एच् डी देवे गौडा
हरदनहळ्ळि दोड्डेगौड देवेगौडः | |
---|---|
भारतस्य द्वादशः प्रधानमन्त्री | |
कार्यालये 1 जून् 1996 – 21 एप्रिल् 1997 | |
राष्ट्रपतिः | शङ्कर दयाल शर्मा |
पूर्वगमः | अटल बिहारी वाजपेयी |
पादानुध्यातः | इन्द्र कुमार गुजराल |
गृहमन्त्री | |
कार्यालये 1 जून् 1996 – 29 जून् 1996 | |
पूर्वगमः | मूरली मनोहर जोषी |
पादानुध्यातः | इन्द्रजित् गुप्त |
कर्णाटकस्य मुख्यमन्त्रिणः | |
कार्यालये 11 डिसेम्बर् 1994 – 31 मे 1996 | |
Governor | खुर्षिद् अलम् खान् |
पूर्वगमः | वीरप्प मोयिली |
पादानुध्यातः | जे एच् पटेल् |
व्यक्तिगत विचाराः | |
जननम् | हरदनहळ्ळि, मैसूरुराज्यम्, ब्रिटिश्-शासनम् (अधुना कर्णाटकम्, भारतम्) | १८ १९३३
राष्ट्रीयता | भारतीयः |
राजनैतिकपक्षः | जात्यतीतजनतादलम् |
अन्यराजनैतिक- सम्बन्धः |
भारतीय राष्ट्रिय काङ्ग्रेस् (१९६२ तः पूर्वम्) स्वतन्त्रराजकीयनेता (१९६२-१९७७) जनतापक्षः (१९७७-१९८८) |
पतिः/पत्नी | चन्नम्मा देवे गौड |
अपत्यानि | ४ पुत्राः द्वे पुत्र्यौ[१] |
मुख्यशिक्षणम् | एल् वि पालिटेक्निक् कालेज् |
धर्मः | हिन्दुधर्मः |
हस्ताक्षरम् | |
जालस्थानम् | एच् डी देवे गौडा |
As of feb, 2012 |
हरदनहळ्ळि दोड्डेगौड देवेगौडः भारतस्य द्वादशः प्रधानमन्त्री आसीत् । देवे गौडः हासनमण्डलस्य होळेनरसीपुरोपमण्डलस्य हरदनहळ्ळि इति ग्रामे क्रि.श. १९३३तमे वर्षे अजायत । अस्य मातुः नाम लक्ष्मीदेवम्मा, पिता दोड्डेगौडः। दोड्डे गौडस्य द्वे भार्ये आस्ताम् । प्रथमा भार्या ईरम्मा । अनया दोड्डेगौडः त्रीणि अपत्यानि प्राप्तवान् । अस्याः अकालमरणकारणेन द्वितीयां लक्ष्मीदेवम्माम् ऊढवान् । दोड्डेगौडः अनया द्वितीयया देवगौडः अक्कय्यम्म, बसवेगौड पुट्टम्मा इति अपत्यानि प्राप्तवान् । दोड्डेगौड: देवेगौडस्य जन्मनः अनन्तरं जातकं लेखितवान् । अयम् अग्रे राजनैतिकक्षेत्रे कीर्तिमान् भाविष्यति इति जातके आसीत् ।
बाल्यं शिक्षणञ्च
[सम्पादयतु]देवेगौडस्य बाल्यकालः हरदनहळ्ळी इत्येतस्मिन् ग्रामे एव यापित: । देवेगौडस्य प्राथमिकविद्याभ्यास: हरदनहळ्ळि ग्रामस्य विद्यालये अभवत् । अनन्तरं माध्यमिकविद्याभ्यासं हळेकोटेविद्यालये कृतवान् । होळेनरसिपुरस्य पुरसभाविद्यालये प्रौढशाला शिक्षणं प्राप्तवान् । सः पठने अपि अग्रे आसीत् । क्रि.श. १९५२तमे वर्षे हासने पालिटेक्निक् महाविद्यालयं प्रविश्य सिविल् इञ्जिनीरिङ्ग् डिप्लोमा कृतवान् । नायकत्वगुणः अनेन जन्मना एव प्राप्तः । अध्ययनस्य वर्षत्रयमपि विद्यार्थिसङ्घस्य अध्यक्षः आसीत् ।
उद्योगः
