डि देवराज अरसु
डि देवराज अरसु | |
---|---|
अष्टमः कर्णाटकस्य मुख्यमन्त्री | |
In office 20 मार्च् 1972 – 31 डिसेम्बर् 1977 | |
Preceded by | राष्ट्रपतिशासनम् |
Succeeded by | राष्ट्रपतिशासनम् |
In office 28 फेब्रवरी 1978 – 7 जनवरी 1980 | |
Preceded by | राष्ट्रपतिशासनम् |
Succeeded by | आर् गुण्डूराव् |
व्यैय्यक्तिकसूचना | |
Born |
20 आगस्ट् 1915 मैसूरु, मैसूरुराज्यम् (अद्यत्वे कर्णाटके विद्यते) |
Died | 1982 |
Political party |
भारतीयराष्ट्रियकाङ्ग्रेस् भारतीयराष्ट्रियकाङ्ग्रेस् (अरस्) |
डि देवराज अरसु (२० आगस्ट् १९१५-१९८२) भारतीयराजकीयनेतृषु अन्यतमः यः दक्षिणभारते विद्यमानस्य कर्णाटकराज्यस्य अष्टममुख्यमन्त्रिरूपेण पर्यायद्वये उत्तरदायित्वं निरवहत् । भारतीयराष्ट्रियकाङ्ग्रेस् पक्षस्य मैसूरुप्रदेशस्य नायकः आसीत् । परिशिष्टवर्गस्य जनानाम् उन्नत्यै तेन यत् कार्यं कृतं तन्निमित्तं सः विशेषतया स्मर्यते ।
व्यक्तिगतजीवनम्
[सम्पादयतु]देवराज अरसु मण्डयमण्डलस्य हुणसूरुतालुकु कल्लळ्लि ग्रामे क्रि.श.१९१५तमे वर्षे अगष्ट् मासस्य २०दिने मैसूरुसंस्थानसम्बद्धे अरसु कुले सञ्जातः । पितुः नाम अपि देवराजः मातुः नाम देवीरम्मण्णि इति । देवीरम्मण्णिमहाभागायाः सहोदराः नासन् इति कारणेन बेट्टदपुरस्य देवराज अरसुः गृहजामाता इव कल्लळ्लिग्रामे श्वशुरगृहे एव न्यवसत् ।
देवीरम्मण्णिदेवराजु-दम्पत्योः पुत्रौ सञ्जातौ । एकः देवराजः अपरः केम्पराजः च । यदा केम्पराजः अष्टवर्षीयः आसीत् तदा पिता देवराजः दिवङ्गतः । देवीरम्मण्णि एव स्वक्षेत्रे अन्येषां धान्यसहाय्येन कृषिं कृतवती । कल्लळ्लिग्रामे एव अस्य देवराजस्य प्राथमिकी शिक्षा समाप्ता । योगं व्यायामं च कृत्वा मल्लपटुः इव देहदार्ढ्यं सम्पादितवान् । अरण्ये मृगयात्रा तस्य व्यसनम् आसीत् । मैसूरुनगरे इण्टर्मीडियेट् शिक्षां प्राप्य बेङ्गळूरुनगरे सेण्ट्रल् महाविद्यालयात् बि.एस्.सि.पदविम् अवाप्नोत् । स्वयं कृषिकर्म कृतवान् । गोपालनवृत्तिम् अपि आरभ्य स्वयं द्विचक्रयानेन गोजन्यवस्तूनि हुणसूरुपत्तनं प्रापयति स्म ।
युवा देवराज अरसुमहाभागः क्रि.श.१९४३तमे वर्षे पिरियारपट्टणसमीस्य कोगिलूरुग्रामस्य स्वजातियां कन्यां चिक्कम्मण्णिं परीणीतवान् । तयोः मधुरदाम्पत्यफलरूपेण तिस्रः पुत्र्यः सञ्जाताः ।
राजकीयप्रवेशः
[सम्पादयतु]सर्वदा देशस्य स्वातन्त्रविषये एव चिन्तयतः तस्य सुभाश्चन्द्रबोस् विषये अतीव प्रीतिः आसीत् । अतः कालक्रमेण राजकीयात् आकृष्टः । क्रि.श. १९३७तमवर्षस्य अनन्तरं मैसूरुराजकीयपरिस्थितिः परिवर्तिता । क्रि.श. १९४१तमे वर्षे मैसूरुमहाराजेन पोषितदलस्य विरुद्धं काङ्ग्रेस् प्रजाप्रतिनिधिसभायाः अभ्यर्थिरूपेण देवराज अरसुमहोदयः चितः । विधानसभानिर्वाचने हुणसूरुक्षेत्रे विजयी अभवत् । क्रि.श. १९४२तमे वर्षे अस्य सहोदरः केम्पराजः कारागृहं प्रेषितः । किन्तु देवराज अरसुमहोदयं न बद्धवन्तः ।
प्रजाप्रतिनिधिसभायाः सदस्येषु अधिकाः युवानः एव आसन् । क्रि.श. १९४५तमे वर्षे यदा देवराज अरसु महोदयः प्रजप्रतिनिधिसभायाः निर्वाचने स्पर्धित्वा वीजयं प्राप्तवान् तदा अस्य आयुः २६वर्षाणि एव । क्रि.श.१९४७तमे वर्षे सञ्चालितस्य “मैसूरु चलो” आन्दोलनस्य पोषकः अभवत् । क्रि.श.१९५२तमे वर्षे निर्वाचने अभ्यर्थी भूत्वा जितः सः विधानसाभां प्रविष्टवान् । क्रि.श.१९५७तमे वर्षे पुनः चितः । क्रि.श.१९६२तमे वर्षे हुण्सूरुक्षेत्रे काङ्ग्रेस् पक्षस्य अभ्यर्थी भूत्वा अविरोधेन चितः । तदा निर्वाचने पराजितः एस्.निजलिङ्गप्पमहोदयः मुख्यमन्त्री न भवेत् इति उक्त्वा धैर्यं प्रदर्शितवान् अरसु महोदयः एव । तदा एस्.आर्.कण्टीमहोदयः तात्कालिकः मुख्यमन्त्री अभवत् । मासचतुष्टयानन्तरं प्रचालिते उपनिर्वाचने निजलिङ्गप्पमहोदयः जितः मुख्यमन्त्री अभवत् । तस्य सचिवसम्पुटे देवराज अरसुमहोदयः वाहनसञ्चारविभागस्य मन्त्री अभवत् । अनेन सह पशुसङ्गोपनम्, वार्ता, मत्स्योद्यमः, चीनांशुकम् च विभागान् अपि परिपालितवान् ।
अग्रिमाध्ययनाय
[सम्पादयतु]- Devaraj Urs had ushered in a `silent social revolution' Archived २०१२-१०-२६ at the Wayback Machine at The Hindu
- Contribution of Devaraj Urs remembered Archived २०१२-१०-२६ at the Wayback Machine at The Hindu
- [१] at Prajavani