डी वी जी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
D. V. Gundappa
BugleRock DVG6.JPG
DVG in Bugle Rock Park, Basavanagudi
जन्म Devanahalli Venkataramanaiah Gundappa
(१८८७-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-१७)१७ १८८७
Mulbagal, Mysore State, British India
मृत्युः ७ १९७५(१९७५-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम �-०७) (आयुः ८८)
अन्यानि नामानि DVG
वृत्तिः Philosopher, writer, poet, journalist
कृते प्रसिद्धः Manku Thimmana Kagga
भार्या(ः) Bhageerathamma[१]

“”पल्लवं नूतनम् स्यात्, मूलं प्राचीनं स्यात् , तदा एव वृक्षस्य सौन्दर्यम्, नवयुक्तेः प्राचीनतत्वेन सह मेलनं भवति चेत् धर्मः, ऋषिवाक्येन सह विज्ञानकलायाः योजनेन जीवने यशः” इति विषयस्य प्रतिपादकः आसीत् गुण्डप्पवर्यः।पत्रिकोद्यमी, लेखकः, राज्यशास्त्रज्ञः एषः, अपूर्वः ज्ञाननिधिः आसीत्।

”’जन्म विद्याभ्यासः च"’[सम्पादयतु]

१८८७ तमे वर्षे कोलारमण्डलस्य मुळबागिलु ग्रामे एतस्य जन्म अभवत्। देवनहळ्ळी वेङ्कटप्प गुण्डप्पः इति तस्य पूर्णं नाम। एषः डी.वी.जी इति संक्षिप्तनाम्ना एव प्रसिद्धः अस्ति। स्वप्रयत्नेन संस्कृते आंग्लभाषायां च असाधारणपाण्डित्यं प्राप्तवान्। तेलुगु-तमिळुभाषाज्ञानमपि वर्धितवान् आसीत्।

पत्रिकोद्यमक्षेत्रे[सम्पादयतु]

गुण्डप्पः पत्रिकाक्षेत्रतः स्वस्य वृत्तिजीवनम् आरब्धवान्। १९०७ तमे वर्षे ”’भारती”’ नामिकां दिनपत्रिकाम् आरब्धवान्। विभिन्नासु पत्रिकासु लेखनानि अपि लिखति स्म। अनन्तरम् आंग्लभाषया ”’कर्णाटक”नामिकां सप्ताहार्धपत्रिकाम् आरब्धवान्। कन्नडपत्रिकोद्यमक्षेत्रे डी.वी.जीवर्यस्य साधना स्थानं च अतुलनीयम् अस्ति। १९२८ तमे वर्षे बागलकोटे इत्यत्र प्रवृत्तस्य कर्णाटकवृत्तपत्रकर्तॄणां प्रथमसम्मेलनस्य अध्यक्षः आसीत्। लघुकाव्यं पद्यं विमर्शालेखनं जीवनचरितम् इत्यादिषु विविधप्रकारकेषु साहित्येषु योगदानं कृत्वा उत्तमफलितांशं प्राप्तवान् अस्ति।

साहित्यक्षेत्रे[सम्पादयतु]

वसन्तकुसुमाञ्जली निवेदन अन्तःपुरगीते एताः कृतयः तस्य कविताशक्तिं निर्दिशन्ति। विश्वविख्यातस्य कवेः उमरखयामस्य रुबामतकृतेः कन्नडभाषान्तरःउमरन वसगे तथा मङ्कुतिम्मनकग्ग इति काव्ये डी.वी.जीवर्यस्य जीवनदर्शनतत्त्वानि मार्मिकतया निरूपयन्ति। मङ्कुतिम्मस्य एकैकमपि पद्यं मुक्तकम् इव अस्ति। तत्र तस्य गभीरं चिन्तनं दृश्यते। उदा- रे मूढ तिम्म ,अश्वशकटमिदं जीवनम्, विधिः चालकस्तस्य। अश्वस्त्वम्, यात्रिकाणां कथनानुसारं विवाहाय वा श्मशानाय वा गन्तव्यं भवता, स्खलति चेत् भूमिः अस्ति। चिरकालं जनानां मनसि स्थातुं योग्यान् ग्रन्थान् एषः कन्नडसाहित्यलोकाय समर्पितवान् अस्ति। रङ्गाचार्यः, गोपालकृष्णगोखले, विद्यारण्यः एतस्य समकालीनाः। श्रीमद्भगवद्गीतातात्पर्यं, ज्ञापकचित्रशाला, शास्त्रग्रन्थाः च तस्य इतरकृतयः। तस्य ’”जीवनधर्मयोग"’नामकस्य उपन्यासग्रन्थस्य कृते १९६१ तमे वर्षे ”’केन्द्रसाहित्य-अकाडेमी प्रशस्तिः”’ प्राप्ता अस्ति। तस्य जीवनस्य उत्तरसन्ध्यायां ”’देवरु ”’ ”’काव्यस्वारस्य"’ नामिके द्वे कृती रचितवान्। डी वी जी वर्यः १९३२ तमे वर्षे मडिकेरी इत्यत्र प्रवृत्तस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षः आसीत्। एतस्य बहुमुखसाहित्यसेवां दृष्ट्वा मैसूरिविश्वविद्यालयेन गौरवडाक्टरेट् पदव्या तस्य सम्माननं कृतम। डी वी जीवर्यः विश्वभ्रातृत्वे विश्वासवान् आसीत्। "उत्तमजीवनमेव देवाय समर्पयीतुं योग्या उत्कृष्टा पूजा " इत्यत्र तस्य महान् विश्वासः आसीत्।

टिप्पणी[सम्पादयतु]

  1. G Venkatasubbiah (10 September 1995). D. V. Gundappa. Sahitya Akademi. ISBN 81-260-1386-9. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=डी_वी_जी&oldid=282159" इत्यस्माद् पुनः प्राप्तिः