कुरआन्
कुरआन् اَلْقُرآن | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | अल्लाहात् अवतीर्णः अभवत्। |
भाषा | अरबी |
विषयः | जीवनविधानस्य शास्त्रः |
विश्वासः
|
ग्रन्थाः
|
सम्प्रदायाः
|
इतिहासः
|
कुरआन् शरीफ् (अरबी: القرآن आल्-क़ुर'आन्) मुस्लिमजनानां पवित्रः कश्चन ग्रन्थः । इस्लाम्-मतानुसारं भगवतः वाणीरूपेण ग्रन्थोऽयं मुहम्मद् नवी (प्रवक्ता) द्वारा खण्डशः भूलोके अवतीर्णः । समग्रकुरआन्-ग्रन्थे ११४ सूराः(अध्यायाः) सन्ति । तथा आयात् (पङ्क्ति)संख्या ६,२३६ । कुरआन्-ग्रन्थस्य मूलभाषा अरबी । इस्लामीय-भाष्यकारस्य मतानुसारं कुरआन्-ग्रन्थः अपरिवर्तनीयः । अस्मिन् विषये आयाते (पङ्क्तौ) उक्तमस्ति -
“ | अहं स्वयम् उपदेशग्रन्थरूपेण अवतीर्णवान् अस्मि, तथा च अस्य संरक्षकोऽपि अहमेव अस्मि ।[१] | ” |
उत्पत्तिः
[सम्पादयतु]अरबी व्याकरणे कुरआन् शब्दोयं 'मास्दार्' (क्रियावाचक-विशेष्य)रूपेण व्यवह्रियते । अयं शब्दः قرأ 'क्करा'आ' इत्यस्मात् क्रियापदात् निष्पन्नः, यस्य अर्थः 'पठनम्', वा 'आवृत्तिकरणं' । इदमेव क्रियापदं कुरआन् पदस्य मूलत्वेन परिगण्यते[२] । ’कुरआन्’शब्दस्य उच्चारणस्य "मास्दार्" (الوزن) (रागः) भवति غفران "गुफ्रान्"। एतया शैल्या उच्चारितश्चेत् अर्थः भवति अधिकः भावः, अध्यवसायः, कर्मसम्पादने एकाग्रता वा । एतस्मात् अवगम्यते कुरआन् इत्यस्य अर्थः केवलं पठनम्, आवृत्तिकरणं वा न वरञ्च एकाग्रचित्तेन पठनम् इति । कुरआन्-ग्रन्थेऽपि शब्दोऽयम् अस्मिन्नेव अर्थे प्रयुक्तः अस्ति । कुरआन्-ग्रन्थस्य ’सूरा-आल्-कियामह्’ इत्येतस्यां ७५ तमसूरायाम् (अध्याये), १८ तमे आयाते (पङ्क्तौ) कुरआन् शब्दस्य उल्लेखः अस्ति -
“ | इतःपरम्, अहं यदा तं (कुरआन्) पाठं पठामि , तदा भवान् तस्य पाठस्य (कुर्'आ'नाह्) अनुसरणं करोतु[३] | ” |
संज्ञा
[सम्पादयतु]मुस्लिम्-मतानुसारं मुहम्मद्(मुस्लिमजनानां प्रवक्ता (अल्लाह्स्यदूतः)वाणीं साक्षात् अरबीभाषया प्राप्तवान् आसीत् । ग्रन्थोऽयं मु'जिया (अलौकिकः) तथा मानवजातेः पथप्रदर्शकः । मुस्लिमजनानां विश्वासः विद्यते यत् कुरआन्-ग्रन्थे मानवानां सर्वविधानां समस्यानां समाधानमस्ति । एवञ्च अयं ग्रन्थः पूर्णाङ्गजीवनविधानं[४] बोधयति ।
विभिन्नविषयक-आयाताः (पङ्क्तयः)
[सम्पादयतु]- आदेशात्मकाः आयाताः= १०००
- निषेधात्मकाः आयाताः= १०००
- भीत्यात्मकाः आयाताः= १०००
- प्रतिज्ञात्मकाः आयाताः= १०००
- दृष्टान्तात्मकाः आयाताः=१०००
- इतिहासात्मकाः आयाताः= १०००
- प्रशंसात्मकाः आयाताः= २५०
- पूर्णतात्मकाः आयाताः=१००
- उद्देश्यात्मकाः आयाताः=२५०
- इतराः = ६६
- आहत्य = ६२३६[५]
