द्राविडमुन्नेत्रकळगम्(डि.एम्.के)
द्राविडमुन्नेत्रकळगम् (डि एम् के) | |
---|---|
अध्यक्षः | एमके स्टालिन |
निर्माणम् | 1949 |
संवादपत्रिका | मुरासोलि एवं "दि राइजिङ्ग् सान्" |
श्रमिकविभागः | प्रगतिशीलश्रमिकसंगठनम् (लेवर् प्रोग्रेसिव फेडारेसन्) |
विचारधारा |
सामाजिकगणतन्त्रम् जनप्रीयतावादः |
राजनैतिकस्थितिः | केन्द्र-वाम |
मैत्रीकूटः |
राष्ट्रियजनतातान्त्रिकमैत्रीकुटः (एन् डि ए) (१९९९-२००४) संयुक्तप्रगतिशीलमैत्रीकुटः(यु पि ए) (२००४-२०१३) |
लोकसभासदस्यसंख्या |
१८ / ५४५ |
राज्यसभासदस्यसंख्या |
७ / २४५ |
विधानसभासदस्यसंख्या |
२३ / २३४ |
जालस्थानम् | |
http://www.dmk.in |
प्रसङ्गः
[सम्पादयतु]द्राविडमुन्नेत्रकळगम्(DMK) इति दक्षिणभारतीयप्रान्तस्य एकः राजनैतिकपक्षः । डि एम् के इति नाम्ना अपि पक्षोऽयं ख्यातः । न्यायपक्ष-(जस्टिस् पार्टी)द्राविड़कळगपक्षयोः विभाजितरूपः द्राविडमुन्नेत्रकळगपक्षः । १९४९ तमे वर्षे अस्य पक्षस्य स्थापना अभवत् । वर्तमाने एम करुणानिधिः द्राविडमुन्नेत्रकळगपक्षस्य अध्यक्षरूपेण विराजमानः अस्ति ।
विवरणम्
[सम्पादयतु]न्यायपक्षः(जस्टिस् पार्टी) (१९१६-१९४४)
[सम्पादयतु]- न्यायपक्षः(जस्टिस् पार्टी) द्राविडमुन्नेत्रकळगपक्षस्य मूलं भवति । १९१६ तमे वर्षे न्यायपक्षस्य(जस्टिस् पार्टी) स्थापना अभूत् । पि त्यागराया चेट्टि महोदयः अस्य पक्षस्य प्रतिष्ठाता आसीत् । न्यायपक्षस्य मुख्यः उद्देश्यः आसीत् सामाजिकसमानता एवं सर्वसामाजिकवर्गं प्रति न्यायः । न्यायपक्षः मद्रासप्रेसिडेन्सी-प्रथमसाधारणनिर्वाचने(१९२०) विजयी अभूत् ।
- १९१९ तमे वर्षे न्यायपक्षस्य प्रमुखसदस्यः इरोड वेंकट नायकर रामासामी (पेरियर्) प्रसिद्धसमाजसंस्कारकः भारतीयकांग्रेसपक्षं प्रविष्टवान् । न्यायपक्षे ब्राह्मणनेतृत्वस्य विरोधं कृत्वा सः पदत्यागं कृतवान् । १९२६ तमे वर्षे "पेरियर्"महोदयः "स्वाभिमानः" इति आन्दोलनं ब्राह्मण्यवादस्य विरोधे कृतवान् ।
- १९३५ तमे वर्षे सः भारतीयकांग्रेसपक्षात् पुनः न्यायपक्षे आगतवान् । १९३७ न्यायपक्षस्य मद्रासप्रेसिडेन्सी-प्रथमसाधारणनिर्वाचने भारतीयकांग्रेसपक्षेण(सि राजगोपालाचारि महोदयस्य नेतृत्वे) पराजयः अभवत् । सि राजगोपालाचारि महोदयः "हिन्दीभाषा"आवश्यिकविषयरूपेण पाठनीय इति प्रस्तावं निर्वाचनकालिनप्रचारे घोषितवान् । यद्यपि न्यायपक्षः(जस्टिस पार्टी) हिन्दीविरोधीप्रचारं निर्वाचनिप्रचारे करोति स्म ।
