जयप्रकाश नारायण
जयप्रकाश नारायण | |
---|---|
जयप्रकाश नारायण | |
जन्मतिथिः | ११/८/१९०२ |
जन्मस्थानम् | बलियामण्डलं, बिहारराज्यं, भारतम् |
मृत्युतिथिः | ०८/१०/१९७९ |
मृत्युस्थानम् | पटना-महानगरं, बिहारराज्यं, भारतम् |
तत्त्वचिन्तनम् | समाजवादः |
भारतस्य महान् लोकनायकः जयप्रकाशः | |
जयप्रकाश नारायण ( ( शृणु) /ˈdʒəjəprəkɑːʃə nɑːrɑːjənə/) (हिन्दी: जयप्रकाश नारायण, आङ्ग्ल: Jayaprakash Narayana) भारतस्य लोकनायकः । अस्य विषये बहूनां जनानां भ्रमः अस्ति यत्, "एषः कश्चन स्वतन्त्रसेनानी एव आसीत्, यः स्वातन्त्र्यप्राप्त्यनन्तरं स्वग्रामं गतः । ततः १९७४ तमे वर्षे देशस्य विकटपरिस्थितिं दृष्ट्वा सर्वकारस्य विरोधम् अकरोत्" इति । परन्तु भारतस्य स्वतन्त्रतायां 'गान्धी'-वत् जयप्रकाशस्य योगदानम् आसीत् । तस्य गहनचिन्तनस्य, कर्मठतायाः च परिणामः आसीत् यत्, महात्मा स्वतन्त्रभारतस्य एकाकी योद्धा (फक्कड योद्धा) इति तं सम्बोधयति स्म । महात्मा स्वकीयेषु बहुषु निर्णयेषु जयप्रकाशस्य परामर्शं, विमर्शं च स्वीचक्रुः इति तु प्रायः सर्वे जानन्ति एव ।
जन्म
[सम्पादयतु]बिहारराज्यस्य छपरामण्डलस्थे गङ्गा-सरयूनद्योः सङ्गमस्थले 'सिताब दियार'-नामकः कश्चन ग्रामः । सः ग्रामः सप्तविंशतिः (२७) द्वीपानां समूहः । तेषु सप्तविंशतिद्वीपेषु 'लाला का टोला' इति स्थानम् अन्तर्भवति । तस्मिन् स्थाने लाला हरसू दयाल इत्यस्य कस्यचित् मण्डलाधिकारिणः निवासः । तस्य पत्न्याः नाम फूल रानी इति । तस्य एकः पुत्रः, द्वे पुत्र्यौ च । तस्य पत्नी तृतीयवारं गर्भं धरते । परन्तु तस्मिन् वर्षे अर्थात् १९०२ तमे वर्षे ग्रामे 'प्लेग्' इत्यस्य रोगस्य प्रकोपः उद्भूतः । अतः लाला हरसू दयाल सपरिवारं बिहारराज्यस्य बलियामण्डलस्य बाबू खानी इतीदं स्थलम् अगच्छत् [१] । १९०२ तमस्य वर्षस्य 'अगस्त'-मासस्य एकादशे (११) दिनाङ्के तस्य पत्नी एकं बालकम् अजनयत् [२] । सः बालकः एव अस्माकं लोकनायकः जयप्रकाश नारायण ।
परिवारः
[सम्पादयतु]जयप्रकाशस्य द्वौ भ्रातरौ, द्वे भगिन्यौ च आसन् । तेषां नामानि क्रमेण हरिप्रकाशः, चन्द्रभानुः, चन्द्रकला, राजेश्वरः । त्रयोदशे वयसि हरिप्रकाशस्य 'हैजा'-रोगेण मृत्युः अभवत् । 'प्लेग्'-रोगग्रस्ता चन्द्रभानुः अपि दिवङ्गता । हरिप्रकाशचन्द्रभानू मृते सति जयप्रकाशः, चन्द्राकला च यदा बालौ आस्ताम्, तदा राजेश्वरस्य जन्म अभवत् [३][४] ।
बाल्यं शिक्षणञ्च
[सम्पादयतु]जयप्रकाशः यद्यपि चतुर्वर्षीयः अभवत्, तथापि तस्य दन्ताः न स्फुटिताः । अतः तस्य नाम 'बउल' इति प्रसिद्धमभवत् । 'बउल' इत्यस्य शब्दस्य अर्थः भवति अदन्ती (a person who doesn't have teeth) । ग्रामे 'बउलजी', 'बउल भैया' इति प्रसिद्धः आसीत् सः । तस्य विद्यारम्भसंस्कारः षड्वर्षे वयसि अभवत् । तस्य पितरौ तं ग्रामस्य प्राथमिकशालायां पठितुम् प्रैषयेताम् । प्राथमिकशिक्षानन्तरं माध्यमिकशिक्षां प्राप्तुम् सः पटना-महानगरम् अगच्छत् । पटना-महानगरस्य 'कोलेजीएट्'-विद्यालये सः प्रवेशं प्रापत् । जयप्रकाशस्य विद्यालयप्रवेशस्य षण्मासानन्तरं तस्य शिक्षकस्य स्थानान्तरणम् अभूत् । नवीनशिक्षकः ब्रिटिश-जनः आसीत् । सः ज्ञात्वैव "रक्षाबन्धनस्य पर्वदिने परीक्षा भविष्यति" इति अघोषयत् । भयभीताः विद्यार्थिनः तस्य विरोधं न अकुर्वन् । परन्तु जयप्रकाशः, तस्य पञ्चमित्राणि च रक्षाबन्धनपर्वदिने परीक्षायाम् अनुपस्थिताः आसन् । अतः द्वितीये दिने शिक्षकः अपृच्छत्, “ह्यः यूयं किमर्थं नागताः ?" इति । जयप्रकाशः उदतरत् (answered), “रक्षाबन्धनत्वात् वयं न आगताः” इति । आरम्भे तु शिक्षकः अक्रुध्यत् । परन्तु जयप्रकाशस्य स्पष्टोत्तरैः, बहुतर्कवितर्कानन्तरं च शिक्षकः अवदत्, “युष्माकं परीक्षा पश्चात् नेष्यामि, तत्र न कापि बाधा” इति । तस्मिन् विद्यालये जयप्रकाशस्य चरित्रविकासः अभूत् । तस्य विद्यालयस्य आचार्यः अमजद अली खान आसीत् । सः बालानां ज्ञानेन सह तेषां मानसिक-शारीरिकविकासविषये अपि चिन्तनं करोति स्म । तत एव जयप्रकाशस्य मनसि देशभक्त्याः, राष्ट्रवादिविचाराणां च चिन्तनं प्रारब्धम् । यदा जयप्रकाशः पटना-महानगरस्य विद्यालये पठन् आसीत्, तदा तस्य भगिन्याः चन्द्रकलायाः विवाहः ब्रज बिहारी सहाय-नामकेन युवकेन सह अभूत् । अतः जयप्रकाशः भगिन्या सह तस्याः गृहे न्यवसत् । जयप्रकाशस्य आवुत्तः (sister’s husband) पटना-महानगरस्य उच्चन्यायालये वाक्कीलः आसीत् । 'कोलेजीएट्'-विद्यालये जयप्रकाशस्य माध्यमिकशिक्षणं पूर्णमभवत् । अतः सः पटना-महानगरस्थे महाविद्यालये पौढाध्ययनं प्रारभत ।
