इस्लाम्-मतम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(इस्लाममतम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

इस्लाम् (अरबी : الإسلام अल्-इस्लाम्) एकं एकेश्वरवादि यहूदीक्रैस्तमताभ्यां सदृशं आब्राहामीयमतम् च अस्ति।[१] कुरान्-शास्त्रं, मुहम्मद्-भगवद्दूतस्य जीवनशैल्या(सुन्नह्) आचरणप्रवचनद्वारा(हदीस्) च दर्शिता तस्य व्याख्या च इस्लाम्-मतस्य आधाराः सन्ति। इस्लाम्-मतस्य अनुयायी मुस्लिम् इति उच्यते।

मुस्लिम्-जनाः मन्यन्ते यत् भगवान् मात्र एकः अनुपमः च अस्ति।[२] मुस्लिम्-जनानां अयमपि विश्वासः यत् इस्लाम्-मतं तस्य मौलिकधर्मस्य सम्पूर्णं वैश्वनरं च रूपं अस्ति यः आदितः वारंवारं आदम्, नूह्, अब्राहाम्, मूसा, यीशुः चेति सदृशैः भगवद्दूतैः विवृतः आसीत्।[३] इस्लाम्-मतस्य पञ्चस्तम्भाः, ये पूजायाः मूलविधयः सन्ति, अपिच इस्लामीयनीतिः या व्यापारेण, समृद्ध्या, पारिवारिकजीवनेन, वातावरणेन च सदृशे जीवनस्य प्रत्येकविषये मार्गदर्शनं करोति इति इस्लामीयसिद्धान्तस्य मूलभागाः वर्तन्ते।[४]

इस्लाम्-मतस्य अनुचारिणां संख्या समग्रविश्वे प्रायः १४० कोटिपरिमितम् । मतमिदं संख्यादृष्ट्या द्वितीयबृहत्तमम्।[५] मुहम्मद्-भगवद्दूतस्य एवञ्च तस्य उत्तराधिकारिणां प्रचारेण इस्लाम्-मतम् आविश्वं व्याप्तम् जातम् अस्ति।[६] वर्तमाने समग्रे विश्वे मुस्लिम्-जनाः सन्ति, विशेषतः मध्यप्राच्ये, समग्र-एशियामहाखण्डे, आफ्रिकाखण्डे, पूर्व-यूरोपखण्डे, अधिकतया सन्ति।[७] अमेरिका-सह पार्श्वस्थदेशेषु अपि इस्लाम्-मतं द्वितीयबृहत्तममतम् अस्ति।[८][९]

शब्दोत्पत्तिः अर्थश्च[सम्पादयतु]

इस्लाम् स-ल-म इति अरबीधातुना उत्पन्नं एकं निमित्तार्थपदं अस्ति। अयं धातुना अरबीभाषायां सम्पूर्णता, सुरक्षा, शान्तिः चेति अर्थान् दत्तवन्ति बहूनि पदानि निर्मितानि सन्ति।[१०] धार्मिकदृष्ट्यां इस्लाम्-पदस्य अर्थः “भगवते स्वेच्छं आत्मसमर्पणं ” इति जातः।[११] इस्लाम्-मतस्य अनुयायिभ्यः प्रयुक्तं पदं मुस्लिम् इत्यपि इस्लाम्-पदस्य क्रियापदेन हि उत्पन्नं कर्तृपदं अस्ति। भक्ताः भगवन्तं सेवित्वा, तस्य निदेशानां पालनं कृत्वा, बह्वीश्वरवादं त्यक्त्वा च भगवते आत्मसमर्पणं दर्शयन्ति। कुरान्-शास्त्रे इस्लाम्-पदं पृथक्पृथक् अर्थान् ददाति। केषुचन पद्येषु इस्लाम् इति काचित् आन्तरप्रतीतिरूपेण दृश्यते: “यं कमपि परमात्मा नेतुं इच्छति, तस्य हृदयं सः इस्लाम्-कृते उद्घाटयति” इति। [१२]

