तुङ्गभद्रा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हम्पीसमीपे प्रवहन्ती तुङ्गभद्रानदी

तुङ्गभद्रा (kannada: ಭದ್ರಾನದೀ Telugu:తె తుంగభద్రా ) एषा काचन पवित्रा नदी । दक्षिणे भारते कर्णाटकान्ध्रराज्ययोः प्रवहति । अन्ध्रे एषा कृष्णनद्याः प्रमुखा उपनदी अस्ति ।रामायणे अस्याः नाम पम्पा इति नाम्ना वर्णितम् अस्ति । पात्रम् तुङ्गभद्रा तावत् द्वयोः नद्योः मेलनेन सञ्जाता । तुङ्गा भद्रा चेति । कर्णाटके प्रवहन्ती दक्षिणभारतस्य काचित् प्रमुखा नदी । वस्तुतः एषा तुङ्गा-भद्रयोः नद्योः सङ्गमनानन्तरम् एकीभूता नदी अस्ति । शिवमोगामण्डलस्य कूडली इत्यत्र एतयोः सङ्गमनं भवति । होसपेटेसमीपे मुनिराबाद् इत्यत्र एतस्याः नद्याः कश्चन महान् जलबन्धः निर्मितः अस्ति । एतेन जलबन्धेन कर्णाटकस्य महान् जलभागः कृष्यै जलं प्राप्नुवन् अस्ति । कर्णाटके ३८०कि.मी.यावत् प्रवहति एषा। आहत्य नद्याः दैर्घ्यं ६१०कि.मी.यावत् अस्ति । कर्णाटकतः आन्ध्रप्रदेशस्य कर्नूलसमीपे एषा कृष्णानद्या मिलति ।

कर्णाटके दक्षिणघट्टप्रदेशात् पूर्वदिशं प्रति वहतः एते नद्यौ ।नेत्रावती अपि गङ्गामूले एव उद्भवति परन्तु सा पश्चिमदिशं प्रति प्रवहति । मङ्गलूरु समीपे पश्चिमसमुद्रं प्रविशति ।तुङ्गा भद्रा च पश्चिमघट्टस्य कुद्रेमुखप्रदेशे वराहपर्वते गङ्गामूलम् इत्यत्र उद्भवतः । कुद्रेमुखं तु अयोधातूनां स्थानमस्ति ।एषः प्रदेशः समुद्रतटतः ११९८ पादपरिमिते उन्नते प्रदेशे अस्ति ।भद्रानदी तावत् औद्योगिकनगरं भद्रावती द्वारा प्रवहति ।एतयोः नद्योः तावत् प्रायः शताधिकाः उपनद्यः, सन्ति । एतयोः दीर्घता १४७ किलोमीटर्मिता । ते कूडली इति स्थाने सङ्गम्येते । एतत् होळेहोन्नूरु इति स्थानस्य समीपे अस्ति । एष प्रदेशः पूगफलस्य कुसूलः शिवमोग्ग इत मण्डलात् १५ कोलोमीटर् दूरे अस्ति ।यत्र द्वैताद्वैतयोः सङ्गमक्षेत्रमेतत् । तुङ्गभद्रा नदी ५३१ किलोमीटत् प्रवह्य्य गोण्डिमल्ल इत् प्रदेशे कृश्णनद्या सह मिलति । एतत् आन्ध्रप्रदेश राज्यस्य महबूबनगरमण्डलस्य अलम्पुर समीपे अस्ति । शिमोग्ग-उत्तरकन्न्ड-हावेरी-मण्डलेषु प्रवहन्ती वरदानदी, चित्रदुर्गे बळ्ळारी मध्ये पवहन्ती हगरीनदी, कर्नूल्मण्डले प्रवहन्ती हण्डरी च तुङ्गभद्रायाः उपनद्यः सन्ति ।एताभिः सह अनेकाःनिर्झरिण्यः, स्यननिकाःच एतया सङ्च्छन्ते ।

हम्पी क्षेत्रे अस्य दर्शनम् विविधवर्णानां ग्रावाः अत्र सन्ति । शिलामध्ये प्रवहन्ती एषा नदी अत्र अनेकान् दर्रान् निर्माति । उत्सन्नस्य विजयनगरस्य महाराजाः अस्याः तटे स्वराजधानीं निर्मितवन्तः ।इदनीं तस्य उत्सन्नानि स्थानानि सन्ति । होसपेटे मध्ये अस्याः एकः बन्धः निर्मितः ।एतेन कृषिकार्याय उपयोगः सञ्जातः । औद्यमिकसंस्थानानि अपि स्थापितानि सन्ति । ततः पूर्वदिशं प्रवह्य्य आन्ध्रप्रदेशे कृष्णनदीं सङ्गच्छ्ते । ततः कृष्णा पूर्वदिशं प्रवहन्ती गङ्गासागरं गच्छति । तुङ्गभद्रा तथा कृष्णानद्योः मध्यवर्ति स्थानं रायचूर्-अन्तर्वेदी इति प्रसिद्धं वर्तते । मानचित्रे दर्शिता तुङ्गभद्रा नदी तुङ्गभद्राबन्धस्य मुख्याभियन्ता तिरुमलै अय्यङ्गार् ।यश्च मद्रास् तः आगतवान् एतदर्थम् । तस्य नाम्नि एका सभाभवनम् अपि निर्मितमस्ति । अत्र बन्धेन विद्युच्छक्तिः अपि उत्पादिता भवति । प्रवाहः नियन्त्रितः भवति । विहारिणां यात्रिणां च सुन्दरं स्थानं सञ्जातम् एतत् । एषः बन्धं विविधोद्देशयुक्तः अस्त्ति । कर्नूलतः २५ किलोमीटर् दूरे सुङ्केसुल इति स्थाने एकः लघुबन्धः १८६० तमे वर्षे निर्मितः अस्ति । एतस्य अभियन्ता कश्चन ब्रिटिश्जनः, यश्च आन्ध्रजनैः अधुनिकः भगीरथः इति कथ्थते । एतेन जलबन्धेन कडपा-कर्नूलमण्डले जलं प्राप्नुतः। या कुल्या अस्ति तस्याः नाम के.सि कुल्या इति (कर्नूल्-कडपा) (पूर्वं कडपा अस्य उच्चारणं भवति स्म cuddapah ) इदानीं तस्य बन्धस्य स्थाने नूतनः निर्मितः तस्य नाम कोट्लाविजयभास्कर रेड्डी परियोजना। एषा स्थायीबन्धः सञ्जातः । अत्र १, ०००,०००,०० घनपादपरिमितजलस्य सञ्चयः भवति ।एषः बन्धः ३००,००० प्रहलमितां भूमिं उदन्यति । क्षेत्राणि कर्नूल् तथा कडपामण्डलयोः सन्ति । नदी तटे स्थितानि नगराणिसमृद्धानि सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=तुङ्गभद्रा&oldid=470750" इत्यस्माद् प्रतिप्राप्तम्