चेङ्गलराय रेड्डी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(के सी रेड्डी इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

व्यक्तित्वम्[सम्पादयतु]

प्राचीनकर्णाटकस्य नाम मैसूरुराज्यम् इति आसीत् । अस्य मैसूरूराज्यस्य सर्वप्रथमः मुख्यमन्त्री के.सि.रेड्डिमहोदयः । अयं सर्वकारस्य सञ्चालने समर्थः नायकः । तस्य पठनस्य अभ्यासः अपि आसीत् । उत्तमस्य प्रशासनस्य धैर्यं प्रदर्शयति स्म । एतस्य जीवने गान्धिमहात्मनः प्रभावः अतीव आसीत् । तस्य सङ्केतरूपेण गान्धिटोपिकां धरति स्म । हरिजनोद्धारकार्ये कृतपरिश्रमः अस्ति । राज्यस्य उन्नतं अधिकारपीठम् अलङ्कृतवान् चेत् अपि एतस्मिन् अहम्भावः नासीत् । सर्वकारीयाः अधिकारिणः स्वस्यादेशं पालयेयुः इति दर्पः नासीत् । प्रशासनस्य अधिकारिभिः सह स्नेहभावेन प्रवर्तते स्म । स्वस्य ग्रामे हरिजनानां कृते विद्यार्थिनिलयं निर्माय समर्पितवान् । होसूरुनगरे स्थितानि खादिकेन्द्राणि अस्य एव परिश्रमस्य फलम् ।

जन्म[सम्पादयतु]

सात्विकः सरलः सज्जनः रेड्डीमहाभागः । तस्य पूर्णं नाम क्यासम्बळ्ळी चेङ्गलराय रेड्डि । कोलारमण्डलस्य बङ्गारपेटेतालूकु क्यासम्बळ्ळी अस्य मूलग्रामः । तेलुगुभाषिके धनिके कृषिकुटुम्बे जातस्य चेङ्गलरायस्य माता गङ्गोजम्मा पिता बि.वेङ्कटरेड्डि । क्रि.श.१९०२तमे वर्षे मेमासस्य चतुर्थे दिने अस्य जन्म अभवत् । अस्य प्राथमिकी शिक्षा कोलारमण्डले एव अभवत् । गण्यधनिकस्य गुरुवारेड्डिमहोदयस्य पुत्र्या सरोजम्मया सह क्रि.श.१९३४तमे वर्षे विवाहः सम्पन्नः । तदा एव आङ्ग्लसर्वकारः न्यायाधीशस्य पदवीं दातुम् उद्युक्तः अभवत् । किन्तु जनसेवायां बद्धादरः रेड्डिमहोदयः अनुनयेन तमुद्योगं तिरस्कृतवान् । कौटुम्बिके जीवने अपि सन्तुष्टस्य अस्य पञ्चपुत्राः एका पुत्री च अभवन् ।

राजकीयप्रवेशः[सम्पादयतु]

क्रि.श.१९१८तमे वर्षे अस्य प्रौढशिक्षा तु बेङ्गळूरुनगरस्य मिशन् शालायाम् अभवत् । अनन्तरं उन्नतशिक्षणं मद्रास् नगरस्य पच्चियप्प महाविद्यालयात् प्राप्तवान् । अस्मिन् एव अवसरे श्रीरामकृष्णाश्रमेण काङ्ग्रेस् जस्टीस् पक्षेण च आकृष्टः । क्रि.श.१९२६तमे वर्षे बि.एल्. पदवीं प्राप्य कोलारमण्डलम् आगत्य न्यायवादिनः वृत्तिम् आरब्धवान् । किन्तु राजकीयक्षेत्रे रुचिं प्राप्य तत्र प्रविष्टवान् । मैसूरुसंस्थाने स्वातन्त्र्यप्राप्तेः प्राक् एव क्रि.श.१९२१तमे वर्षे काङ्ग्रेस् प्रतिष्ठापितम् आसीत् । न्यायवादी सेट्लूरु संस्थापकः अध्यक्षः अभवत् । कालान्तरे लेखकः डी वी जी (डी वी गुण्डप्पः), चन्नपट्टणस्य धीरः वि.वेङ्कप्प इत्यादिभिः सम्भूय प्रजापक्षं रचितवान् । पक्षस्य अध्यक्षः वेङ्कटप्पः प्रधानकार्यदर्शी के.सि.रेड्डी अभवताम् । तदानीम् एव रेड्डिमहोदयः कोलारमण्डलस्य मैसूरुन्यायविधायकसभायाः निर्वाचने चितः अभवत् । क्रि.श. १९३२ तः १९३६तमवर्षपर्यन्तम् सभायाः अविरोधि-अध्यक्षत्वेन कार्यं निरवहत् । प्राप्तस्य सदवसरस्य सदुपयोगं स्वीकुर्वाणः प्रगतिहीनस्य कोलारमण्डलस्य शिक्षावसरं संवर्धितवान् । सार्वजनिककार्याणि सकाले कुर्वन् रेड्डिमहोदयः प्रजाप्रतिनिधिसाभायाम् अपि चितः । विधानसभायां विधानपरिषदि च स्वध्वनिं श्रावितवान् । एवं सम्पूर्णे कोलारमण्डले एव ख्यातः रेड्डिमहोदयः सुवर्णखनिकार्मिकसङ्गस्य अध्यक्षः अभवत् । क्रि.श. १९३२तमे वर्षे चित्रदुर्गमण्डले प्रव्रत्तस्य मण्डलकृषकसमावेशस्य अध्यक्षः आसीत् । क्रि.श १९३५तमे वर्षे प्रजासंयुक्तपक्षस्य प्रथमाधिवेशनस्य अध्यक्षः अपि रेड्डिमहोदयः आसीत् ।