अन्येषु पद्येषु इस्लाम्-पदं दीन्‌ (धर्मः)इति पदेन सह प्रयुक्तं अस्ति: “अद्य अहं युष्माकं धर्मं(दीन्) युष्मभ्यं सम्पन्नं कृतवान्; युष्मासु स्वानुग्रहं पूर्णं कृतवान् अहं; अपिच युष्माकं धर्मरूपेण अहं इस्लाम्-मतस्य अनुमोदनं कृतवान्” इति।[१३] अन्येषु च इस्लाम् “भगवते प्रतिगमनं”रूपेण वर्णितं अस्ति (अर्थात् केवलं मुखेन स्वीकरणात् गहनतरं अर्थः अस्य।)[१४] जिब्रील्-पारिषदस्य हदीसे इस्लाम्; इस्लाम्(समर्पणं)-ईमान्(श्रद्धा)-इह्सान्(उत्तमता) इति त्रिगणस्य अंशरूपेण वर्णितं अस्ति।‌[१५] इदं हदीस्-अनुसारं इस्लाम्-पदस्य दैविकपरिभाषा “भगवतः अद्वितीयता”, ऐतिहासिकपरिभाषा मुहम्मद् भगवतः सन्देशवाहकः इति प्रवादं, अपिच सैद्धान्तिकपरिभाषा आराधनायाः पञ्चस्तम्भानां विनियोगः अस्ति।[१६][१७]

षडङ्गविश्वासः[सम्पादयतु]

इस्लाम्-मते षट् मूलभूतविश्वासाः सन्ति, एनानि विश्वासाङ्गानि मत्वा हि कश्चन जनः मुस्लिम् भवति:-

अल्लाह् (परमात्मा)[सम्पादयतु]

मुख्यलेखः : अल्लाह्
हाया-सोफ़ीयायां अल्लाह्-नाम युक्ता काचन मुद्रिका, इस्तम्बोल्-नगरं, तुर्कीदेशः

इस्लाम्-मतस्य प्रधानतमः सिद्धान्तः तौहीद् (अरबी:توحید) अर्थात् दृढः एकेश्वरवादः अस्ति। कुरान्-शास्त्रस्य ११२तमे अध्याये भगवतः वर्णनं ईदृशं अस्ति:[१८] “वद : सः अल्लाह्(परमात्मा) एकः; अल्लाह् सनातनः; नहि सः आजायते, नैव जनितः च; अपिच तस्य समतुल्यः कोऽपि नास्ति।”[कुरान्११२:१-४] मुस्लिम्-जनाः यहूदी-जनाः च क्रैस्तमतीयत्रिमूर्तिं यीशोः दिव्यता इति क्रैस्तमतीयसिद्धान्तं च अवमन्यन्ते, तौ बह्वीश्वरवादसमं मन्यन्ते च। इस्लाम्-मतानुसारं भगवान् अबोधगम्यः, अतः मुस्लिम्-जनाः तस्य प्रतिमां न कल्पयन्ति।[१९][२०][२१]

मुस्लिम्-जनाः मन्यन्ते यत् अखिलविश्वं भगवतः आदेशमात्रेण हि संबभूव “भव! तथा भवति”[२२] जीवनस्य उद्देशः भगवतः आराधना च अस्ति।[२३] सः व्यक्तिगतभगवान् सम्मतः यः प्रत्यागृणाति यदाकदापि कश्चन नाथितः वा पीडितः वा तं आह्वयति।[२४] कस्यापि परार्थवादिनः आवश्यकता नास्ति तं भगवन्तं सम्पर्कार्थं यः कथयति “अहं तस्मात् तस्य कण्ठधमन्याः अपि समीपतरः अस्मि” इति[२५] भगवतः पारस्परिकप्रकृतिः इदं हदीस् अल्‌ कुद्सीकथने वर्णिता “अहमस्मि यथा मम भक्तः मां चिन्तयति।”[२६]

इस्लाम्-मते भगवतः निजनाम अल्लाह् वर्तते। ततः परं भगवतः ९९ अन्यानि नामानि अपि सन्ति, उदाहरणार्थं अल्-रह्मान् अर्थात् “करुणामयः”, अल्-रहीम् अर्थात् “दयालुः” च‌।[२७] अन्याः अन्-अरबी मुस्लिम्-जनाः भगवते अन्यानां स्थानीयभाषाणां नाम्नां प्रयोगः अपि कुर्युः, उदाहरणार्थं पारसीकभाषायां उर्दुभाषायां च ख़ुदा(خدا) इति प्रयुक्तं अस्ति, मलायुभाषायां च तुहान् (Tuhan) इति पदं प्रयुज्यते।