१९१७ तमे वर्षे बकरी ईद् इत्यस्य अवसरे शाहाबाद-स्थलस्य ग्रामेषु हिन्दु-यवनयोः साम्प्रदायिकहिंसा अभूत् । बहवः हिन्दवः यवनाः च मृताः । अतः सर्वत्र तस्य कलहस्यैव चर्चा चलन्ती आसीत् । जयप्रकाशः स्वमित्रैः सह चर्चां कुर्वन् आसीत् । तत्र हिन्दु-यवनयोः साम्प्रदायिकहिंसायाः चर्चा आरब्धा एकेन । कश्चित् मित्रं स्वविचारान् प्राकटयत्, “अस्माकं देशस्य यवनाः स्वराजप्राप्तेः मार्गे अवरोधकाः एव सन्ति” इति । तस्य समर्थनं बहवः विद्यार्थिनः अकुर्वन् । उग्रस्वरेण जयप्रकाशः तस्य विरोधमकरोत् । सः अवदत्, “एतादृशं चिन्तनम् उचितं नास्ति” इति । स्वस्य जीवने प्रथमवारं जयप्रकाशः एतदृश्यां चर्चायां भागम् अवहत् । ततः सः स्वविचारान् पौनःपुन्येन सर्वेषां समक्षम् उपस्थापयति स्म । १९१९ तमे वर्षे 'मैट्रिक'-परीक्षायां जयप्रकाशः प्रथमश्रेण्या उत्तीर्णः । ततः सः पटना-महाविद्यालये 'इण्टर्' इत्यस्य अध्ययनं प्रारभत । यदा सः 'इण्टर्' पठन् आसीत्, तदा तेन तोता राम सनाढ्य इत्यनेन लिखितं महात्मनः जीवनसम्बद्धम् किञ्चित् पुस्तकं पठितम् । तस्मात् पुस्तकात् सः बहुज्ञानम् अर्जयत् । महात्मनः सत्याग्रहः, अहिंसा, राष्ट्रभावना इत्यादीनां विचाराणां आचरणं सः स्वजीवने प्रारभत । ततः १९२२ तमे वर्षे जयप्रकाशः अमेरिका-देशम् उच्चशिक्षां प्राप्तुम् अगच्छत्ल [५] । सः सप्तवर्षं यावत् तत्र अपठत् । १९२९ तमस्य वर्षस्य 'अगस्त'-मासस्य त्रयोदेशे (१३) दिनाङ्के सः 'एम्.ए' इति पदवीं प्रापत्, डॉक्टरेट् (Ph.D) पठितुम् ऐच्छत् च । परन्तु तस्य माता अस्वस्था आसीत् । अतः सः भारतं प्रत्यागच्छ्त् [६] ।
विवाहः
[सम्पादयतु]भारतीयक्रान्तिकाले बहवः क्रान्तिकारिणः तनु-मनो-धनैः राष्ट्रस्वतन्त्रतायै योगदानम् अयच्छन् । तेषु बहूनां धारणा आसीत् यत्, “विवाहः तु बन्धनमेव । तेन स्वातन्त्र्यसङ्ग्रामः शिथिलः भविष्यति” इति । परन्तु जयप्रकाशस्य विचाराः तु सकारात्मकाः आसन् । तस्य दृष्टौ स्त्रीः जीवनस्य पथि साधिका एव भवति न तु बाधिका । अतः सः बिहारराज्यस्य श्रीनगर-ग्रामस्य प्रतिष्ठितवाक्कीलस्य व्रज किशोर इत्यस्य पुत्र्या सह विवाहम् अकरोत् । जयप्रकाशस्य पत्न्याः नाम आसीत् प्रभावती । १९२० तमे वर्षे विवाहस्य पवित्रबन्धने यदा तौ बद्धौ, तदा जयप्रकाशः अष्टादशवर्षीयः, प्रभावती चतुर्दशवर्षीया च आसीत् । तदा विवाहे वरदक्षिणायाः (दहेज/dowry) प्रथा प्रचलिता आसीत् । परन्तु महात्मनः विचाराणाम् अनुगामी जयप्रकाशः वरदक्षिणां न स्व्यकरोत् । विवाहानन्तरं जयप्रकाशः यदा उच्चशिक्षां प्राप्तुम् अमरिका-देशम् अगच्छत्, तदा प्रभावती देशसेवायै गुजरातराज्यस्य साबरमती-आश्रमम् अगच्छत् [७] । महात्मनः सान्निध्यं सम्प्राप्य सा तत्र महात्मनः पुत्रीत्वेन पत्युः विरहवर्षाणि अयापयत् ।
महात्मा १९०६ तमे वर्षे ब्रह्मचर्यस्य प्रतिज्ञाम् अकरोत् । ततः तेन प्रभाविताः बहवः जनाः तस्य अनुगमनम् अकुर्वन् । तेषु अनुगामिषु प्रभावती अन्यतमा । साऽपि ब्रह्मचर्यपालनस्य निश्चयम् अकरोत् । सा स्वनिश्चयस्य विषये महात्मानम् अवदत् । परन्तु महात्मा तस्यै परामर्शम् अयच्छत्, “तव पतिः तु अमेरिका-देशे अस्ति । तेन सह चिन्तयित्वा ब्रह्मचर्यस्य सङ्कल्पः क्रियते चेदेव उचितम्” इति । ततः प्रभावती जयप्रकाशं पत्रं लिखित्वा स्वसङ्कल्पविषये असूचयत् । जयप्रकाशः उदतरत्, “एतादृशं विषयं पत्राचारेण चर्चयेव इति योग्यं नानुभवाम्यहम् । अतः स्वदेशं यदा प्राप्स्यामि, तदैव चर्चयिष्यावः” इति । ततः अमेरिका-देशात् पुनरागत्य जयप्रकाशः तया सह ब्रह्मचर्यसम्बद्धां चर्चाम् अकरोत् । जयप्रकाशः प्रभावत्याः ब्रह्मचर्यस्य निर्णयेन दुःखितः आसीत् । तयोः परस्परं