सामग्री पर जाएँ

एच् डी देवे गौडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(एच्. डी. देवे गौडा इत्यस्मात् पुनर्निर्दिष्टम्)
हरदनहळ्ळि दोड्डेगौड देवेगौडः
भारतस्य द्वादशः प्रधानमन्त्री
कार्यालये
1 जून् 1996  21 एप्रिल् 1997
राष्ट्रपतिः शङ्कर दयाल शर्मा
पूर्वगमः अटल बिहारी वाजपेयी
पादानुध्यातः इन्द्र कुमार गुजराल
गृहमन्त्री
कार्यालये
1 जून् 1996  29 जून् 1996
पूर्वगमः मूरली मनोहर जोषी
पादानुध्यातः इन्द्रजित् गुप्त
कर्णाटकस्य मुख्यमन्त्रिणः
कार्यालये
11 डिसेम्बर् 1994  31 मे 1996
Governor खुर्षिद् अलम् खान्
पूर्वगमः वीरप्प मोयिली
पादानुध्यातः जे एच् पटेल्
व्यक्तिगत विचाराः
जननम् (१९३३-२-२) १८ १९३३ (आयुः ९२)
हरदनहळ्ळि, मैसूरुराज्यम्, ब्रिटिश्-शासनम्
(अधुना कर्णाटकम्, भारतम्)
राष्ट्रीयता भारतीयः
राजनैतिकपक्षः जात्यतीतजनतादलम्
अन्यराजनैतिक-
सम्बन्धः
भारतीय राष्ट्रिय काङ्ग्रेस् (१९६२ तः पूर्वम्)
स्वतन्त्रराजकीयनेता (१९६२-१९७७)
जनतापक्षः (१९७७-१९८८)
पतिः/पत्नी चन्नम्मा देवे गौड
अपत्यानि ४ पुत्राः
द्वे पुत्र्यौ[]
मुख्यशिक्षणम् एल् वि पालिटेक्निक् कालेज्
धर्मः हिन्दुधर्मः
हस्ताक्षरम्
जालस्थानम् एच् डी देवे गौडा
As of feb, 2012

हरदनहळ्ळि दोड्डेगौड देवेगौडः भारतस्य द्वादशः प्रधानमन्त्री आसीत् । देवे गौडः हासनमण्डलस्य होळेनरसीपुरोपमण्डलस्य हरदनहळ्ळि इति ग्रामे क्रि.श. १९३३तमे वर्षे अजायत । अस्य मातुः नाम लक्ष्मीदेवम्मा, पिता दोड्डेगौडः। दोड्डे गौडस्य द्वे भार्ये आस्ताम् । प्रथमा भार्या ईरम्मा । अनया दोड्डेगौडः त्रीणि अपत्यानि प्राप्तवान् । अस्याः अकालमरणकारणेन द्वितीयां लक्ष्मीदेवम्माम् ऊढवान् । दोड्डेगौडः अनया द्वितीयया देवगौडः अक्कय्यम्म, बसवेगौड पुट्टम्मा इति अपत्यानि प्राप्तवान् । दोड्डेगौड: देवेगौडस्य जन्मनः अनन्तरं जातकं लेखितवान् । अयम् अग्रे राजनैतिकक्षेत्रे कीर्तिमान् भाविष्यति इति जातके आसीत् ।

बाल्यं शिक्षणञ्च

[सम्पादयतु]

देवेगौडस्य बाल्यकालः हरदनहळ्ळी इत्येतस्मिन् ग्रामे एव यापित: । देवेगौडस्य प्राथमिकविद्याभ्यास: हरदनहळ्ळि ग्रामस्य विद्यालये अभवत् । अनन्तरं माध्यमिकविद्याभ्यासं हळेकोटेविद्यालये कृतवान् । होळेनरसिपुरस्य पुरसभाविद्यालये प्रौढशाला शिक्षणं प्राप्तवान् । सः पठने अपि अग्रे आसीत् । क्रि.श. १९५२तमे वर्षे हासने पालिटेक्निक् महाविद्यालयं प्रविश्य सिविल् इञ्जिनीरिङ्ग् डिप्लोमा कृतवान् । नायकत्वगुणः अनेन जन्मना एव प्राप्तः । अध्ययनस्य वर्षत्रयमपि विद्यार्थिसङ्घस्य अध्यक्षः आसीत् ।

उद्योगः

[सम्पादयतु]

