कुरआन्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कुरान् इत्यस्मात् पुनर्निर्दिष्टम्)
कुरआन् اَلْقُرآن  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः अल्लाहात् अवतीर्णः अभवत्।
भाषा अरबी
विषयः जीवनविधानस्य शास्त्रः
इस्लाममतम्

इस्लाम्-मतम्

इस्लाममतम्

कुरआन् शरीफ् (अरबी: القرآن आल्-क़ुर'आन्) मुस्लिमजनानां पवित्रः कश्चन ग्रन्थः । इस्लाम्-मतानुसारं भगवतः वाणीरूपेण ग्रन्थोऽयं मुहम्मद् नवी (प्रवक्ता) द्वारा खण्डशः भूलोके अवतीर्णः । समग्रकुरआन्-ग्रन्थे ११४ सूराः(अध्यायाः) सन्ति । तथा आयात् (पङ्क्ति)संख्या ६,२३६ । कुरआन्-ग्रन्थस्य मूलभाषा अरबी । इस्लामीय-भाष्यकारस्य मतानुसारं कुरआन्-ग्रन्थः अपरिवर्तनीयः । अस्मिन् विषये आयाते (पङ्क्तौ) उक्तमस्ति -

अहं स्वयम् उपदेशग्रन्थरूपेण अवतीर्णवान् अस्मि, तथा च अस्य संरक्षकोऽपि अहमेव अस्मि ।[१]

उत्पत्तिः[सम्पादयतु]

कुरआन्, मुस्लिमजनानां पवित्रशास्त्रः

अरबी व्याकरणे कुरआन् शब्दोयं 'मास्दार्' (क्रियावाचक-विशेष्य)रूपेण व्यवह्रियते । अयं शब्दः قرأ 'क्करा'आ' इत्यस्मात् क्रियापदात् निष्पन्नः, यस्य अर्थः 'पठनम्', वा 'आवृत्तिकरणं' । इदमेव क्रियापदं कुरआन् पदस्य मूलत्वेन परिगण्यते[२] । ’कुरआन्’शब्दस्य उच्चारणस्य "मास्दार्" (الوزن) (रागः) भवति غفران "गुफ्रान्"। एतया शैल्या उच्चारितश्चेत् अर्थः भवति अधिकः भावः, अध्यवसायः, कर्मसम्पादने एकाग्रता वा । एतस्मात् अवगम्यते कुरआन् इत्यस्य अर्थः केवलं पठनम्, आवृत्तिकरणं वा न वरञ्च एकाग्रचित्तेन पठनम् इति । कुरआन्-ग्रन्थेऽपि शब्दोऽयम् अस्मिन्नेव अर्थे प्रयुक्तः अस्ति । कुरआन्-ग्रन्थस्य ’सूरा-आल्-कियामह्’ इत्येतस्यां ७५ तमसूरायाम् (अध्याये), १८ तमे आयाते (पङ्क्तौ) कुरआन् शब्दस्य उल्लेखः अस्ति -

इतःपरम्, अहं यदा तं (कुरआन्) पाठं पठामि , तदा भवान् तस्य पाठस्य (कुर्'आ'नाह्) अनुसरणं करोतु[३]

संज्ञा[सम्पादयतु]

मुस्लिम्-मतानुसारं मुहम्मद्(मुस्लिमजनानां प्रवक्ता (अल्लाह्स्यदूतः)वाणीं साक्षात् अरबीभाषया प्राप्तवान् आसीत् । ग्रन्थोऽयं मु'जिया (अलौकिकः) तथा मानवजातेः पथप्रदर्शकः । मुस्लिमजनानां विश्वासः विद्यते यत् कुरआन्-ग्रन्थे मानवानां सर्वविधानां समस्यानां समाधानमस्ति । एवञ्च अयं ग्रन्थः पूर्णाङ्गजीवनविधानं[४] बोधयति ।

विभिन्नविषयक-आयाताः (पङ्क्तयः)[सम्पादयतु]

  • आदेशात्मकाः आयाताः= १०००
  • निषेधात्मकाः आयाताः= १०००
  • भीत्यात्मकाः आयाताः= १०००
  • प्रतिज्ञात्मकाः आयाताः= १०००
  • दृष्टान्तात्मकाः आयाताः=१०००
  • इतिहासात्मकाः आयाताः= १०००
  • प्रशंसात्मकाः आयाताः= २५०
  • पूर्णतात्मकाः आयाताः=१००
  • उद्देश्यात्मकाः आयाताः=२५०
  • इतराः = ६६
  • आहत्य = ६२३६[५]

विभिन्नाध्यायानां पङ्क्तीनां च प्रसिद्धिः[सम्पादयतु]

[६]

टिप्पणी[सम्पादयतु]

  1. "Qur'ān, Chapter 15, Verse 9". Archived from the original on 2007-04-02. आह्रियत 2014-03-26. 
  2. BYU Studies, vol. 40, number 4, 2001. Page 52
  3. माआरिफुल् कुरान्
  4. "आल्-इहकाम्, आल्-आमिदि". Archived from the original on 2010-05-28. आह्रियत 2014-03-26. 
  5. चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्
  6. चन्द्रः तथा कुरआन्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्

अनुवादाः[सम्पादयतु]

तथ्यानुसन्धानम्[सम्पादयतु]

मातृकाः[सम्पादयतु]

श्रव्य-दृश्यपरिकराः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुरआन्&oldid=482921" इत्यस्माद् प्रतिप्राप्तम्