काङ्ग्रेस् प्रवेशः[सम्पादयतु]

क्रि.श. १९३४तमे वर्षे महात्मा गान्धिः अस्पृश्यतानिवारणस्य आन्दोलनावसरे प्रवासार्थं कर्णाटकम् आगतवान् । तस्य हिन्दीभाषणस्य कन्नडेन अनुवादं रेड्डिमहोदयः करोति स्म । गान्धिमहोदयस्य भाषणं शृण्वन् तेन बहुप्रभावितः अभवत् । अतः काङ्ग्रेस् प्रवेष्टुम् अतीव उत्सुकः अभवत् । क्रि.श. १९३६तमे वर्षे नन्दिपर्वतप्रदेशे विश्रान्तिम् अनुभवितुं गान्धीमहोदयः पुनः आगतवान् । तदा रेड्डिमहोदयः काङ्ग्रेस् प्रवेशस्य इच्छां गान्धिमहाभागस्य पुरतः प्राकटयत् । गन्धिना अनुमतिं प्राप्य तदारभ्य काङ्ग्रेस् पक्षे क्रियाशीलः अभवत् । कानिचन दिनानि जनतावाणी इति दिनपत्रिकायाः सम्पादकः अपि अभवत् । स्वातन्त्र्यसङ्ग्रामस्य व्याजेन सत्याग्रहेत्यादिषु भागम् ऊढ्वा कारावासम् अपि अनुभूतवान् । क्रि.श. १९३९तमे काले कोलारमण्डले जीगल् सत्याग्रहे शताधिकाः कृषिवलाः आङ्ग्लारक्षकैः बद्धाः । तैः सह रेड्डिमहोदयस्य बन्धनम् अभवत् । अनेन कोलारजनाः कुपिताः प्रतिबन्धकाज्ञां तिरस्कृत्य सत्याग्रहम् अकुर्वन् । पुनः शताधिकान् कारावासं प्रेषितवन्तः । तदारभ्य समग्रः कोलारः काङ्ग्रेस्पक्षस्य रेड्डिमहोदयस्य च प्रबलः प्रदेशः अभवत् । क्रि.श.१९३८तमे वर्षे महात्मागन्धिना सह वार्धा आश्रमे रेड्डिमहोदयः बहुकालम् अवसत् । तद गान्धिनः कार्यशैलीं,सरलताम्, अनुशासितजीवनम्, अध्येतुम् अवकाशः रेड्डिमहोदयेन प्राप्तः । तदनन्तरं वैभवोपेतं स्वस्य वेशभूषणानि परित्यज्य सामान्यवस्त्रेण गान्धिटोपिकया उपशोभितः अभवत् । क्रि.श.१९४२तमे वर्षे क्विट् इण्डिया आन्दोलने आरब्धे रेड्डिमहोदयस्य बन्धनम् अभवत् । केन्द्रकारागारे बद्धस्य तस्य कर्णवेदना आरब्धा । समीचीनचिकित्सायाः अभावात् एकस्य कर्णस्य श्रवणशक्तिः नष्टा अभवत् । अन्दोलनस्य अनन्तरकालः तस्य सङ्कष्टदिनानि एव अभवन् । प्रतिदिनं काङ्ग्रेस् पक्षस्य कार्यालयं गच्छति स्म । क्रि.श.१९४६तमे वर्षे मैसूरुकाङ्ग्रेस् पक्षस्य अध्यक्षपदवीं प्राप्तवान् । स्वातन्त्र्योत्तरम् अपि मैसूरुसंस्थानं स्वतन्त्रभारते लीनं नाभवत् । तदा रेड्डिमहोदयस्य नायकत्वे एव मैसूरु चलन्तु इति अन्दोलनम् आरब्धम् । तदा सर्वकारः तेन सह सहस्राधिकान् बन्धयित्वा ‘लाठिचार्ज(दण्डप्रयोगः), गोलिबार्(गोलकास्त्रप्रयोगं)’च अकरोत् । ४२दिनानां सुदीर्घस्य आन्दोलनस्य कारणेन काङ्रेस्पक्षस्य सचिवसम्पुटः निरूपितः ।