मलाइकह् (भगवत्पारिषदाः)[सम्पादयतु]

मलाइकह् (अरबी: ملائکة; एकवचनं: ملك (मलक्); आङ्ग्ल: Angel) इस्लाम्-मतानुसारं भगवतः दिव्यपारिषदाः वर्तन्ते, तेषु विश्वासः च षट्सु मूलभूतविश्वासेषु अन्यतमः। तेषां भौतिकशरीराणि न वर्तन्ते, अपितु ते दिव्यज्योतिना निर्मिताः आत्मनः सन्ति। परन्तु कदाचित् ते मनुष्याणां सम्मुखे प्रकटनार्थं भौतिकरूपाणि धारयन्ति; उदाहरणार्थं यीशोः उपरि जिब्रील्-पारिषदः कपोतरूपेण अवतरितवान्। भगवत्पारिषदेषु स्वच्छन्दः न वर्तते, अतः ते भगवतः आदेशानुसारं सृष्ट्याः विभिन्नानि कार्याणि सम्पन्नम् कुर्वन्ति। भगवद्वाण्याः उदीरणं, भगवतः आराधना, जनानां कर्माणां अभिलेखनं, मृत्योः समये जनानां आत्मनां हरणं च भगवत्पारिषदानां मुख्यानि कर्तव्यानि सन्ति। विभिन्नस्थलेषु निवसिताः मुस्लिम्-जनाः भगवत्पारिषदानां कृते स्थानीयभाषाणां नाम्नां प्रयोगः अपि कुर्वन्ति; उदाहरणार्थं फ़ारसीवाचकाः उर्दू-हिन्दीवाचकाः च मुस्लिम्-जनाः भगवत्पारिषदान् फ़रिश्ता इति वदन्ति। भगवत्पारिषदाः असंख्याः सन्ति। इस्लामीयशास्त्रेषु तेषां संपूर्णा सूचिः तु न दत्ता, परन्तु भगवतः समीपतराः प्रधानतमाः च चत्वारः पारिषदाः विशेषरूपेण वर्णिताः

  • जिब्रील्/जिब्रैल् भगवद्वाणीवाहकः। सः सर्वश्रेष्ठः भगवत्पारिषदः। भगवद्दूतान् प्रति भगवद्वाण्याः आनयनं तस्य कर्तव्यम्। सः एव भगवत्पारिषदः यः मुहम्मद्-भगवद्दूतं प्रति भगवद्वाणीं कुरान्-शास्त्रं आनयत्। कुरान्-शास्त्रे जिब्रील्-पारिषदस्य नाम त्रिवारं उल्लिखितं अस्ति।[२८] कुरान्-शास्त्रे जिब्रील्-पारिषदस्य द्वौ अन्यौ उपाधी अपि वर्णितौ : रूह्-अल्-कुद्स् अर्थात् पवित्रात्मा [कुरान् १६:१०२];रूह्-अल्-अमीन् अर्थात् आप्तः आत्मा [कुरान् २३:१९२-१९४] चेति।
  • मीकाल्/मीकाइल् देहानां आत्मनां च पोषकः। सः भगवतः आज्ञानुसारं यथासङ्गं प्रसादेन यथासङ्गं दण्डेन च जनानां उद्धारं करोति। पोषयित्नुः वृष्टिः परिध्वंसी वज्रपातः च उभौ तस्य एव कर्तव्ये। कुरान्-शास्त्रे मीकाल्-पारिषदस्य नाम एकवारं उल्लिखितं अस्ति।[२९]
  • इस्राफ़ील्‌ (अर्थात् प्रज्वलितः), गोविषाणकधारी पारिषदः। महाप्रलस्य समये सः द्विवारं गोविषाणकं प्रधमिष्यति। गोविषाणकस्य प्रथमघोषात् महान् विस्फोटः भविष्यति, विनाशलीलां आरप्स्यते च।[३०] द्वितीयघोषात् सर्वेषां जनानां पुनरुत्थानं भविष्यति, सर्वे नियायदिनाय भगवतः सम्मुखे आगमिष्यन्ति च।
  • इज़्राईल् अथवा मलक्-अल्-मौत् प्रधानकालदूतः अस्ति। मृत्योः समये शरीरात् आत्मनः हरणं तस्य कर्तव्यम्। कुरान्-शास्त्रे तस्य वर्णनं एकवारं मलक्-अल्-मौत् (अर्थात् मृत्युपारिषदः) नाम्ना जातं।[३१]