द्राविडकळगम् (१९४४-१९४९)
[सम्पादयतु]- १९४४ वर्षस्य अगस्ट्-मासे "पेरियार"महोदयः द्राविडकळगम् इति पक्षस्य स्थापनाम् अकरोत् । "पेरियार"महोदयः न्यायपक्षं परित्याज्य "स्वाभिमान"आन्दोलनस्य सालेमसम्मेलने द्राविडकळगम् इति पक्षस्य स्थापनाविषयकघोषणां कृतवान् । वस्तुतः द्राविडकळगम् इति राजनैतिकपक्षः न भुत्वा आन्दोलनरूपेण एव अधिकप्रचारितासीत् ।
द्राविडमुन्नेत्रकळगम् (डि एम् के) (१९४९- )
[सम्पादयतु]- अनन्तरवर्तीकाले "पेरियार"महोदयः तथा इतरसदस्यानां मध्ये विविधविषयेषु मतान्तरमासीत् । १९४९ तमे वर्षे अनेके सदस्याः सि एन् अण्णाडुराइ-महोदयस्य नेतृत्वे पक्षत्यागं कृतवान्तः । किंचित् अधिकवयसि "पेरियार"महोदयस्य मण्याम्माइ नामा युवत्याः साकं विवाहः अभवत् । सः स्वपत्नीं पक्षाऽध्यक्षारूपेण घोषितवान्, येन पक्षस्य वरिष्ठकार्यकर्तारः शोकग्रस्ताः आसन् । घोषणायाः प्राक् "पेरियार"महोदयस्य भ्रातृज इ वि के सम्पत् पक्षाध्यक्षासीत् ।
- १९४९ वर्षे सेप्टेम्बर्-मासस्य सप्तदशदिनाङ्के सि एन् अण्णाडुराइ-महोदयः अन्यवरिष्ठसहयोगीकार्यकर्तान् (वि आर् नेडुञ्चेळियन्, के ए मतियळगन्, एन् वि नटराजन्, इ वि के सम्पत् प्रमुखाः) नीत्वा मद्राजनगरे रायपुर-रविन्सन्-उद्याने सहस्रजनगणस्य पुरतः द्राविडमुन्नेत्रकळगम् (डि एम् के)इति पक्षस्य प्रतिष्ठापनाम् अकरोत् ।
एम् जी रामचन्द्रन्-प्रवेशः
[सम्पादयतु]- १९५३ तमे वर्षे एम् जी रामचन्द्रन् (एम् जी आर्)-महोदयः द्राविड मुन्नेत्र कळगम्-पक्षे आगतवान् । वरिष्ठः तथा जनप्रीयोऽयं नेता पक्षस्य पताका एवं प्रतीकं चलच्चित्रमाध्यमेन प्रचारं कृतवान् यथा- "अण्बे वा" । अण्णाडुराइ-महोदयः पृथक् द्राविडनाडुदेशम् इच्छन्ति स्म । परन्तु १९६२ तमे वर्षे चीनदेशेन सह युद्धकाले डि एम् के-पक्षः तस्य सिद्धान्तपरिवर्तनम् अकरोत् । यदा युद्धसमाप्तम् अभवत् तदा जनमनसि राष्ट्रभावं दृष्ट्वा पक्षः पृथक् द्राविडनाडुदेशविषयकप्रस्तावं त्यक्तवान्।
- १९६७ तमे वर्षे डि एम् के-पक्षः बहुकालम् अनन्तरं पुनः मद्रासप्रेसिडेन्सी विजीतः । वस्तुतस्तु अयमेव विजयः डि एम् के-युगस्य प्रारम्भम् अकरोत् । तथा मद्रासप्रेसिडेन्सी अनन्तरवर्तीकाले तमिऴनाडुराज्यम् अभवत् ।