बहुवारं चर्चाः अभूवन् । परन्तु ताः चर्चाः निष्फलाः एव आसन् । अतः जयप्रकाशः प्रभावतीं नीत्वा साबरमती-आश्रमम् अगच्छत् । महात्मना सह जयप्रकाशस्य प्रथममेलनम् आसीत् तत् । अतः तस्य हृदि हर्षः, क्रोधः च इत्यनयोः मिश्रभावः आसीत् । दीर्घकालं यावत् तेषां त्रयाणां ब्रह्मचर्यसम्बद्धा चर्चा अभवत् । परन्तु जयप्रकाशस्य मनोद्वेगः शान्तः नाभूत् । अतः गृहं प्रत्यागत्य जयप्रकाशः महात्मना सह पत्राचारं प्रारभत । सः वारंवारं महात्मानं न्यवेदयत् यत्, "प्रभावतीं बोधयतु, सा ब्रह्मचर्यस्य सङ्क्लपं त्यजेत्" इति । एकस्मिन् पत्रे महात्मा जयप्रकाशम् अबोधयत् यत्, "त्वं द्वितीयविवाहं कुरु । कारणं तव पत्नी ब्रह्मचर्यस्य सङ्कल्पं त्यक्तुं नेच्छति" इति । तत् पत्रं जयप्रकाशस्य हृदयं द्रव्यकरोत् (पिघला दिया) । सः अन्वभवत् यत्, “मम पत्नी ब्रह्मचर्यव्रतं पालयितुम् एतावती उत्सुका अस्ति चेत्, मया तस्याः निर्णयस्य सम्माननं कर्तव्यमेव” इति । ततः सोऽपि ब्रह्मचर्यस्य पालनं प्रारभत ।
स्वातन्त्र्यसङ्ग्रामाय योगदानम्
[सम्पादयतु]१९३० तमे वर्षे नेहरू इत्यस्यानुरोधेन जयप्रकाशः इलाहाबाद-महानगरम् अगच्छत् । इलाहाबाद-महानगरे सः स्वराजभवन-नामके गृहे न्यवसत् [८] । तत् भवनं नेहरू इत्यस्य आनन्दभवनस्य समीपे आसीत् । अतः नेहरू-जयप्रकाशयोः सम्बन्धः घनिष्टः अभूत् । तदानीन्तन आङ्ग्लसर्वकारस्य 'वायसरॉय्' कोङ्ग्रेस-पक्षं सर्वकारविरोधी पक्षत्वेन अघोषयत् । अनया घोषणया भारते स्वतन्त्रतान्दोलनस्य वेगः अवर्धत । न केवलं जयप्रकाशः एव, अपि तु तस्य पत्नी प्रभावती अपि स्वातन्त्र्यान्दोलनाय स्वयोगदानम् अयच्छत् । इलाहाबाद-कोङ्ग्रेस-महिलाविभागस्य नेतृत्वं कमला नेहरू, प्रभावती च कुर्न्वन्त्यौ आस्ताम् । एकस्मिन् आङ्ग्लविरोधिसम्मेलने ते निगृहीते अभवताम् । प्रभावत्याः वर्षद्वयस्य कारावासः जातः । प्रभावती यदा कारागारे बन्दिनी आसीत्, तदा इङ्ग्लैण्ड-देशात् भारतस्य वास्तविकस्थितिं द्रष्टुं शिष्टमण्डलम् आगतमासीत् । जयप्रकाशः भारतस्य विविधक्षेत्राणां वास्तविकस्थितिं तस्य मण्डलस्य समक्षम् उपस्थापयत् । तेन आङ्ग्लसर्वकारस्य मानहानिः अभूत् । अतः कृद्धाः आङ्ग्लाधिकारिणः येन केनापि प्रकारेण कोलकाता-महानगरे जयप्रकाशं कारागारं प्रेषितवन्तः । कोलकाता-उच्चन्यायालयस्य न्यायाधीशः तं कोलकाता-महानगरस्य कारागारात् नासिक-नगरस्य कारागारं प्रैषयत् । १९३३ तमे वर्षे जयप्रकाशः कारागारात् मुक्तः अभूत् । १९३४ तमे वर्षे बिहारराज्ये विनाशकारी भूकम्पः जातः । अतः जयप्रकाशः सर्वं कार्यं त्यक्त्वा भूकम्पग्रस्तानां सेवाकार्ये संलग्नः अभूत् ।
१९३९ तमे वर्षे द्वितीयविश्वयुद्धस्य आरम्भः अभूत् । अतः स्वतन्त्रतासम्बद्धां चर्चां कर्तुं पटना-महानगरे 'कोङ्ग्रेस सोशलिस्ट् पार्टि' इत्यस्य सभा आरब्धा । तस्यां सभायां जयप्रकाशः मुख्यवक्ता आसीत् । सः अवदत्, “एतत् युद्धं साम्राज्यवादि अस्ति । अतः अस्माभिः तस्य विरोधः कर्तव्य एव । किञ्चत् कालानन्तरं सभाकरणाय, सम्मेलनकरणाय प्रतिबन्धस्य आदेशाः भविष्यन्ति । अतः अस्माभिः सद्यः एव देशस्वतन्त्रतायै निर्णयः कर्तव्यः । युद्धवातावरणे यदि एतादृशाः आदेशाः भवन्ति, तर्हि अस्माभिः तस्य पालनं न कर्तव्यम् । वीथीषु, गृहस्य अलिन्देषु (on terrace) स्थित्वा वयं स्वतन्त्रतायै सभाः करिष्यामः” इति ।
भारते आपतितायाः युद्धसमस्यायाः देशस्य समक्षं त्रयः विकल्पाः आसन् । युद्धे भारतदेशः ब्रिटन्-देशस्य साहाय्यं कुर्यात् इति प्रथमः विकल्पः महात्मना उपस्थापितः । युद्धस्य विरोधं कृत्वा यथा आङ्ग्लाः देशत्यागं कुर्युः, तथा चिन्तनीयम् इति द्वितीयः विकल्पः जयप्रकाशेन उपस्थापितः । ब्रिटन्-सर्वकारः भारतसम्बद्धायाः युद्धनीतेः घोषणां कुर्यात् इति तृतीयविकल्पस्तु कोङ्ग्रेस-पक्षस्य गान्धी-जयप्रकाशयोः विकल्पयोः सम्मिश्रणमासीत् । तदा या स्थितिः आसीत्, तस्याः वर्णनं जयप्रकाशः अकरोत् । सः अलिखत्, “एतस्मिन् काले देशे विचित्रवातावरणस्य दर्शनं कुर्वन्नस्मि अहम् । राजनीतिः दूषिता भवन्ती अस्ति । कुत्रचित् वादविवादाः, कुत्रचित् परस्परम् अभियोगाश्च भवन्तः