सामग्री पर जाएँ

रामकृष्ण हेगडे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Ramakrishna Hegde
10th Chief Minister of Karnataka
In office
10 January 1983  10 August 1988
Preceded by R. Gundu Rao
Succeeded by S. R. Bommai
व्यैय्यक्तिकसूचना
Born (१९२६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-२९)२९, १९२६
Siddapur, Uttara Kannada
Died स्क्रिप्ट त्रुटि: फंक्शन "death_date_and_age" मौजूद नहीं है।
Bengaluru, Karnataka,India
Political party Janata Dal, Lok Shakti
Spouse(s) Shakuntala Hegde

उत्तरकन्नडमण्डलस्य सिद्धपुरोपमण्डलस्य केन्द्रतः १७कि.मी दूरे विद्यमाने दोड्मने इति लघुग्रामात् देहली पर्यन्तं संवृद्धः माहानायकः रामकृष्णहेगडे महोदयः । राजकीयेऽपि सांस्कृतिकां गरिमां सङ्गृहीतवान् विशिष्टः राजकीयपटुः हेगडेमहोदयः । सर्वेषां वचांसि शृण्वन् अपि स्वान्तरङ्गस्य ध्वनिं श्रोतुं न विस्मरति स्म । तदृशः अतिविरलराजकीयपटुषु अन्यतमः रामकृष्णमहोदयः । सदा महत्स्वप्नं पश्यन् तस्य साकारार्थं सततप्रयत्नशीलः राजतन्त्रे यशः प्राप्नोत् ।

बाल्यं शिक्षा च

[सम्पादयतु]

रामकृष्ण हेगडेमहोदयः पश्चिमपर्वतश्रेण्यां काननैः परिवृते ग्रामे विशिष्टसंस्कारयुक्ते हव्यकब्राह्मणकुटुम्बे क्रि.श. १९२७तमे वर्षे अगष्ट् २७दिनाङ्के महाबलेआश्वर हेग्डे सरस्वतम्मा दम्पत्योः पुत्रत्वेन जातः । तदा अस्य गृहे स्वातन्त्र्यस्य देशप्रेम्णः च वातारणम् आसीत् । ज्येष्टपितृव्यः कृष्ण हेगडे महोदयः स्वातन्त्र्यसङ्ग्रामे भागं वहन् रात्रिगोष्ठीं सञ्चालयति स्म । अनेन बालः रामकृष्णः प्रभावितः । नैके स्वातन्त्र्यप्रेमिणः अस्य गृहे वसन्ति स्म । आङ्ग्लाधिकारिणः प्रकरणम् आरोप्य यान् अन्वष्यन्ति स्म ते अस्य गृहे रहसि वसन्ति स्म । एतादृशे परिसरे अविभक्ते कुटुम्बे संवर्धितः रामकृष्ण हेगडे महोदयः सिद्धापुरे प्रौढशालाशिक्षां समापितवान् । शान्तस्वभावस्य उत्तमचिन्तनस्य बालकः रामकृष्णाः अग्रे पठितुम् आसक्तः चेदपि कौटुम्बिकोपजीविकार्थं पूगकृषिः अनिवार्या अभवत् । अतः पूर्णकालिकः कृषकः अभवत् । गान्धिमहात्मनः स्वातन्त्र्यसङ्ग्रामविषये श्रुतवान् रामकृष्णः तेन प्रभावितः टोपिकां धरति स्म । अक्कमहादेव्या विनोबा भावेमहोदयस्य परिचयः अभवत् । युवानः रामकृष्णस्य जीवने विनोबा भावे बहुधा प्रभावम् अकरोत् । मेट्रिक् पिपूसि परिक्षाम् समानकाले समाप्य बि.ए.समानां पदवी शास्त्री परीक्षाम् उत्तीर्णवान् । उन्नतविद्यां प्राप्तुं लखनौ नगरम् अगच्छत् । तत्र राज्यशास्त्रे स्नातकोत्तरपदवीम् अधुनिकन्यायशास्त्रपदवीं च प्राप्तवान् । अनन्तरं शकुन्तला नाम हव्यककन्यां परिणीतवान् । कुटुम्बजीवनस्य फलरूपेण पुत्रः पुत्र्यौ च सञ्जाताः । अस्य लखनौवासस्य अवसरे लालबहाद्दूरशास्त्रिमहोदयस्य राममोहन लोहियामहोदयस्य च परिचयः अभवत् । शिरसिनगरे न्यायवादिनः वृत्तिम् आरब्धवान् । दीनकृषिकानां परतया विना शुल्कं न्यायवादं कृतवान् ।

राजकीयजीवनम्

[सम्पादयतु]

पञ्चवर्षानन्तरं क्रि.श.१९५४तमे वर्षे स्वमण्डले एव राजकीयरङ्गं प्राविशत् । काङ्ग्रेस् पक्षस्य मण्डलाध्यक्षः भूत्वा वर्षत्रयं सेवां कृतवान् । मण्डलस्य समग्राभिवृद्धये यतमानः रामकृष्णमहोदयः विख्यातः अभवत् । १९५४ तमे वर्षे सः काङ्ग्रेस्पक्षस्य मण्डलाध्यक्षरूपेण राजनैतिकक्षेत्रं प्राविशत् । १९५७ तमे वर्षे ऐदम्प्राथम्येन सः कर्णाटकविधानसभायाः सदस्यत्वेन चितः ।

"https://sa.wikipedia.org/w/index.php?title=रामकृष्ण_हेगडे&oldid=363908" इत्यस्माद् प्रतिप्राप्तम्