भगवद्वाणी[सम्पादयतु]

मुख्यलेखः : कुरान्
ख़त्तात् अज़ीज़् अफ़न्दी शुबलेखकेन लिखितः कुरान्-शास्त्रस्य प्रथमसूरा(अध्यायः) ।

मुस्लिम्-जनाः मन्यन्ते यत् मानवकल्याणार्थं भगवान् स्ववाणीं भगवद्दूतेषु अवतारयति स्म। कुरान्-शास्त्रे भगवता अवतरितानि चत्वारि दिव्यशास्त्राणि उल्लिखितानि सन्ति‌ :

  • मूसा-भगवद्दूते अवतरितं तौरात्-शास्त्रम्।[३२]
  • दावूद्-भगवद्दूते अवतरिता ज़बूर्-संहिता।[३३]
  • यीशुभगवद्दूते अवतरितं इंजील्-(गोस्पल्)शास्त्रम्।[३४]
  • मुहम्मद्-भगवद्दूते अवतरितं कुरान्-शास्त्रम्।[३५]

मुस्लिम्-जनाः मन्यन्ते यत् गच्छता कालेन स्वार्थपराः जनाः दिव्यशास्त्राणि विकृतानि कृतवन्तः,[३६] अतः अन्ततः भगवान् पूर्वप्रेषितानां दिव्यशास्त्राणां सारं अन्तिमदिव्यवाणी कुरान् (अर्थात् पाठ्यमाणा वाणी/भाणः/शास्त्रम्) रूपेण उत्कृष्टायां अरबीभाषायां प्रेषितवान्।[३७]

मुस्लिम्-जनाः मन्यन्ते यत् भगवान् ६१०तमात् क्रैस्ताब्दात् ६३२तमक्रैताब्दपर्यन्तं जिब्रील्-प्रधानपारिषदेन कुरान्-शास्त्रं मुहम्मद्-भगवद्दूते अवातारयत्। मुहम्मद्-भगवद्दूतस्य पार्षदाः (सहाबह्) अवतरितां भगवद्वाणीं आलिखन्ति स्म, यद्यपि प्रधानविधिः स्मृत्या मौखिकसञ्चारः एव आसीत्।[३८]

कुरान्-शास्त्रं ११४ सूरायां अथवा अध्यायेषु विभाजितं अस्ति, येषु उत्सङ्गितेषु ६,२३६ पद्यानि सन्ति। कालनुक्रमेण मक्का-नगरे अवतरितानां पूर्वकानां अध्यायानां विषयाः प्रायः आध्यात्मिकाः वर्तन्ते, अपिच मदीना-नगरे अवतरितेषु अध्यायेषु प्रायः नैतिकानां सामाजिकानां च विषयाणां चर्चा अस्ति।[३९] कुरान्-शास्त्रस्य ध्यानं नियमनिर्देशात् अधिकं धर्मोपदेशे अस्ति, अपिच इदं इस्लामीयनीत्याः मर्यादायाः च आकरशास्त्रं सम्मतं अस्ति।[४०] मुस्लिम्-धर्मविद्याः कुरान्-शास्त्रस्य परिशिष्टरूपेण व्याख्यारूपेण च हदीस्-कथनेन अथवा मुहम्मद्-भवद्दूतस्य जीवनस्य लिखितवृत्तान्तेन मन्त्रणं कुर्वन्ति। कुरान्-शास्त्रस्य व्याख्या-टीकयोः विद्या तफ़्सीर् इति उच्यते,[४१] योग्योच्चारणस्य व्यवस्था च तज्वीद् इति उच्यते।