तस्मिन् काले हरदनग्रामे डिप्लोमाशिक्षणं प्राप्तवान् जनः देवेगौड: एक: एव आसीत् । एतावद् अधीतवत: देवेगौडस्य कृते उन्नतकार्यमेव लभ्यते स्म किन्तु देवेगौड: पूर्वारभ्य अन्यस्य अधीन: भवितुं न इच्छति स्म । अत: स: सर्वकारीयकार्यालये इञ्जिनियरिङ्ग् कार्यं कर्तुं न इष्टवान् । देवेगौड: डिप्लोमा इञ्जिनियर् भूत्वा उद्योगं कुर्वन् अपि कृषिकार्ये स्वस्य आसक्तिं रक्षितवान् आसीत् । एष: स्वस्य कुटुम्बस्य क्षेत्रम् उत्तमं कर्तुं बहु प्रयत्नं क्रतवान् । सर्वकारीयोद्योगतः प्राप्तं लाभं नारीकेलवाटिकायाः निर्माणाय व्ययितवान् । विद्यावान् एष: सर्वकाकारीयकार्यालये कार्यं कुर्वन् आनन्देन भवितुं शक्यते स्म किन्तु एष: क्षेत्रे, नारीकेलवाटिकायां च कार्यं कुर्वन् मण्णिन मग (मृत्तिकाया: पुत्र:) इति नाम प्राप्तवान् ।

उद्योगप्राप्तेः अग्रिमे वर्षे तन्नाम १९५४तमे वर्षे मे मासे हासनस्य मुत्तिगे ग्रामस्य प्रमुखस्य पुत्र्या चेन्नम्मया सह विवाह: अभवत् । चेन्नम्मा दैवभक्ता सद्गृहिणी च । तयोः ६अपत्यानि - बालकृष्णः, रमेशः, रेवणणः, कुमारस्वामी च पुत्राः अनसूया, शैलजा च पुत्र्यौ ।

राजनैतिकक्षेत्रप्रवेशः कार्याणि च

[सम्पादयतु]

९६२ तमे वर्षे राज्यस्य निर्वाचनम् आसीत् । तदा देवेगौडस्य राजनैतिकक्षेत्रीयगुरु: ए. जि. रामचन्द्रराय: होळेनरसीपुरक्षेत्रस्य अभ्यर्थी आसीत् । वय: अधिकः जात: इत्यतः स: स्वस्य आत्मीयः शिष्य: देवेगौड: अभ्यर्थी भवतु इति चिन्तितवान् । किन्तु काङ्ग्रेस्-वरिष्ठा: इदं न इष्टवन्त:। अत: देवेगौड: पक्षेतर-अभ्यर्थी भूत्वा विजयं प्राप्तवान् । १९६२ तमे वर्षे देवेगौड: प्रथम वारं रज्यसभाया: कृते चितः अभवत् । तदा स्वस्य निर्भीतभाषणैः सवेर्षाम् अवधानम् आकृष्टवान् आसीत् । हारङ्गी-योजना, लघु-नीरावरीयोजना, हासन-मङ्गळूरुरैलमार्ग:, ग्रामीणगृहयोजना इत्यादीषु तस्य योगदानं महत्त्वयुतम् आसीत् । १९६७ तमे वर्षे हेमावतीयोजनायाः कार्यान्वयने तस्य विशेषपरिश्रमः आसीत् । अग्रे १९८३ तमे वर्षे हेमावतीयोजनां हासनं, मैसूर्, मण्ड्या, तुमकूर् जनपदेषु विस्तारितवान् ।
देवेगौड: स्वस्य राजकीयगुरोः ए. जि. रामचन्द्ररायस्य नाम हेमावतीजलाशयस्य तीराय स्थापितवान् । तथैव हासनजनपदस्य जेष्ठस्वातन्त्र्ययोधस्य प्रसिद्धलेखकस्य गोरूरुरामस्वामी अय्यङ्गारस्य नाम दक्षिणतीराय स्थापयित्वा तयो: नामं शाश्वतं कृतवान् । जलसम्पदः विषये विशेषास्थावान् सः कृष्णानदीजलाशययोजना: समापयितुं 'कृष्णजलभाग्यनिधिं' स्थापितवान् । यदा देवेगौड: १९९२ तमे वर्षे लोकसभासदस्य: आसीत् जलवितरणविवादविषये अध्ययनं कृत्वा केन्द्रसर्वकारस्य नायकान् चकितान् अकारयत् । १९९१ तमे वर्षे लोकसभानिर्वाचनम् अभवत् । तदा देवेगौड: हासनलोकसभाक्षेत्रस्य परतया समाजवादीजनतादलस्य अभ्यर्थी सन् स्पर्धायां विजयं प्राप्तवान् । प्रथमवारं लोकसभां प्रविष्टवान् । १९९३ तमे वर्षे जनतादल-समाजवादीजनतादलपक्षयो: विलीनं जातम् । नूतनस्य पक्षस्य अध्यक्षरूपेण एषः चितः जातः ।

कार्यक्रमस्य उद्घाटनं कुर्वन् देवेगौडः

कर्णाटकमुख्यमन्त्री

[सम्पादयतु]

