सामग्री पर जाएँ

कर्णाटकसङ्गीतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Hindustani classical music
Concepts

ShrutiSwaraAlankarRagaTalaThaatGharana

Instruments

melody: VocalsSitarSarodSurbaharRudra veenaViolinSarangiEsraj/DilrubaBansuriShehnaiSantoorHarmoniumJal tarang

rhythm: TablaPakhawaj

drone: TanpuraShruti boxSwarmandal

Genres

classical: DhrupadDhamarKhyalTaranaSadra

semiclassical: ThumriDadraQawwaliGhazalChaitiKajri

Thaats

BilavalKhamajKafiAsavariBhairavBhairaviTodiPurviMarwaKalyan

भारतीयसाम्प्रदायिकसङ्गीतस्य प्रकारद्वयम् -कर्णाटकसङ्गीतं,हिन्दुस्थानीसङ्गीतम् । कर्णाटकशास्त्रीयसङ्गीतं (Carnatic Classical Music) दक्षिणभारते विद्यमान: प्रकार:। उत्तरभारतस्य सङ्गीतप्रकार: हिन्दुस्थानीसङ्गीतं इति प्रसिद्धम् ।

बाहुलीना

कर्णाटकसङ्गीतस्य परिचयः

[सम्पादयतु]

संस्कृतवाङ्मये विद्यमानौ ज्ञानराशौ सङ्गीतशास्त्रमपि अन्यतमम् । भारतीयसङ्गीतशास्त्रस्य विषये सामवेदे छान्दोग्योपनिषदि बृहदारण्यकोपनिषदि च विवरणानि उपलभ्यन्ते । अतः सङ्गीतशास्त्रस्य विकासः क्रि. पू. द्वितीयशतमानतः पूर्वादेव दृश्यते । अस्याः पुरातनकलायाः विषये उल्लेखः विविधदेवानां कथासु बहुधा दृश्यते । श्वेतकमलासना वीणापाणी धृतपुस्तका धृतजपमाला सरस्वती देवी सङ्गीतकलायाः आराध्यदेवता अस्ति । सङ्गीतशास्त्रस्य मूलऋषिः अस्ति भरतमुनिः । एतां गन्धर्वविद्यां भरतमुनिः अप्सरसाः अपाठयत् । नारदमुनिः मानवान् अपाठयत् इति पुराणेषु उल्लेखः लभ्यते ।

अधाराः

[सम्पादयतु]

वेदोपनिषत्सु पुराणेषु च सङ्गीतशास्त्रस्य उल्लेखः आसीत् इत्येतस्य प्रमाणम् उपलभ्यते पाणिनेः (क्रि.पू. ३७६) ग्रन्थेषु । अयम् अंशः रामायणे (क्रि.पू. ४००) महाभारते च उल्लिखितः अस्ति ।
सङ्गीतशास्त्रस्य आकरग्रन्थः वर्तते - शाङ्ञदेवेन विरचितः सङ्गीतरत्नाकरः (१३ शतमानम्) । अयं ग्रन्थः वाग्गेयकाराणां सङ्गीतज्ञानां सङ्गीतजिज्ञासूनाञ्च परमसाहायकः ग्रन्थः वर्तते । कर्णाटकसङ्गीतं प्रमुखतः दक्षिण भारतस्य कर्णाटक-तमिळनाडु-केरळ-आन्ध्रप्रदेशेषु दृश्यते । अस्मिन् प्रकारे गायनस्य, अभिगीतसङ्गीतस्य च प्रामुख्यं भवति । यदा वाद्येभ्य: वादितं, तदापि 'गायकी'रीत्या (यथा अभिगीतं तथा) वादितं भवति । हिन्दुस्थानी, कर्णाटकीयप्रकारौ श्रुति-स्वर-ताल-रागाधारितौ । हिन्दुस्थानी सङ्गीतॆ रागस्य विस्तारण गायनस्य प्रामुख्यं भवति । परन्तु कर्णाटक सङ्गीतॆ भक्ति, विद्या, एवं तत्व बोधन साहित्य कृतीनाम् अथवा कीर्तनानां प्रामुख्यं भवति । साहित्यस्य उपयोगेन रागभावविस्तृतगानं 'नेरवल्' इति प्रसिद्धम् । एषा कीर्तनशैली १६ तथा २० तमशतकयो: मध्ये पुरन्दरदास:-त्यागराजस्वामिन:-मुद्दुस्वामिदीक्षितवर्य:-श्यामशास्त्रि: -इत्यादिभि: विकासिता । पुरन्दरदास: सङ्गितपितामह: अस्ति इति मान्यतॆ । त्यागराजस्वामिन: , मुद्दुस्वामिदीक्षितवर्य: , एवं श्यामशास्त्रि: कर्णाटकसङ्गीतत्रयं, एवं त्रिमूर्ती इति नाम्ना बहवा मान्यतॆ । एतॆ समकालिका: अपि - तेषां जननं तमिळनाडु राज्यॆ तञ्जावूर् जिल्लाया: तिरुवारूर् ग्रामॆ आसीत् । साधारणत: गान / वादक कचेरि इति बहु प्रसिद्धम् । एतस्मिन् गान / वादक शृङ्खला एवम् भवति :- रागविस्तारणम् - कीर्तनगानम् - नेरवल् - कल्पनस्वरगानम् - ताळवाद्य विस्तृतावर्तनम् । एका अन्य प्रक्रिया रागं-तानं-पल्लवी इत्यपि प्रसिद्धम् । एषायां प्रक्रियायां रागविस्तारणं - ताळजतिसहितगानं "तानं" - एका पल्लवी स्वीकृत्य रागभाव विस्तृतगानं - ताळवाद्य विस्तृतावर्तनम् इति पद्धति प्रसिद्धम् ।