[सम्पादयतु]तस्मिन् काले हरदनग्रामे डिप्लोमाशिक्षणं प्राप्तवान् जनः देवेगौड: एक: एव आसीत् । एतावद् अधीतवत: देवेगौडस्य कृते उन्नतकार्यमेव लभ्यते स्म किन्तु देवेगौड: पूर्वारभ्य अन्यस्य अधीन: भवितुं न इच्छति स्म । अत: स: सर्वकारीयकार्यालये इञ्जिनियरिङ्ग् कार्यं कर्तुं न इष्टवान् । देवेगौड: डिप्लोमा इञ्जिनियर् भूत्वा उद्योगं कुर्वन् अपि कृषिकार्ये स्वस्य आसक्तिं रक्षितवान् आसीत् । एष: स्वस्य कुटुम्बस्य क्षेत्रम् उत्तमं कर्तुं बहु प्रयत्नं क्रतवान् । सर्वकारीयोद्योगतः प्राप्तं लाभं नारीकेलवाटिकायाः निर्माणाय व्ययितवान् । विद्यावान् एष: सर्वकाकारीयकार्यालये कार्यं कुर्वन् आनन्देन भवितुं शक्यते स्म किन्तु एष: क्षेत्रे, नारीकेलवाटिकायां च कार्यं कुर्वन् मण्णिन मग (मृत्तिकाया: पुत्र:) इति नाम प्राप्तवान् ।
उद्योगप्राप्तेः अग्रिमे वर्षे तन्नाम १९५४तमे वर्षे मे मासे हासनस्य मुत्तिगे ग्रामस्य प्रमुखस्य पुत्र्या चेन्नम्मया सह विवाह: अभवत् । चेन्नम्मा दैवभक्ता सद्गृहिणी च । तयोः ६अपत्यानि - बालकृष्णः, रमेशः, रेवणणः, कुमारस्वामी च पुत्राः अनसूया, शैलजा च पुत्र्यौ ।
राजनैतिकक्षेत्रप्रवेशः कार्याणि च
[सम्पादयतु]९६२ तमे वर्षे राज्यस्य निर्वाचनम् आसीत् । तदा देवेगौडस्य राजनैतिकक्षेत्रीयगुरु: ए. जि. रामचन्द्रराय: होळेनरसीपुरक्षेत्रस्य अभ्यर्थी आसीत् । वय: अधिकः जात: इत्यतः स: स्वस्य आत्मीयः शिष्य: देवेगौड: अभ्यर्थी भवतु इति चिन्तितवान् । किन्तु काङ्ग्रेस्-वरिष्ठा: इदं न इष्टवन्त:। अत: देवेगौड: पक्षेतर-अभ्यर्थी भूत्वा विजयं प्राप्तवान् । १९६२ तमे वर्षे देवेगौड: प्रथम वारं रज्यसभाया: कृते चितः अभवत् । तदा स्वस्य निर्भीतभाषणैः सवेर्षाम् अवधानम् आकृष्टवान् आसीत् । हारङ्गी-योजना, लघु-नीरावरीयोजना, हासन-मङ्गळूरुरैलमार्ग:, ग्रामीणगृहयोजना इत्यादीषु तस्य योगदानं महत्त्वयुतम् आसीत् । १९६७ तमे वर्षे हेमावतीयोजनायाः कार्यान्वयने तस्य विशेषपरिश्रमः आसीत् । अग्रे १९८३ तमे वर्षे हेमावतीयोजनां हासनं, मैसूर्, मण्ड्या, तुमकूर् जनपदेषु विस्तारितवान् ।
देवेगौड: स्वस्य राजकीयगुरोः ए. जि. रामचन्द्ररायस्य नाम हेमावतीजलाशयस्य तीराय स्थापितवान् । तथैव हासनजनपदस्य जेष्ठस्वातन्त्र्ययोधस्य प्रसिद्धलेखकस्य गोरूरुरामस्वामी अय्यङ्गारस्य नाम दक्षिणतीराय स्थापयित्वा तयो: नामं शाश्वतं कृतवान् । जलसम्पदः विषये विशेषास्थावान् सः कृष्णानदीजलाशययोजना: समापयितुं 'कृष्णजलभाग्यनिधिं' स्थापितवान् । यदा देवेगौड: १९९२ तमे वर्षे लोकसभासदस्य: आसीत् जलवितरणविवादविषये अध्ययनं कृत्वा केन्द्रसर्वकारस्य नायकान् चकितान् अकारयत् ।
१९९१ तमे वर्षे लोकसभानिर्वाचनम् अभवत् । तदा देवेगौड: हासनलोकसभाक्षेत्रस्य परतया समाजवादीजनतादलस्य अभ्यर्थी सन् स्पर्धायां विजयं प्राप्तवान् । प्रथमवारं लोकसभां प्रविष्टवान् । १९९३ तमे वर्षे जनतादल-समाजवादीजनतादलपक्षयो: विलीनं जातम् । नूतनस्य पक्षस्य अध्यक्षरूपेण एषः चितः जातः ।
कर्णाटकमुख्यमन्त्री