विभिन्नाध्यायानां पङ्क्तीनां च प्रसिद्धिः
[सम्पादयतु]- सूरा अर रहमान् = कुरआन्-शास्त्रस्य मुकुटः
- सूरा अल बाकारा = कुरआन्-शास्त्रस्य सिंहासनम्
- सूरा इयासिन्= कुरआन्-शास्त्रस्य मनः
- सूरा अल-इखलास= कुरआन्-शास्त्रस्य एकतृतीयांश
- सूरा अल-फतिहा= कुरआन्-शास्त्रस्य जननी
- अयातुल कुरसी = कुरआन्-शास्त्रस्य मित्रम्
टिप्पणी
[सम्पादयतु]- ↑ "Qur'ān, Chapter 15, Verse 9". Archived from the original on 2007-04-02. आह्रियत 2014-03-26.
- ↑ BYU Studies, vol. 40, number 4, 2001. Page 52
- ↑ माआरिफुल् कुरान्
- ↑ "आल्-इहकाम्, आल्-आमिदि". Archived from the original on 2010-05-28. आह्रियत 2014-03-26.
- ↑ चन्द्रः तथा कुरान्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्
- ↑ चन्द्रः तथा कुरआन्, जाकिर् नायेक्, मल्लिक् ब्रादर्स्
अनुवादाः
[सम्पादयतु]- Quran Word by Word // QuranAcademy.org
- Al-Quran Archived २००९-०१-२९ at the Wayback Machine प्रकल्पस्य Zohurul Hoque तथा Muhiuddin Khan द्वारा आनुवादः ।
- कुरान्-ग्रन्थस्य आङ्ग्लभाषया अनुवादः एवं व्याख्या, मारिफुल् कुरान् Archived २००७-०३-२९ at the Wayback Machine, मुफति ताकी उस्मानी महोदयेन लिखितः ।
- Global Quran - त्रिंशत् भाषासु कुरान् अनुवादः ।
- कुरान् - इन्टार्नेट् स्याक्रेड् टेक्स्ट् आर्कैव्
- पुनर्जागरिकं इस्लाम् Archived २०१०-०६-०१ at the Wayback Machine
- The Message - Free Minds / Progressive Muslims - a literal translation of the Qur'an.
- Online translation of the Qur'ān — translated by a team of Muslim scholars including the first woman to translate the Qur'ān into English.
- ताफहीनमुल् कुरान् अन्तर्जाले
- अन्तर्जालानुवादः
तथ्यानुसन्धानम्
[सम्पादयतु]- GlobalQuran.com Search quran in over 30 different languages at one time
- Search the Qur'ān
- Qur'ān Search or browse the English Shakir translation
- Qur'ān Search
मातृकाः
[सम्पादयतु]- Qur'ān Manuscripts Archived २००७-०६-२९ at the Wayback Machine
- Qur'ān Manuscripts Archived २००७-०६-१९ at the Wayback Machine
श्रव्य-दृश्यपरिकराः
[सम्पादयतु]- Quran Academy: Audio/Video commentary/translation of the Qur'ān
- English audio recitation/translation of the Qur'ān Archived २००९-०६-२५ at the Wayback Machine
- Irfan-ul-Quran.com Qur'ān recitation in the voices of 12 most popular Qura of the world
- Qur'ān recitations by 271 different reciters