणं गृहे एव अभवत् । तस्मिन् समये “उस्ताद अलाउद्दीन खाँ” प्रसिद्धः सङ्गीतकारः आसीत् । रविशङ्करेण अलाउद्दीन खाँ इत्याख्यः गुरुः मानितः । सः अल्लाह रक्खा खाँ, “किशन महाराज”, “उस्ताद अली अकबर” इत्याख्यैः जनैः सह सम्बद्धः आसीत् । अष्टादशवर्षदेशीये तेन नृत्यं त्यक्तं, सितारवादनम् आरब्धञ्च ।
विवाहः
[सम्पादयतु]ई. स. १९४१ तमे वर्षे एकविंशतिवर्षस्य वयसि रविशङ्करः “अलाउद्दीन खाँ” इत्याख्यस्य पुत्र्या अन्नपुर्णादेव्या सह विवाहम् अकरोत् । ई. स. १९४१ तमे वर्षे एकः पुत्रः प्राप्तः । तस्य नाम शुभेन्द्रशङ्करः इति प्रदत्तम् । किन्तु किञ्चित्समयान्तरे रविशङ्करेण अन्नपूर्णादेवी त्यक्ता । १९४० तमस्य दशकस्य अन्ते रविशङ्करस्य “कमला शास्त्री” इत्याख्यया नर्तक्या सह प्रेमसम्बन्धः आसीत् [२]। अनन्तरं न्युयॉर्क्-देशस्थया सङ्गीतकार्यक्रमस्य निर्मात्र्या “सुई जोन्स्” इत्याख्यया सह प्रेमसम्बन्धः आसीत् । । ई. स. १९७९ तमे वर्षे “नोरह जोन्स्” इत्याख्यः पुत्रः अजायत् । ई. स. १९८१ तमे वर्षे रविशङ्करेण “कमला शास्त्री” इत्याख्या त्यक्ता । ई. स. १९८६ तमवर्षपर्यन्तं सः “सुई जोन्स्” इत्याख्यया सह निवसितवान् । अनन्तरं ई. स. १९८९ तमे वर्षे तेन “सुकन्या राजन” इत्याख्यया सह विवाहः कृतः । रविशङ्करः सुकन्याम् १९७० तमदशकात् जानाति स्म । रविशङ्करः तां हैदराबाद-नगरस्य चिल्कुर-मन्दिरे मिलितवान् आसीत् [३] ।
सङ्गीते अभिरूचिः
[सम्पादयतु]ई. स. १९३९ तमे वर्षे रविशङ्करेण भारते प्रथमवारं कार्यक्रमः आयोजितः । भारतात् बहिः तेन ई. स. १९५४ तमे वर्षे प्रथमवारं तत्कालीने सोवियतसङ्घे कार्यक्रमः कृतः । यूरोपदेशे प्रथमवारम् ई. स. १९५६ तमे वर्षे सः कार्यक्रमः आयोजितवान् । ई. स. १९४४ तमे वर्षे औपचारिकं शिक्षणं प्राप्य सः मुम्बई-नगरं गतवान् । तत्र चलच्चित्रेषु सङ्गीतं प्रदत्तम् आसीत् । १९६० तमस्य दशकस्य मध्ये रविशङ्करेण स्मरणीयाः तिस्रः प्रस्तुतयः प्रदत्ताः । ताः “मॉनटेरी पॉप् फेस्टिवल्”, “कन्सर्ट् फॉर् बाङ्ग्लादेश”, “वुडस्टॉक् फेस्टिवल्” च । ई. स. १९७१ तमे वर्षे “बाङ्ग्लादेश मुक्ति सङ्ग्राम” अभवत् । अतः अस्मिन् सङ्ग्रामे बहवः जनाः बाङ्ग्लादेशात् भारतम् आगतवन्तः । तेषां जनानां साहाय्यार्थं रविशङ्करेण बहून् कार्यक्रमान् कृत्वा धनम् एकीकृतम् । रविशङ्करे भारतीयसङ्गीते अपि बहवः रागाः प्रदत्ताः । तेन भारतीयसङ्गीतं समृद्धम् अभवत् । रविशङ्करेण परमेश्वरी-रागः, कामेश्वरी-रागः, गङ्गेश्वरी-रागः, जोगेश्वरी-रागः, वैरागीतोडी-रागः, कौशिकतोडी-रागः, मोहनकौंस-रागः, रसिया-रागः, मनमञ्जरी-रागः,पञ्चम-रागः इत्यादयः नूतनरागाः निर्मिताः । एतेषु रागेषु वैरागी-रागः, नटभैरव-रागश्च अत्यन्तः लोकप्रियः जातः ।
सङ्गीतनिर्देशकत्वेन रविशङ्करः
[सम्पादयतु]रविशङ्करेण भारतदेशे, कनाडा-देशे, यूरोप-देशे तथा अमेरिका-देशे च चलच्चित्रेषु सङ्गीतानि निर्मितानि आसन् । “चार्ली”, “गान्धी”, “अपू त्रिलोगी” एते चलच्चित्राणि प्रसिद्धानि सन्ति । तेभ्यः चलच्चित्रेभ्यःझ् तेन स्वस्य सङ्गीतं प्रदत्तम् । “अपू त्रिलोगी” इत्यस्य चलच्चित्रस्य निर्देशकः सत्यजीत राय इत्याख्यः आसीत् । चलच्चित्रमिदं बङ्गाली-भाषायाम् अस्ति । हिन्दीभाषायाः “अनुराधा” इति नामके चलच्चित्रे अपि रविशङ्करेण एव सङ्गीतं निर्मितम् । “गान्धी” इत्यस्य चलच्चित्रस्य निर्देशकः “रिचर्ड् एटिनबरा” इत्याख्यः आसीत् । तस्मिन् चलच्चित्रे अपि रविशङ्करस्यैव सङ्गीतम् अस्ति । तेन बहुषु पाश्चात्यचलच्चित्रेषु अपि सङ्गीतानि निर्मितानि सन्ति ।