- १९६९ तमे वर्षे सि एन् अण्णडुराइ परलोकं गतवान् । एम् करुणानिधिः वि आर् नेडुञ्चेळियन् च पक्षस्य उत्तरद्वायित्वं स्वीकृतवन्तौ आस्ताम्। पक्षस्य सधारणाऽध्यक्षः एम् करुणानिधिः अभवत् ।
- १९७१ तमे वर्षे विधानसभानिर्वाचने डि एम् के-पक्षः भारतीयराष्ट्रियकाङ्ग्रेसपक्षेण सह मैत्रीस्थापनम् अकरोत् । निर्वाचने मैत्रीकुटस्य विजयः जातः । मैत्रीकुटस्य १८३ निर्वाचनकेन्द्रेषु (समग्रः २३४ केन्द्राणि) विजयः अभूत् । एम् करुणानिधिः द्वितीयवारं मुख्यमन्त्रीपदवीं स्वीकृतवान् । विपक्षस्य अधीने केवलानि २५ केन्द्राणि आसन् ।
एम् जी रामचन्द्रनस्य प्रस्थानम्
[सम्पादयतु]प्रख्यातचलच्चित्राभिनेता एम् जी रामचन्द्रन्-महोदयः द्राविड मुन्नेत्र कळगम्-पक्षस्य विचारधारायाः प्रचार-प्रसारविषये मुख्यभूमिकां पलितवान् । १९७२ तमे वर्षे एम् करुणानिधिमहोदयः स्वस्य स्थापना यदा "तमिळनाडुराज्यस्य मुजिबुर-रहमान्"(तमिळनाट्टिन्-मुजिबुर)-रूपेण कृतवान् तदा विरोधं कृत्वा एम् जी रामचन्द्रन् पक्षत्यागं कृतवान् । पदत्यागं कृत्वा सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के) इति पक्षस्य स्थापनाम् अकरोत् ।
अनन्तरवर्तीपर्यायः
[सम्पादयतु]- १९७७ वर्षस्य विधानसभानिर्वाचने डि एम् के-पक्षस्य पराजयः अभूत् । एम् जी रामचन्द्रनस्य सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के) पक्षः राज्यसर्वकारः गठनम् अकरोत् । एवञ्च क्रमागतः १९८९ तमवर्षाऽवधिः ए आइ ए डि एम् के-पक्षः एव सर्वकारे आसीनः आसीत् । एम् जी रामचन्द्रन्-महोदयस्य मरणोत्तरकाले (डिसेम्बर्, १९८७ वर्षे) ए आइ ए डि एम् के-पक्षः द्विखण्डितः जातः ।
- १९८९ वर्षस्य विधानसभानिर्वाचने द्राविड मुन्नेत्र कळगम्-पक्षस्य पुनः विजयः अभवत् । १९८९ वर्षस्य जनवरी मासे एम् करुणानिधिःमुख्यमन्त्री अभूत् ।
- १९९१ तमे वर्षे विधानसभा-लोकसभानिर्वाचने द्वे आस्ताम् । मै-मासस्य २१ दिनाङ्के राजीवगान्धी पक्षस्य प्रचारनिमित्त आगतवान् । एल् टि टि ई आत्मघाती-घातकेन राजीवगान्धेः मृत्युः अभवत् । अस्मात् डि एम् के-पक्षस्य सर्वकारस्य पतनं वर्षद्वयाभ्यन्तरे अभवत् । जयललिता परिचालिता ए आइ ए डि एम् के-पक्षः सर्वकारस्य गठनम् अकरोत् । तथा जयललिता मुख्यमन्त्री च अभूत् ।
- १९९६ तमे वर्षे निर्वाचने विजयी भुत्वा द्राविड मुन्नेत्र कळगम्-पक्षः पुनः सर्वकारस्य गठनम् अकरोत् ।