सन्ति । कश्चित् जनः अन्यस्य जनस्य विरोधं कुर्वन् अस्ति इति अहं पश्यन् अस्मि । कोङ्ग्रेस-पक्षस्य स्थापनायाः चतुःपञ्चाशत् (५४) वर्षाणि अभवन् । एतेषु वर्षेषु महता परिश्रमेण सङ्घटितस्य पक्षस्य विभाजनं मा भूयात् इति मे इच्छा । सद्यः देशाय महात्मनः आवश्यकता अधिका अस्ति । परन्तु महात्मा 'वायसरॉय्' इत्यस्य कथने विश्वसिति । अतः महात्मना 'वायसरॉय्'-सदृशेभ्यः आङ्ग्लाधिकारिभ्यः सावधानेन भाव्यम् । यदि महात्मा 'चेम्बर् लेन्'-प्रस्तावम् अङ्गीकरोति, तर्हि भारतीयानां स्वतन्त्रतान्दोलनं, प्रजातान्त्रिकशान्तिः, न्यायप्रणालीत्यादयः नश्यन्ति । एतस्मिन् युद्धे ब्रिटिश्-जनानां कशेरु(spine)भङ्गः भविष्यति । अतः अस्माभिः तेषां सहायकरणे, 'चेम्बर् लेन्'-प्रस्तावस्य अङ्गीकारे च कोऽपि लाभः नास्ति” इति ।
जयप्रकाशस्य एतादृशात् विद्रोहिभाषणात् आङ्ग्लसर्वकारः क्रुद्धः सन् तं पुनः कारागारं प्रैषयत् । १९४० तमस्य वर्षस्य 'मार्च'-मासस्य षोडशे (१६) दिनाङ्के ‘हरिजन’-मासिके महात्मा जयप्रकाशस्य कारावासविषये स्वप्रतिक्रियाम् अलिखत्, “जयप्रकाशं कारागारे प्रेषयित्वा सर्वकारेण स्वस्मै महती विपदा जनिता अस्ति । जयप्रकाशः कोऽपि लघुकार्यकर्ता नास्ति । सः तु समाजवादस्य प्रवक्ता अस्ति । तस्य जीवने विश्रामाय समयः अपि नास्ति । सः एकाकी योद्धा (फक्कड़ लड़वैया) अस्ति । तस्य कारावासेन सर्वकारस्यैव हानिः अस्ति” इति । महात्मनः कथनानन्तरं नेहरू अपि स्वभाषणे जयप्रकाशस्य कारावासस्य निन्दाम् अकरोत् । एवं सर्वे नेतारः, देशवासिनः च जयप्रकाशस्य कारावसस्य विरोधम् अकुर्वन् ।
न्यायालये अभियोगस्य काले जयप्रकाशः न्यायाधीशस्य समक्षम् अवदत्, “युद्धं सफलं कर्तुं यानि अस्त्राणि, शस्त्राणि, अन्यानि वस्तूनि च आवश्यकानि आसन्, तेषां सङ्ग्रहणे सर्वकारस्य यः प्रयासः आसीत्, तस्मिन् प्रयासे अहं विघ्नम् अजनयम् इति सर्वकारेण मयि आरोपणं कृतम् अस्ति । परन्तु सर्वकारेण मयि आरोपत्वेन यत् लाञ्छनं कृतमस्ति, तत् तु भारतमातरं प्रति मम कर्तव्यमासीत् । अतः तं कर्तव्यात्मकम् आरोपम् अहं सहर्षम् अङ्गीकरोमि । अस्य आरोपस्य यः कोऽपि दण्डः अस्ति, सः मया स्वीक्रियते" इति ।
अग्रे सः अवदत्, "भारतस्य स्वतन्त्रतायाः लक्ष्ये अवरोधम् उत्पादयितुं सर्वकारेण आङ्ग्लन्यायव्यवस्था रचिता अस्ति । अतः अस्मभ्यं (भारतीयेभ्यः) तस्याः न्यायव्यवस्थायाः विरोधः स्वाभाविकः अस्ति । मम देशः विश्वयुद्धे भागं न गृहिष्यति । यतो हि शोषण-आधिपत्य-अत्याचार-प्रभुत्वादि-स्वार्थपूर्णेभ्यः उद्देशेभ्यः जर्मनि-ब्रिटन्-देशौ युद्ध्यमानौ स्तः । भारते स्थिताः एकाकिनः आङ्ग्लाः तु यद्धे धूलिकामग्नाः भविष्यन्ति इति ते जानन्ति । अतः ते भारतीयजनानां साहाय्येन एतत् युद्धं कर्तुम् इच्छन्ति, येन ते चिरकालं यावत् भारतस्योपरि आधिपत्यं कर्तुं शक्नुयुः । कोऽपि भारतीयः स्वार्थपूर्णे, साम्राज्यवादसमर्थके एतस्मिन् युद्धे भागम् ओढुं न इच्छति । सः स्वस्य देशस्य सम्पदां देशस्वतन्त्रतायै व्ययं कर्तुम् इच्छति, न तु अन्येन सह युद्धं कृत्वा स्वस्य पराधीनतायाः लोहपाशं दृढं कर्तुम् । भारतीयजनानां युद्धस्य विरोधं दृष्ट्वा अपि तस्मिन् विरोधविषये आङ्ग्लैः न किमपि अवधानं कृतम् । भारतीयानाम् इच्छाविरुद्धं भारतस्य जन-धन-साधनानाम् उपयोगं ते कुर्वन्तः सन्ति । जर्मन्-जनाः यथा पोलेण्ड्-देशस्योपरि आक्रमणम् अकुर्वन्, तथैव भारतस्योपरि आङ्ग्लानाम् आक्रमणमेतत् । वयं भारतीयाः अस्याक्रमणस्य प्रतीकारं निश्चयेन करिष्यामः । अहम् एतावता यत् अवदं, देशजनानाम् उपरि तस्य कीदृशः प्रभावः भविष्यति इति तु अहं न जाने । परन्तु मम वचनेन युद्धस्य सञ्चालनकार्ये बाधा उद्भूता अस्ति इति श्रुत्वा अहं बहु आनन्दम् अनुभवामि । अतः न्यायाधीशः यां कामपि शिक्षां दद्यात् तस्यै अहं प्रस्तुतः” इति ।