सामान्यत: कर्णाटकसङ्गीतं गायक-वादक-वाद्ययो: लघुसमाहारेण समुत्पाद्यते, यस्मिन् एक: मुख्यसङ्गीतकार: (सामान्यत: गायक: / गायिका, वीणा / वेणु / जलतरङ्गं वादक: ), एकं स्वरवाद्यं (सामान्यत: बाहुलीना 'Violin' - केवलं गात्रसङ्गीतं कृतॆ एव ), एकं ताळवाद्यं (सामान्यत: मृदङ्गं) तथा एका श्रुतिवाद्यं 'तम्बुरा' च भवन्ति । आधुनिकदिनेषु सामान्यत: तम्बुराया: स्थाने विद्युत् श्रुतिपेटिका उपयुज्यते ।

'मृदङ्गम्

बाहुलीना पाश्चात्यदेशवादयमासीत् । एषाया: कर्णाटकसङ्गीतॆ प्रवेश: रामस्वामिदीक्षितवर्येन कृतम् । तस्य द्वितीय पुत्र: बालुस्वामिदीक्षितवर्य: बाहुलीनाया: प्रप्रथम विद्वान् आसीत् । अन्यानि सामान्यत: प्रयुज्यमानानि स्वर-ताल-वाद्यानि नादस्वरं, क्लारिनेट् , मद्दळ: , घटं, कञ्जीरा, मोहरसिङ्ग् च भवन्ति। इदानीं माण्डोलिन् , साक्सोफोन् ,'गिटार्' (Guitar) तथा संगीतसंज्ञाफलक: (Synthesizer keyboard) अपि कर्णाटकसङ्गीते उपयुज्यमाना: विद्यन्ते । नादस्वर, क्लारिनेट् एवं साक्सोफोन् कृतॆ केवलं मद्दळ वाद्यं ( एकं वा द्वयं वा ) भवति ।

कर्णाटकसङ्गीतकाराणाम् अधिकतमा उपस्थितिः, तत्सङ्गीतस्य उत्कृष्टप्रदर्शनानि च भारतस्य तमिऴ्नाडु राज्ये विद्यमाने चेन्नैमहानगरे भवन्ति । मार्गशीर्षमासे (तमिऴभाषायाम् सौरमानपञ्चाङ्ग प्रकारॆ 'मार्गऴि - Mārgazhi', as per the solar calender from December, 15 to January,14 approximately) चेन्नैमहानगरे भूयमान: षड्सप्ताहात्मकः सङ्गीतोत्सव: (December Music Season ) जगत: महतमः सांस्कृतिकः उत्सव: इति प्रसिद्धः। अस्मिन् उत्सवे प्राधान्यत: कर्णाटकशास्त्रीयसङ्गीतस्य एव गानं-भाषणं-नृत्यं-प्रदर्शनानि भवन्ति ।

तिरुवैय्यार् ग्रामॆ प्रतिवर्षॆ जनवरि मासॆ शुद्ध बहुळ पञ्चम्यां तिथ्याम् बहुजनविद्वत्समूहेन (लक्षाधिकेन ) त्यागराज पञ्चरत्नकीर्तनगानं अञ्जलिप्रदानं इति लोकप्रसिद्धा सन्दर्शनीया संघटना ।

जाति: इतिहासश्च

[सम्पादयतु]

१३ शतकात् आरभ्य भारतीयशास्त्रीयसङ्गीतं द्विविधं जातम् । उत्तरभारते इस्लाम् तथा पारसीक प्रभावात् 'हिन्दुस्थानी' संगीतम् कर्नाटकसंगीतात् भिन्नम् अभवत् ।

प्रमुखा: वाग्गेयकारा:

[सम्पादयतु]


अन्या: प्रमुखा: वाग्गेयकारा:

[सम्पादयतु]

ग्रन्था:

स्वरार्णवम् चतुर्दण्डिप्रकाशिका स्वरमेळकलानिधि: दीक्षित कीर्तन प्रकाशिका

विशेषावलोकनम्

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कर्णाटकसङ्गीतम्&oldid=440887" इत्यस्माद् प्रतिप्राप्तम्