अंबिया/रुसुल् (सिद्धाः/भगवद्दूताः)[सम्पादयतु]

अंबिया (अरबी: أنبِيَاء; आङ्ग्ल: Prophets) नबी(نبي) पदस्य बहुवचनं। शब्दोऽयं 'न-ब-अ'धातुना उद्भूतः, अस्य मौलिकार्थः सूचकः, सिद्धः चेति भवति।[४२] रसूल् (अरबी: رسول, अर्थात् दूतः; बहुवचनं: रुसुल्) इति अन्यनाम युज्यते एतेषां कृते।[४३] इस्लाम्-मतानुसारं एते सिद्धाः मनुष्याः ये मानवजात्याः मार्गदर्शनार्थं भगवता दूतरूपेण नियुक्ताः। कुरान्-शास्त्रानुसारं भगवद्दूताः क्षितिप्रजाभ्यः “दैवेच्छां” आनेतुं भगवता देशिताः। मुस्लिम्-जनाः मन्यन्ते यत् भगवद्दूताः मानुषाः नतु दैवाः, यद्यपि तेषु केचन स्वसत्यतायाः प्रमाणरूपेण जनकल्याणार्थं च चमत्कारान् कर्तुमर्हन्ति। इस्लामीय-धर्मशास्त्रानुसारं सर्वे भगवद्दूताः इस्लाम् अर्थात् भगवते आत्मसमर्पणं एव प्राचारयत्। कुरान्-शास्त्रे बहवः सिद्धाः भगवद्दूताः वर्णिताः, उदाहरणार्थं आदम्, नूह्, अब्राहाम्, मूसा, यीशुः इत्यादि।[४४]

मुस्लिम्-जनाः मन्यन्ते यत् अन्ततः भगवान् दिव्यसन्देशस्य संवहनार्थं (भगवद्वाण्याः उपसंहार-पूरणार्थं च) मुहम्मद्-वर्यं “भगवद्दूतानां मुद्रा” (खातम्-अल्-नबिय्यीन्) अर्थात् अन्तिमधर्मशासक-भगवद्दूतरूपेण प्रेषितवान्। इस्लाम्-मते मुहम्मद्-भगवद्दूतस्य जीवनशैलीदृष्टान्तः सुन्नह् (अर्थात् “सूर्तमार्गः”) इति उच्यते। एषः दृष्टान्तः आरक्षितः हदीस् नाम्ना विख्यातासु स्मृतिषु, याः मुहम्मद्-वर्यस्य वाण्याः, कर्मणां, व्यक्तिगतलक्षणानां च वृत्तान्तानि सन्ति। हदीस्-अल्-कुद्सी इति हदीस्-कथनानां हि कश्चन उपवर्गः यः मुहम्मद्-वर्येण पुनरुक्तानि भगवतः वचनानि सम्मतानि। हदीस्-अल्-कुद्सी कथनानि कुरान्-शास्त्रात् पृथक् वर्तन्ते यतः तानि मुहम्मद्-वर्यस्य शब्दैः उक्तानि इतरद् कुरान्-शास्त्रं साक्षात् भगवतः वाणी। उत्कृष्टः मुस्लिम्-धर्मविद्यः “अल्-शाफ़ी” इस्लामीयनित्यां सुन्नह्-दृष्टान्तस्य गुरुत्वाय बहुमहत्त्वं दत्तवान्, अपिच मुस्लिम्-जनैः मुहम्मद्-वर्यस्य आचरणं एव अनुसरणीयं। सुन्नह्-दृष्टान्तस्य कुरान्-शास्त्रस्य व्याख्यायां निर्णायकमहत्त्वं अस्ति।[४५]

महाप्रलयः पुनरुत्थानदिनं च[सम्पादयतु]