तस्य वचनस्यानन्तरं न्यायधीशस्तु शून्यत्वमेव अनुभवन् आसीत् । किंवक्तव्यमूढं तम् उद्दिश्य जयप्रकाशः पुनः तीव्रवचनप्रहारं प्रारभत । सः जानाति स्म "मम एतत् कथनं देशजनाः ध्यानेन शृण्वन्तः सन्ति । कारागारे स्थित्वापि अहं देशजनेभ्यः सन्देशं दातुम् इच्छामि चेत्, एतत् उत्कृष्टं स्थलमस्ति" इति । अतः सः किञ्चित् विरम्य सारांशत्वेन कानिचन गूढानि वाक्यानि अवदत् । “भारतस्य रक्षाकार्ये अहं विघ्नम् उत्पादितवान् इति दोषारोपणं मयि सर्वकारेण कृतमस्ति, तस्य उपहासार्थम् अहं किं वदानि ? परन्तु आङ्ग्लाः स्मरेयुः यत्, बन्दी स्वस्य बन्धनकारणानां रक्षणाय बद्धः न भवति । परन्तु सः स्वस्य बन्धनकारणं नाशयितुं बद्धः भवत्येव इति तु निश्चितम् । साम्राज्यवादस्य, 'नाजी'-वादस्य (नाजी-वादः कश्चन राजनैतिकवादः । नाजी-वादस्य अर्थः यः बलवान् अस्ति, स एव राष्ट्रस्य, संसारस्य वा शासनं बलेन स्वहस्तगतं कुर्यात् इति । एषः वादः व्यक्तिस्वातन्त्र्यस्य, लोकतन्त्रस्य च विरोधी अस्ति । अडॉल्फ् हिट्लर् 'नाजी'-वादी इति इतिहासविदां मतम् अस्ति ।) च अहं विरोधी अस्मि । अहं तु केवलं मम देशस्य स्वतन्त्रताम् एव इच्छामि” इति ।
जयप्रकाशस्य एतत् ऐतिहासिकं भाषणं महात्मा स्वस्य ‘हरिजन बन्धु’-नामकस्य मासिकस्य प्रथमे पृष्ठे अलिखत् । लेखस्य शीर्षकम् आसीत् “धीरयोद्धुः भाषणं (बहादुर योद्धा का बयान)” इति । १९४० तमस्य वर्षस्य अन्ते भारतीयानाम् आग्रहेण जयप्रकाशः कारागारात् विमुक्तः । ततः जयप्रकाशः महात्मानं, सुभाष चन्द्र बोस इत्येनं च अमिलत् । मेलनानन्तरं जयप्रकाशः कांश्चन आङ्ग्लविरोधिनीं गुप्तसंस्थाम् अस्थापयत् । तस्याः संस्थायाः कार्यकर्तारः ग्रामं ग्रामम् अटन्तः आङ्ग्लविरोधिजनमताय कार्यं कुर्वन्तः आसन् । ततः 'करो या मरो'-आन्दोलने, 'भारत छोडो' आन्दोलने च सक्रियरूपेण जयप्रकाशः भागम् अवहत् [९] ।
भारतस्वतन्त्रतानन्तरं जयप्रकाशः
[सम्पादयतु]१९५७ तमे वर्षे जयप्रकाशः समाजवादिपक्षात् आत्मानं भिन्नमकरोत् । सः केवलं समाजवादविषये बालान् पाठयति स्म । ततः जयप्रकाशः समाजवादस्य विचारकत्वेन प्रसिद्धः अभवत् । तेन वैदेशिकाः अपि आकर्षिताः अभवन् । अतः ते जयप्रकाशं स्वदेशम् आह्वयन् । अनेकेषु देशेषु अटनं कृत्वा सरलः जयप्रकाशः समजवादस्य सङ्कल्पनाम् अबोधयत् । सः षण्मासं यावत् इङ्ग्लैण्ड्-फ्रान्स्-जर्मनि-स्विट्जर्लैण्ड्-पोलेण्ड्-जेकोस्लोवाकिया-इज्राइल्-मिस्र-लेबनान्-पाकिस्थानादीनां देशानां प्रवासमकरोत् ।
१९५९ तमे वर्षे जयप्रकाशः 'भारतीय राजव्यवस्था का पुनर्निमाण' इति निबन्धम् अलिखत् । तस्मिन् लेखे सः अलिखत्, “पक्षयोः मध्ये या राजनीतिः भवति, सा पक्षप्रधाना राजनीतिः मिथ्याभाषिणः नेतॄन् जनयति । पक्षप्रधानराजनीत्याः कुपुत्राः ते मिथ्याभाषिणः नेतारः कपटप्रेरितराजनीत्यै कार्यं कुर्वन्ति । पक्षप्रधानराजनीत्यां सर्वदा राष्ट्रभावनायाः अपेक्षया पक्षः एव प्रधानः भवति । अतः स्वस्य पक्षस्य हितं यत्र रक्षितं भवति, तत्र कलहस्थितिं निवारयन्ति ते । अन्यथा स्वपक्षस्य हितं रक्षितुं कलहस्थितिमपि जनयन्ति ते नेतारः । राज्यस्य, देशस्य वा सञ्चालने जनानां साक्षात् योगदानं न भवदस्ति । अतः लघवः पक्षाः जनानां प्रतिनिधित्वेन शासनं कृत्वा लोकतन्त्राधारितस्य शासनस्य आडम्बरं कुर्वन्ति । परन्तु तस्मिन् शासने नेतारः केवलं स्वस्य, स्वपक्षस्य च स्वार्थस्य सिद्धिं कुर्वन्ति । देशस्य हितं न चिन्तयन्ति” इति ।
तेन एतादृशानि अनेकानि भाषणानि कृतानि । ततः १९६१ तमे वर्षे चीनयुद्धकाले, १९६५ तमे वर्षे पाकिस्थानयुद्धकाले च जयप्रकाशः सुष्ठुरीत्या भारतीयसर्वकारस्य मार्गदर्शनमकरोत् ।
जयप्रकाशस्य निवृत्तिः
[सम्पादयतु]१९७१ तमस्य वर्षस्य 'नवम्बर'-मासस्य षोडशे (१६) दिनाङ्के जयप्रकाशस्य हृदयाघातः अभूत् । सः मासत्रयं रुग्णालये (hospital) यापयत् । ततः सः १९७२ तमस्य वर्षस्य 'फरवरी'-मासस्य अष्टाविंशति(२८)तमे दिनाङ्के रुग्णालयात् गृहम् प्राप्नोत् (reached) । तदनन्तरं तेन गृहे कानिचन दिनानि एव व्यतीनानि आसन् । एकस्मिन् दिने स्वस्य पत्न्याः स्वास्थ्यं सम्यग्नास्ति इति तेन सूचना प्राप्ता । वैद्यः तस्याः शल्यक्रियाम् (operation) अकरोत् । शल्यक्रियानन्तरं ज्ञानमभवत् यत्, प्रभावती तु कर्करोगेण (cancer) ग्रस्ता अस्ति । जयप्रकाशस्य भ्रातृपुत्रस्य नाम अनिलः आसीत् । सः प्रभावत्याः प्रियः आसीत् । अतः प्रभावती तस्य विवाहे तु भवेदेव इति गृहे सर्वेषाम् इच्छासीत् । अतः १९७३ तमस्य वर्षस्य 'अप्रैल'-मासस्य सप्तदशे (१७) दिनाङ्के अनिलस्य विवाहः निश्चितः कृतः । परन्तु प्रभावत्याः स्वास्थ्यम् अधिकं शिथिलम् अभवत् । अतः १९७३ तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चदशे (१५) दिनाङ्के अनिलस्य विवाहः निश्चितः । परन्तु प्रभावती चतुर्दशस्य (१४) दिनाङ्कस्य रात्रौ एव दिवङ्गता । प्रभावत्याः इच्छायाः पूर्त्यै पञ्चदशे दिनाङ्के एव अनिलस्य विवाहः अभवत् ।