कर्णाटकस्य प्रथमः मुख्यमन्त्री[सम्पादयतु]

क्रि.श.१९४७तमे वर्षे अक्टोबर् मासस्य २९तमे दिने स्वतत्रभारतस्य मैसूरुराज्यस्य प्रथमं मुख्यमन्त्रिपदम् अलङ्कृतवान् । क्रि.श.१९५०तमे काले निर्मितस्य भारतीयसंविधानानुगुणं मैसूरुराज्यं ’बि’वर्गस्य राज्यम् इति निर्णितम् । राज्यपालः राज्यस्य प्रमुखः अभवत् । क्रि.श.१९५०तमे वर्षे काङ्ग्रेस् सदस्याः नूतनसर्वकारे सचिवाः अभवन् । १००विधासभासदस्यैः, ४०विधानपरिषदः सदस्यैः च युक्ता राज्यप्रशासनस्य विधानसभा संरूपिता अभवत् । चङ्गलरायरेड्डिमहोदयस्य मुख्यमन्त्रिपदस्य सचिवसमूहेन राज्ये विक्रयणकरः निष्कासितः । चित्रदुर्ग –कोलार- तुमकूरु-मण्डलेषु सुरापानं निषिद्धम् । क्रि.श.१९५१तमे वर्षे भारतस्य प्रधानमन्त्रिणा जवाहरलालनेहरुमहोदयेन सार्वजनिकसञ्चारनिगमस्य रचना, सञ्चारमार्गस्य राष्ट्रीकरणम्, शरावतीनद्या जलविद्युदुत्पादनं, बेङ्गळूरुमहानगरपालिका-अभिवृद्धिसमितिनां रचना, पुरसभाशासनं, तुङ्गभद्राजलानयनयोजनानि, परिश्रमोद्योगिनां सुरक्षाशासनरचना, इत्यादीनां कार्याणाम् आरम्भस्य नान्दीशिलान्यासः च कृतः । कालान्तरे केङ्गलहनूमन्तय्यमहोदयस्य अधिकारवधौ एतानि सर्वाणि कार्याणि सम्पूरितानि । राज्यसर्वकारे साङ्ख्यिकः विभागः अस्तित्वम् अवाप्नोत् । स्वयत्तसंस्थानाम् अयव्ययादिगणनस्य परिशीलनार्थं गणनविभागः आरब्धः । एवम् अस्य अवधौ नानाविधानि प्रगतिशीलकार्याणि समारब्धानि । एतवतीं प्रसिद्धिं प्राप्तवान् अपि अग्रे प्रचालिते विधानसभा निर्वाचने भागं न स्वीकृतवान् । राज्यसभायाः सदस्यत्वेन चितः । कालान्तरे जवाहरलालनेहरुमहोदयस्य केन्द्रसचिवसम्पुटे उत्पदनासचिवः अभवत् । अस्य अवधौ एव भीलायी, रूर्केला,दुर्गापुरम् इत्यादिषु स्थानेषु अयोद्यमस्य यन्त्रशालाः आरब्धाः। आधुनिकतन्त्रज्ञानं प्राप्तुम् इङ्ग्लेण्ड, जर्मनी, रषिया, देशान् सन्दर्शितवान् । राञ्चीनगरस्य हेवि इञ्जनिरिङ्ग् यन्त्रागारः, भोपालस्य हेवि एलेक्ट्रिकल्, बेङ्गळुरुनगरस्य एच् एम् टी यन्त्रशालाः अस्य काले एव प्रतिष्ठापिताः । क्रि.श.१९५७तमे रेड्डिमहोदयः लोकसभानिर्वाचने चितः वसतिविभागस्य सचिवः च अभवत् । क्रि.श.१९६०तमे वर्षे वाणिज्ययन्त्रोद्यमस्य सचिवः अभवत् । कि.श.१९६२रमे वर्षे पुनः लोकसभानिर्वाचने चितः काङ्ग्रेस् पक्षस्य उपनायकः अभवत् । अग्रिमे कालखण्डे क्रि.श.१९६४तः १९७१पर्यन्तं मध्यप्रदेशराज्यस्य राज्यपालपदवीम् अलङ्कृतवान् । कर्णाटकस्य अतिविरलः राजतन्त्रज्ञः चेङ्गलरायरेड्डिमहोदयः विश्रन्तजीवनं बेङ्गळूरुनगरे व्यतीतवान् । एषः महाजनः क्रि.श.१९७६तमवर्षस्य फेब्रवरि २७तमे दिने कीर्तिशेषः अभवत् । राज्यकाङ्ग्रेस् पक्षः महानायकहीनः अभवत् ।


"https://sa.wikipedia.org/w/index.php?title=चेङ्गलराय_रेड्डी&oldid=363913" इत्यस्माद् पुनः प्राप्तिः