१९९४ तमे वर्षे राज्यविधानसभानिर्वाचनम् अभवत् । तस्मिन् समये जनतादलपक्ष: राज्यस्य सर्वस्थानेषु स्वस्य आभ्यर्थीन् न्ययोजयत् । अध्यक्ष: देवेगौड: पक्षस्य विजयप्राप्त्यै निरन्तरकार्यं कृतवान् । तस्य फलरूपेण जनतापक्ष: ११६ स्थानेषु जयं प्राप्य सर्वकारस्य रचनाय अधिकारां प्राप्नोत् । १९९४ तमे वर्षे डिसेम्बर् मासस्य ११ दिनाङ्के देवेगौड: कर्नाटकस्य चतुर्दशः मुख्यमन्त्रिरूपेण अधिकारं स्वीकृतवान् ।
कर्णाटकराज्यस्य मुख्यमन्त्री सन् सः सर्वग्रामं प्रति पानजलस्य व्यवस्थां कृतवान् । 'आवारयोजना’ एतादृश: सेवा नियमान् रचयित्वा विकलाङ्गानां कृते स्वयम् उद्योगं कर्तुं व्यवस्थां कृतवान् । अपि च अशक्त महिलानां कृते 'स्वशक्ति’योजना, निर्धनानां कृते 'आरोग्यनिधि’योजना, प्रति जनपदे 'मोरार्जी वसतिशाला’, कृषिकाणां कृते ऋणस्य वृद्ध्या: विमोचनम्, इत्यादी: जनकल्याणयोजनानाम् अनुष्ठापनं कृतवान् ।
साहित्यक्षेत्रे महिलालेखिकानां प्रोत्साहनाय प्राचीनकन्नडकवयित्र्याः नाम्ना 'अत्तिमब्बे' प्रशस्तिं स्थापितवान् । 'जनतादर्शनम्' इति कार्यक्रमत: सः जनानां समस्यां ज्ञात्वा ताः परिहर्तुं शक्त: अभवत् ।
एकस्याः व्यक्ते: कृते एकमेव स्थानं भवेत् इति तत्वाधारेण देवेगौड: यदा मुख्यमन्त्री अभवत् तदा स्वस्य लोकसभासदस्यत्वं प्रति त्यागपत्रं दत्त्वा राज्यस्य जनतादलस्य अध्यक्षस्थानाय सि. एस्. इब्राहिमं चितवान् । भारते मुक्त-आर्थिकनीतेः स्थापनं मुख्यम् इति चिन्तयता तेन १९९१ तमे वर्षे भारतसर्वकारस्य उदारीकरणनीते स्वीकरणाय सहकारी जातः ।

भारतस्य प्रधानमन्त्री

[सम्पादयतु]

१९९६ तमे वर्षे जून् प्रथमदिनाङ्के हरदनहळ्ळी दोड्डेगौड देवेगौड: भारतस्य द्वादश: प्रधानमन्त्री भूत्वा राष्ठ्रपत्यु: हस्तात् अधिकारं स्वीकृतवान् । कर्नाटकस्य मुख्यमन्त्रिपदं त्यक्तवान् देवेगौड: भारतस्य प्रधानमन्त्री सन् अनेकसमस्याः समर्थरीत्या परिहृतवान् । तत्रापि स्वस्य लक्ष्यं स्मरन् कृषिकानाम् अभिवृद्धिविषये चिन्तितवान् । भारतस्य प्रधानी सन् दश मासा: तेन यापिताः । तावता काङ्ग्रेस् (अइ)पक्षस्य अध्यक्ष: सीतारां केसरी महोदय: संयुक्तरङ्गपक्षस्य कृते दत्तं सहकारं प्रतिस्वीकृतवान् । तस्मात् देवेगौडस्य सर्वकार: पतित: । अत: स: १९९७ तमे वर्षे एप्रिल्-मासस्य २१ तमे दिनाङ्के भारतस्य प्रधानमन्त्रिस्थानाय त्यागपत्रं दत्तवान् ।

राष्ट्रस्य राजनैतिके क्षेत्रे उत्तमं कार्यं कृतम् इत्यतः तस्य कृते न्याषनल् प्रेस् इण्डिया १९९५ तमे वर्षे जुलै २३ तमे दिनाङ्के भारत सूर्यप्रशस्तिं दत्त्वा सम्माननम् अकरोत् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
भारतस्य प्रधानमन्त्रिणः
पूर्वतनः
अटल बिहारी वाजपेयी
एच् डी देवे गौडा अग्रिमः
इन्द्र कुमार गुजराल
  1. "JDS LEADERS – Page 2". Janata.in. Archived from the original on 2018-08-16. आह्रियत 2012-08-04.
"https://sa.wikipedia.org/w/index.php?title=एच्_डी_देवे_गौडा&oldid=490690" इत्यस्माद् प्रतिप्राप्तम्