- २००१ तमे वर्षे विधानसभानिर्वाचने ए आइ ए डि एम् के-पक्षः इतरपक्षैः सह मैत्रीं संस्थाप्य द्राविड मुन्नेत्र कळगम्-पक्षस्य सर्वकारस्य पतननिश्चितम् अकरोत् ।
- २००४ तमे वर्षे डि एम् के-पक्षः भारतीयराष्ट्रियकाङ्ग्रेस-एम् डि एम् के-पि एम् के-पक्षेण सह सन्धिम् अकरोत् । लोकसभानिर्वाचने पक्षस्य बहुकेन्द्रविजयः अभवत् ।
- २००६ तमे वर्षे विधानसभानिर्वाचने द्राविड मुन्नेत्र कळगम्-पक्षः विजयं प्राप्य एम् करुणानिधिं पञ्चमवारं मुख्यमन्त्रीरूपेण अभिषेकम् अकरोत् ।
- २०११ तमे वर्षे सर्वभारतीय-अण्णा द्राविड मुन्नेत्र कळगम् (ए आइ ए डि एम् के)पक्षः अध्यक्षा-जयललितानेतृत्वे सर्वकारे आगतः ।
निर्वाचनफलानि
[सम्पादयतु]मद्रासप्रेसिडेन्सी
[सम्पादयतु]वर्षः | साधारणनिर्वाचनम् | मतदातासंख्या | विजीतकेन्द्राणि |
---|---|---|---|
१९६२ | तृतीयविधानसभानिर्वाचनम् | ३,४३५,६३३ | ५० |
१९६७ | चतुर्थविधानसभानिर्वाचनम् | ६,२३०,५५२ | १३७ |
वर्षः | साधारणनिर्वाचनम् | मतदातासंख्या | विजीतकेन्द्राणि |
---|---|---|---|
१९६२ | तृतीयलोकसभानिर्वाचनम् | २,३१५,६१० | ७ |
१९६७ | चतुर्थलोकसभानिर्वाचनम् | ५,५२४,५१५ | २५ |
वर्षः | साधारणनिर्वाचनम् | मतदातासंख्या | विजीतकेन्द्राणि |
---|---|---|---|
१९७१ | पञ्चमविधानसभानिर्वाचनम् | ७,६५४,३९५ | १८४ |
१९७७ | षष्ठविधानसभानिर्वाचनम् | ४,२५८,७७१ | ४८ |
१९८० | सप्तमविधानसभानिर्वाचनम् | ४,१६४,३८९ | ३७ |
१९८४ | अष्टमविधानसभानिर्वाचनम् | ६,३६२,७७० | २४ |
१९८९ | नवमविधानसभानिर्वाचनम् | ८,००१,२२२ | १५० |
१९९१ | दशमविधानसभानिर्वाचनम् | ५,५३५,६६८ | २ |
१९९६ | एकादशविधानसभानिर्वाचनम् | ११,४२३,३८० | १७३ |
२००१ | द्वादशविधानसभानिर्वाचनम् | ८,६६९,८६४ | ३१ |
२००६ | त्रयोदशविधानसभानिर्वाचनम् | ८,७२८,७१६ | ९६ |
२०११ | चतुर्दशविधानसभानिर्वाचनम् | २३ |
वर्षः | साधारणनिर्वाचनम् | मतदातासंख्या | विजीतकेन्द्राणि |
---|---|---|---|
१९७४ | तृतीयविधानसभानिर्वाचनम् | ४७,८२३ | २ |
१९७७ | चतुर्थविधानसभानिर्वाचनम् | ३०,४४१ | ३ |
१९८० | पञ्चमविधानसभानिर्वाचनम् | ६८,०३० | १४ |
१९८५ | षष्ठविधानसभानिर्वाचनम् | ८७,७५४ | ५ |
१९९० | सप्तमविधानसभानिर्वाचनम् | १०१,१२७ | ९ |
१९९१ | अष्टमविधानसभानिर्वाचनम् | ९६,६०७ | ४ |
१९९६ | नवमविधानसभानिर्वाचनम् | १०५,३९२ | ७ |
२००१ | दशमविधानसभानिर्वाचनम् | ८३,६७९ | ७ |
२००६ | एकादशविधानसभानिर्वाचनम् | ७ |