सम्माननं, पुरस्काराश्च
[सम्पादयतु]ई. स. १९६२ तमे वर्षे रविशङ्करः सङ्गीतनाटक-अकादमीपुरस्कारः प्राप्तवान् । ई. स. १९६७ तमे वर्षे भारतसर्वकारेण तस्मै पद्मभूषण-प्रशस्तिः प्रदत्ता । ई. स. १९७५ तमे वर्षे रविशङ्करेण पद्मविभूषण-प्रशस्तिः प्राप्ता । ई. स. १९८७ तमे वर्षे मध्यप्रदेशसर्वकारेण रविशङ्करेण कालिदाससम्मानं प्राप्तम् । ई. स. १९९९ तमे वर्षे भारतसर्वकारेण सर्वोच्चनागरिकत्वेन रविशङ्कराय भारतरत्नप्रशस्तिः प्रदत्ता आसीत् । रविशङ्करः संयुक्तराष्ट्रसङ्घान्तर्गतानांसङ्गीतज्ञानां कस्याश्चि संस्थायाः सदस्य आसीत् । सः बहून् ग्रेमी-पुरस्कारान् प्राप्तवान् । तेषु पुरस्कारेषु १९६७ तमे वर्षे पुरस्कारद्वयं प्राप्तम् [४]।
मृत्युः
[सम्पादयतु]ई. स. २०१२ तमस्य वर्षस्य दिसम्बर-मासस्य ६ दिनाङ्के (६ दिसम्बर २०१२) रविशङ्करः अमेरिका-देशस्य “सैन डिएगो” इत्यस्य नगरस्य “स्क्रिप्स् मेमोरियल्” इत्यस्मिन् चिकित्सालये उपचारार्थं नीतः । श्वासोच्छ्वासे सः कष्टमनुभवति स्म । तस्मै श्वसनतन्त्रे पीडा जायते स्म । हृदयपरिवर्तनक्रियायां सत्यां सः मृतङ्गतः । ई. स. २०१२ तमस्य वर्षस्य दिसम्बर-मासस्य ११ दिनाङ्के (११ दिसम्बर २०१२) सांयकाले सार्धचतुर्वादने (४:३० PM) रविशङ्करस्य मृत्युः अभवत् । यदा तस्य मृत्युः अभवत्, तदा सः ९२ वर्षदेशीयः आसीत् । रविशङ्करस्य निधने सति तत्कालीनेन प्रधानमन्त्रिणा मनमोहनसिंहेन उक्तं यत् – “रविशङ्करः राष्ट्रियसम्पत्तिः आसीत् । रविशङ्करस्य निधनेन सह अस्य युगस्य अपि अन्तः जातः” इति [५]।
पुरस्काराः
[सम्पादयतु]भारतसर्वकारः पण्डितं रविशङ्करं क्रि.श.१९६७ तमे वर्षे पद्मभूषणम् इति उपाधिना क्रि.श.१९९९तमे वर्षे भारतरत्नम् इति उपाधिना सम्मानयत् ।
- अस्य कौटुम्बिकसङ्गीतज्ञाः
विशेषावलोकनम्
[सम्पादयतु]बाह्यानुबन्धाः
[सम्पादयतु]विकिमीडियाकोषे रविशङ्कर अनेन सम्बद्धमाध्यमाः सन्ति। |
- रविशङ्करस्य आधिकारिकजालपुटम्
- अस्य आत्मवृत्तान्तः - My music, My life
- क्रि.श.२०००तमे वर्षे बी.बी.सी. द्वारा निर्मितं गीतगु़च्छम् ।
- रविशङ्करस्य सन्दर्शनम् Archived २००८-०५-०९ at the Wayback Machine
- अस्य ८५तमवर्षस्य जन्मदिनस्य सन्दर्शनम्
- EMI जीवनम् Archived २०१०-०४-०५ at the Wayback Machine
- अस्य सेस्टिना Archived २०१०-०७-०९ at the Wayback Machine
- रविशङ्करस्य नित्यनूतनानि वाद्यगीतानि। Archived २०१०-०६-१२ at the Wayback Machine
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. - ३४८
- ↑ "Hard to say no to free love: Ravi Shankar". Press Trust of India. Rediff.com. 13 May 2003. आह्रियत 18 July 2009.
- ↑ "Balaji temple in Hyderabad was stage for Pandit Ravi Shankar's secret wedding". The Times of India. आह्रियत 13 December 2012.
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३५१-३५२
- ↑ हमारे भारत रत्न विजेता, डॉ. एम् जे बन्धिया, प्रो. हितेष डी. वैष्णव, पृ. – ३५२-३५३