प्रभावत्याः मृत्योः अनन्तरं जयप्रकाशस्य जीवने निराशा उद्भूता । सः राजनीति-पाठन-भाषणादीनि सर्वाणि कार्याणि त्यक्त्वा स्वस्य गृहे एव निवसति स्म । मितभाषी सन् सः सात्विकजीवनं यापयन् आसीत् । परन्तु इतोऽपि भारतमातुः सेवा जयप्रकाशस्य भाग्ये आसीत् । आजीवनं सः आङ्ग्लानाम् अत्याचारेभ्यः देशस्य रक्षणम् अकरोदेव । ततः अपि अधिकं तस्य योगदानम् इदमस्ति यत्, अराजकतायाः कारणेन देशस्य स्थितिः यदा विस्फोटकी अभूत्, तदा जयप्रकाशः तस्याः स्थितेः विषये नावदिष्यत् चेत् देशस्य महती हानिः अभविष्यत् ।
भारतीयराजनीतिक्षेत्रस्य कलङ्करूपः १९७५ तमस्य वर्षस्य आपत्कालः । जयप्रकाशस्य पक्षाधारितस्य राजनीतेः बहिष्कारस्य समर्थकी एषा घटना । १९७४ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्विंशतितमे (२४) दिनाङ्के फखरुद्दीन अली अहमद राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् । तस्य यदा राष्ट्रपतित्वेन दायित्वम् आसीत्, तदा प्रधानमन्त्री इन्दिरा गान्धी आसीत् । परन्तु तस्याः राजनैतिकस्थितिः समीचीना नासीत् । यतो हि पुत्रप्रेम्णा ग्रस्ता सा देशस्य हितं विस्मृतवती आसीत् । तस्याः पुत्रः सञ्जय गान्धी, तन्मित्राणि च सर्वकारत्वेन कार्यं कुर्वन्तः आसन् । तेषां निर्णयाः देशहिताय न अपि तु देशस्य अहिताय एव आसन् । भारतीयजनसङ्ख्यां नियन्त्रितुं ते 'नसबन्धी' इत्यस्य अभियानस्य घोषणाम् अकुर्वन् । तस्मिन् अभियाने सञ्जय गान्धी इत्यस्य कृपादृष्टिं प्राप्तुं केचन मुख्यमन्त्रिणः तु अष्टादशवर्षीयाणां यूनाम् आरभ्य षष्ठिवर्षीयाणां वृद्धानां 'नसबन्धी' अकारयन् । एतत् तु उदाहरणमासीत्, इतोऽपि असांविधानिक-अराजनैतिक-अमानवीयनिर्णयाः सर्वकारेण जनेषु आरोपिताः आसन् । उत्कोचं विना सर्वाकारिविभागेषु कार्यं न भवति स्म । नेतारः भ्रष्टाचारं कृत्वापि दण्डं न प्राप्नुवन्ति स्म । सर्वत्र अराजकतायाः वातावरणमासीत् [१०] ।
जयप्रकाशस्य पत्न्याः मृत्युः अभवत् । तेन सः निराशः गृहे स्थितः आसीत् । परन्तु बिहारराज्यस्य छात्राणां स्थितिः दयनीया आसीत् । १९७४ तमस्य वर्षस्य 'मार्च'-मासस्य अष्टादशे (१८) दिनाङ्के पटना-विश्वविद्यालयस्य छात्राः सर्वकारविरोधिप्रदर्शनम् अकुर्वन् । प्रदर्शनं कुर्वन्तः ते बिहारविधानसभायाः पुरः प्राप्ताः । तेषां विद्यार्थिनां दमनं कुर्वन्तः बिहारराज्यस्य आरक्षकाः छात्रेषु दण्डानां प्रहारम् अकुर्वन् । तेन तत् प्रदर्शनं हिंसकप्रदर्शने परिवर्तितम् । तस्यां हिंसायां दश विद्यार्थिनः मृताः । ततः छात्राः जयप्रकाशं मार्गदर्शनार्थम् अप्रार्थयन् । परन्तु जयप्रकाशस्य स्वास्थ्यं समीचीनं नासीत् । अतः सः मार्गदर्शनस्य प्रस्तावं निराकरोत् । स्वल्पेषु दिनेषु किङ्कर्तव्यमूढाः केचन छात्राः जयप्रकाशं पुनः मार्गदर्शनाय आह्वयन् ।
जयप्रकाशः छात्राणां कष्टं ज्ञात्वा तेषां मार्गदर्शनाय सिद्धः अभवत् । देशस्य समस्यायाः विषये सः भाषणम् अयच्छत् । सः अवदत्, “सर्वकारेण एतत् स्मरणीयं यत् तस्य निर्णयैः जनसामान्यानां दुःखं वर्धते । तेन दुःखेन सन्तप्ताः एव ते हिंसायाः विचारं कुर्वन्ति । अहं किमर्थम् एतेषां साहाय्यं करोमि इत्यस्य प्रश्नस्य एकमेव उत्तरमस्ति । भ्रष्टाचारं, कुशासनं च दृष्ट्वा अहं तूष्णीं स्थातुं न शक्नोमि । एषा स्थितिः भारते कुत्रचिदपि भवेत् । तस्याः स्थितेः कारणं तु सर्वकारः एवास्ति । देशस्य एतादृशीं स्थितिं दृष्टुम् अहं स्वतन्त्रतान्दोलनेषु भागं नावहम्” इति ।