[सम्पादयतु]१९९४ तमे वर्षे राज्यविधानसभानिर्वाचनम् अभवत् । तस्मिन् समये जनतादलपक्ष: राज्यस्य सर्वस्थानेषु स्वस्य आभ्यर्थीन् न्ययोजयत् । अध्यक्ष: देवेगौड: पक्षस्य विजयप्राप्त्यै निरन्तरकार्यं कृतवान् । तस्य फलरूपेण जनतापक्ष: ११६ स्थानेषु जयं प्राप्य सर्वकारस्य रचनाय अधिकारां प्राप्नोत् । १९९४ तमे वर्षे डिसेम्बर् मासस्य ११ दिनाङ्के देवेगौड: कर्नाटकस्य चतुर्दशः मुख्यमन्त्रिरूपेण अधिकारं स्वीकृतवान् ।
कर्णाटकराज्यस्य मुख्यमन्त्री सन् सः सर्वग्रामं प्रति पानजलस्य व्यवस्थां कृतवान् । 'आवारयोजना’ एतादृश: सेवा नियमान् रचयित्वा विकलाङ्गानां कृते स्वयम् उद्योगं कर्तुं व्यवस्थां कृतवान् । अपि च अशक्त महिलानां कृते 'स्वशक्ति’योजना, निर्धनानां कृते 'आरोग्यनिधि’योजना, प्रति जनपदे 'मोरार्जी वसतिशाला’, कृषिकाणां कृते ऋणस्य वृद्ध्या: विमोचनम्, इत्यादी: जनकल्याणयोजनानाम् अनुष्ठापनं कृतवान् ।
साहित्यक्षेत्रे महिलालेखिकानां प्रोत्साहनाय प्राचीनकन्नडकवयित्र्याः नाम्ना 'अत्तिमब्बे' प्रशस्तिं स्थापितवान् । 'जनतादर्शनम्' इति कार्यक्रमत: सः जनानां समस्यां ज्ञात्वा ताः परिहर्तुं शक्त: अभवत् ।
एकस्याः व्यक्ते: कृते एकमेव स्थानं भवेत् इति तत्वाधारेण देवेगौड: यदा मुख्यमन्त्री अभवत् तदा स्वस्य लोकसभासदस्यत्वं प्रति त्यागपत्रं दत्त्वा राज्यस्य जनतादलस्य अध्यक्षस्थानाय सि. एस्. इब्राहिमं चितवान् । भारते मुक्त-आर्थिकनीतेः स्थापनं मुख्यम् इति चिन्तयता तेन १९९१ तमे वर्षे भारतसर्वकारस्य उदारीकरणनीते स्वीकरणाय सहकारी जातः ।
भारतस्य प्रधानमन्त्री
[सम्पादयतु]१९९६ तमे वर्षे जून् प्रथमदिनाङ्के हरदनहळ्ळी दोड्डेगौड देवेगौड: भारतस्य द्वादश: प्रधानमन्त्री भूत्वा राष्ठ्रपत्यु: हस्तात् अधिकारं स्वीकृतवान् । कर्नाटकस्य मुख्यमन्त्रिपदं त्यक्तवान् देवेगौड: भारतस्य प्रधानमन्त्री सन् अनेकसमस्याः समर्थरीत्या परिहृतवान् । तत्रापि स्वस्य लक्ष्यं स्मरन् कृषिकानाम् अभिवृद्धिविषये चिन्तितवान् । भारतस्य प्रधानी सन् दश मासा: तेन यापिताः । तावता काङ्ग्रेस् (अइ)पक्षस्य अध्यक्ष: सीतारां केसरी महोदय: संयुक्तरङ्गपक्षस्य कृते दत्तं सहकारं प्रतिस्वीकृतवान् । तस्मात् देवेगौडस्य सर्वकार: पतित: । अत: स: १९९७ तमे वर्षे एप्रिल्-मासस्य २१ तमे दिनाङ्के भारतस्य प्रधानमन्त्रिस्थानाय त्यागपत्रं दत्तवान् ।
राष्ट्रस्य राजनैतिके क्षेत्रे उत्तमं कार्यं कृतम् इत्यतः तस्य कृते न्याषनल् प्रेस् इण्डिया १९९५ तमे वर्षे जुलै २३ तमे दिनाङ्के भारत सूर्यप्रशस्तिं दत्त्वा सम्माननम् अकरोत् ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- [१]
- [२]
- [३][नष्टसम्पर्कः]
- [४] Archived २०१०-०९-२५ at the Wayback Machine
- Official Website
|
- ↑ "JDS LEADERS – Page 2". Janata.in. Archived from the original on 2018-08-16. आह्रियत 2012-08-04.