१९७४ तमस्य वर्षस्य 'अप्रैल'-मासस्य एकोनविंशति(१९)तमे दिनाङ्के बिहारराज्यस्य पटना-महानगरस्थे 'गान्धी मैदान' इत्यस्मिन् स्थले जयप्रकाशः विशालसभायाः आयोजनम् अकरोत् । तस्यामेव सभायां जनाः लोकनायक इति नाम्ना तं सम्बोधयन् । ततः १९७४ तमस्य वर्षस्य 'जून'-मासस्य पञ्चमे (५) दिनाङ्के सप्त कि.मी. लम्बमानस्य प्रदर्शनस्य मार्गदर्शनं कुर्वन् जयप्रकाशः बिहारराजभवनं प्रति पदयात्रां प्रारभत । तां पदयात्रां ‘सम्पूर्णक्रान्तियात्रा’ इति जानीमः वयम् । १९७५ तमस्य वर्षस्य 'मार्च'-मासस्य षष्ठे (६) दिनाङ्के 'सिंहासन खाली करो कि जनता आती है' इति सूत्रं जयप्रकाशः छात्रेभ्यः अयच्छत् [११] ।
१९७५ तमस्य वर्षस्य 'जून'-मासस्य द्वादशे (१२) दिनाङ्के इलाहाबाद-उच्चन्यायालयेन इन्दिरा गान्धी इत्यस्याः विरुद्धम् अभियोगस्य निर्णयः कृतः । इन्दिरा गान्धी निर्वाचनसम्बद्धभ्रष्टाचारस्य दोषी इति इलाहाबाद-उच्चन्यायालयेन उद्घोषितम् । भारतीयसर्वोच्चन्यायालयाय याचिकां दातुं इन्दिरा गान्धी इत्यनयाः पार्श्वे विंशतिः दिनानां कालः आसीत् । परन्तु सर्वोच्चन्यायालयः अपि एतादृशं, इतोऽपि कठिनं वा न्यायं करिष्यति इति भयः तस्याः मनसि आसीत् । तस्याः राजनैतिकक्रूरतायाः परिणामः आसीत् यत्, १९७५ तमस्य वर्षस्य 'जून'-मासस्य षड्विंशति(२६)तमे दिनाङ्के एव भारते आन्तरिकापत्कालस्य घोषणा अभूत् ।
देशभक्तानां सर्वकारविरोधिप्रदर्शनेन भीतः सञ्जय गान्धी इत्यस्य षड्पञ्चाशदधिकत्रिशततमस्य (३५६) अनुच्छेदस्य दुरुपयोगं कृत्वा आपत्कालम् अघोषयत् । परन्तु प्रधानमन्त्री इन्दिरा गान्धी आसीत् । अतः तया आपत्कालः उद्घोषितः इति तस्याः कुख्यातिः अस्ति । १९७५ तमस्य वर्षस्य आपत्काले जयप्रकाशः, मोरारजी देसाई इत्यादीनाम् अनेकानां देशभक्तानां कारावासः अभूत् । लक्षाधिकाः जनाः मृताः । कोटिशः रूप्यकाणां नाशः अभवत् । वीथीषु, मार्गेषु सर्वकारविरोधिनां हत्याः अभवन् । सर्वकारस्य बलप्रयोगेनापि देशभक्तानां हृदि भयः नोत्पन्नः । सर्वे जयप्रकाशस्य विमुक्तिम् इच्छन्ति स्म । जनविरोधेन शीघ्रं हि सर्वेषां देशभक्तानां विमुक्तिः अभवत् । ततः जयप्रकाशेन देशस्य विविधपक्षैः सह चर्चा कृता, जनतापक्षस्य रचना च कृता । परन्तु जनतापक्षस्य अन्तःकलहेन दुःखितः जयप्रकाशः पुनः राजनीतिक्षेत्रात् निवृत्तिं स्व्यकरोत् ।
जयप्रकाशस्य मृत्युः
[सम्पादयतु]१९७९ तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तम(७)दिनाङ्कस्य प्रातः जयप्रकाशः श्वसने क्लेशम् आनुभवत् [१२] । अतः प्राणवायोः (oxygen) यन्त्रेण श्वसनं कर्तव्यमिति वैद्यः तम् असूचयत् । परन्तु अष्टमे दिनाङ्के प्रातः जयप्रकाशः देहत्यागम् अकरोत् । लोकनायकस्य जयप्रकाशस्य मृत्योः समाचारं श्रुत्वा आभारतं शोकमग्नम् अभवत् । प्रधानमन्त्री चौधरी चरण सिंह सप्तदिनात्मकस्य राष्ट्रियशोकस्य घोषणाम् अकरोत् ।
प्रशस्तयः
[सम्पादयतु]- Bharat Ratna, 1999 (Posthmus)for Public Affairs[१३]
- Rashtrabhushan Award of FIE Foundation, Ichalkaranji[४]
- Ramon Magsaysay Award,1965 for Public Service.
भाषणानि, न्यायालयकथनानि च
[सम्पादयतु]- Prakash Jha directed a 112-minute film "Loknayak ",based on the life of Jaya Prakash Narayan (JP) .[१४][१५] Chetan Pandit played the role of JP in that film.[१६]
- Achyut Potdar played role of JP in ABP News show Pradhanmantri (TV Series) and Aaj Tak Aandolan.
जीवनी
[सम्पादयतु]- Why Socialism, 1936
- War Circulars, 1–4 CSP, Lucknow
- Inside Lahore Fort, Sahityalaya Patna 1947
- Nation Building in India – JP Narayan
- Three Basic Problems of India. From Socialism to Sarvodaya, Sarva Seva Sangh Prakashan, Varansi 1957
- A Plea for Reconstruction of Indian Polity, Sarva Seva Sangh Prakashan, Varansi 1959
- Swaraj for the People, Sarva Seva Sangh Prakashan, Varansi 1961
- Sarvodaya Answer to Chinese Aggression, Sarvodaya Prachuralaya Tanjore 1963
- Face to Face, Navchetna Prakashan, Varansi 1970
- Prison Diary, Samajwadi Yuvjan Sabha Calcutta 1976 and Popular Prakashan, Bombay 1977.
सम्पादनकार्यम्:
- Towards Struggle, edited by Yusuf Meherally, Padma Publications, Bombay 1946,47
- Socialism,Sarvodaya and Democracy, edited by Bimal Prasad, Asia Publishing House Bombay 1964
- Communitarian Society and Panchayti Raj, edited by Brahmanand Navchetna Prakashan Varansi 1970
- Nation-Building in India, edited by Brahmanand Navchetna Prakashan Varansi 1974
- Towards Revolution, edited by Bhargava and Phadnis, Arnold-Heinemann New Delhi 1975
- J.P’s Jail Life (A Collection of Personal Letters) translated by G S Bhargava, Arnold-Heinemann New Delhi 1977
- Towards Total Revolution, edited by Brahmanand Popular Prakashan Bombay 1978
- J P:Profile of a non-conformist, Interviews by Bhola Chatterji, Minerva Associates, Calcutta, 1979
- To All Fighters of Freedom II, A Revolutionary’s Quest-selected writings of Jayprakash Narayan, edited by Bimal Prasad Oxford University Press New Delhi 1980
- Concept of Total Revolution: An Introductory Essay(JP and social change) by Bimal Prasad
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यानुबन्धाः
[सम्पादयतु]- Red Fugitive: Jayaprakash Narayan by H L Singh Dewans Publications Lahore 1946
- Life and Time of Jayaprakash Narayan by J S Bright Dewans Publications Lahore 1946
- Jayaprakash Narayan: A Political Biography by Ajit Bhattacharyajea Vikas Publications New Delhi 1975
- J.P: His Biography, Allan and Wendy Scarfe, Orient Longmans New Delhi 1975
- Jayaprakash: Rebel Extraordinary, by Lakshmi Narayan Lal, Indian Book Company New Delhi 1975
- Loknayak Jayaprakash Narayan, by Suresh Ram Macmillan Co. Delhi 1974
- Loknayak Jayaprakash Narayan by Farooq Argali Janata Pocket Books Delhi 1977.
- Bimal Prasad (editor). 1980. A Revolutionary's Quest: Selected Writings of Jayaprakash Narayan. Oxford University Press, Delhi ISBN 0-19-561204-3
- Jai Prakash Narain, Jayaprakash Narayan, Essential Writings, 1929-1979: A Centenary Volume, 1902–2002, Konark Publishers (2002) ISBN 81-220-0634-5
- Dr. Kawaljeet, J.P.'s Total Revolution and Humanism (Patna: Buddhiwadi Foundation, 2002). ISBN 81-86935-02-9
- Dr. Ramendra (editor), Jayaprakash Vichar Sankalan [Hindi] (Patna: Rajendra Prakashan, 1986).
- Satyabrata Rai Chowdhuri, Leftism in India: 1917-1947 (London and New Delhi: Palgrave Macmillan, 2008).
- Radhakanta Barik, Politics of the JP Movement (Radiant Publications, Delhi, 1977)
- MG Devashayam, JP Movement Emergency and India's Second Freedom (Vitasta Publishing Pvt. Ltd., New Delhi, 2012). ISBN 978-93-80828-61-9
- jds.ind.in/j-p-narayan/
- http://www.biharonline.gov.in/site/%28S%281pic4v55gh0fj445vzrxryu3%29%29/home/containt.aspx?AspxAutoDetectCookieSupport=1 Archived २०१४-०२-०२ at the Wayback Machine
- A plea for the reconstruction of Indian polity
- Total revolution
- On Hindu revivalism
- Magsaysay award acceptance speech Archived २००९-०३-०५ at the Wayback Machine; Citation Archived २००९-०३-११ at the Wayback Machine
- JP's visit to an RSS camp Archived २०१०-०८-०२ at the Wayback Machine, as told by Sita Ram Goel in "Perversion of India's Political Parlance"
- JP information from Gandhi museum Archived २००८-०७-२४ at the Wayback Machine
उद्धरणम्
[सम्पादयतु]- ↑ "JP's village gets power 65 yrs after Independence". Zeenews. 22 April 2012.
- ↑ Ratan, Das (2007). Jayaprakash Narayan: His Life and Mission. Sarup & Sons. p. 7. ISBN 81-7625-734-6. आह्रियत 30 July 2013.
- ↑ Das, Sandip (2005). Jayaprakash Narayan: A Centenary Volume. Mittal Publications. p. 109. ISBN 978-81-8324-001-7. आह्रियत 13 March 2013.
- ↑ ४.० ४.१ Vaidya, Prem. "Jayaprakash Narayan – Keeper of India's Conscience". LiberalsIndia.com. Archived from the original on 5 February 2012. आह्रियत 16 August 2012.
- ↑ Das, Sandip (2005). Jayaprakash Narayan: A Centenary Volume. Mittal Publications. p. 239. ISBN 978-81-8324-001-7. आह्रियत 25 April 2012.
- ↑ Das, Sandip (2005). Jayaprakash Narayan: A Centenary Volume. Mittal Publications. p. 230. ISBN 978-81-8324-001-7. आह्रियत 25 April 2012.
- ↑ Ratan, Das (2007). Jayaprakash Narayan: His Life and Mission. Sarup & Sons. p. 7. ISBN 81-7625-734-6. आह्रियत 30 July 2013.
- ↑ Ralhan, O.P. (2002). Encyclopaedia of Political Parties. Anmol Publications Pvt. Ltd. pp. 17998 (at pages 73–74). ISBN 978-81-7488-865-5.
- ↑ Srivastava, N.M.P. (1988). Struggle for Freedom: Some Great Indian Revolutionaries. K.P.Jayaswal Research Institute, Government of Bihar, Patna.
- ↑ Harish Khare (16 May 2001). "Obligations of a lameduck". The Hindu. Archived from the original on 20 July 2009. आह्रियत 2 January 2009.
- ↑ McRobie, George (30 June 2003). "Surur Hoda: Trade unionist who spread the message of Mahatma Gandhi". The Guardian (London). आह्रियत 6 January 2012.
- ↑ Datta-Ray, Sunanda K. "Inconvenient Prophet". India Today. Archived from the original on 31 January 2009. आह्रियत 6 January 2012.
- ↑ Correspondent, NDTV (24 January 2011). "List of all Bharat Ratna award winners". ndtv.com. आह्रियत 29 November 2012.
- ↑ "Uncensored 'Loknayak' to be screened soon". Archived from the original on 2014-02-08. आह्रियत 2015-03-18.
- ↑ "Loknayak". Archived from the original on 2014-02-22. आह्रियत 2015-03-18.
- ↑ “I am fully indebted to theatre”