पुरनरुत्थानस्य दिने (अरबी: يوم القيامة यौम्-अल्-क़्यामह्) विश्वासः अपि इस्लाम्-मते मूलभूतः। मुस्लिम्-जनाः मन्यन्ते यत् महाप्रलस्य कालः भगवता पूर्वनिर्धारितः, अपिच महाप्रलस्य पश्चात् जीवानां पुनरुत्थानं भविष्यति। ततःपरं सर्वस्याः मानवजात्याः सुकर्म-कुकर्मणोः न्यायः भविष्यति, अयं न्यायानुसारं च नरकस्वर्गयोः प्रेषणं भविष्यति। कुरान्-शास्त्रस्य अल्-ज़ल्ज़लह् नाम अध्याये अस्य वर्णनं ईदृशं अस्ति “यः कोऽपि अणुमात्र अपि पुण्यं करोति, तं द्रक्ष्यति। अपिच यः कोऽपि अणुमात्र अपि पापं करोति, तं द्रक्ष्यति” इति।[कुरान् ९९:७-८] कुरान्-शास्त्रे बहवः नरकयापकाः पातकाः उल्लिखिताः दृष्टान्ततः भगवति नास्तिकता (अरबी‌:كفر कुफ़्र) ‌वक्रधी च। नाम कुरान्-शास्त्रं स्पष्टयति यत् भगवान् अनुशयानजनानां पातकान् एव क्षन्तुं अर्हति। पुन्याः दृष्टान्ततः दानशीलता, प्रार्थना, पशून् प्रति दयाभावः[४६] आदि स्वर्गयापकाः। कुरान्-शास्त्रे स्वर्गस्य रूपरेखा आनन्दाः च विस्तरतः उल्लिखिताः। इस्लाम्-मतस्य केचन सम्प्रदायाः मन्यन्ते यत् इस्लामीय-शास्त्रेषु स्वर्गनरकयोः वर्णनं वस्तुतः गौणार्थं अस्ति अपिच स्वर्गः वस्तुतः भगवद्बोधस्य परमानन्दः अस्ति नरकाग्निः च भगवतः विरहः अग्निः अस्ति।

यौम्-अल्-क़्यामह् अर्थात् पनरुत्थानस्य दिनं कुरान्-शास्त्रे अन्यैः नामभिः अपि वर्णितं अस्ति उदाहरणार्थं यौम्-अल्-दीन् (अरबी:يوم الدين) अर्थात् “धर्मदिनं” अथवा “न्यायदिनं”[४७], अल्-सा'अह् (अरबी:الساعة) अर्थात् “वेला”[४८], अल्-कारियह् (अरबी:القارية) अर्थात् “तुमुलकारि”।[४९]

नियतिः[सम्पादयतु]

अल्-कज़ा वऽल-कदर् अर्थात् नियतिः अथवा भाविता अर्थात् परमात्मा त्रिकालज्ञः, सर्वं भगवदिच्छात् हि भवति च इति मान्यता इस्लाम्-मतस्य षट्सु मूलभूतविश्वासेषु अन्यतमा। कुरान्-शास्त्रे अयं सिद्धान्तः कदाचित् ईदृशं वर्णितः: “वद : न अस्मान् भविष्यति किञ्चित्, विहाय यत् परमात्मा अस्मभ्यं निर्णीतवान्; सः एव अस्माकं संरक्षकः…… ”[५०] मुस्लिम्-जनेभ्यः सर्वं मङ्गलामङ्गलं यत् संसारे भवति पूर्वनिर्धारितं अस्ति, भगवदिच्छां विना किमपि न भवितुं अर्हति च। मुस्लिम्-पण्डितानां अनुसारं यद्यपि घटनाक्रमः पूर्वनिर्धारितः अस्ति तथापि मनुष्येषु उचितानुचितयोः मध्ये चयनस्य स्वच्छन्दः वर्तते इत्थं ते स्वकर्मणां उत्तरदायिनः सन्ति। इस्लामीय-परम्परानुसारं सर्वं यत् भगवता निर्णीतं अस्ति लाक्षणिकरूपेण लौह्-अल्-मह्फ़ूज़् अर्थात् गुप्तफलके लिखितं अस्ति।[५१]

पञ्चस्तम्भाः[सम्पादयतु]

इस्लाम्-मतस्य पञ्चस्तम्भाः (अर्कान्-अल्-इस्लाम् अथवा अर्कान्-अद्दीन् अर्थात् आगमस्य स्तम्भाः) इस्लाम्-मतस्य मुख्याचरणानि सन्ति, ये सर्वास्तिकेभ्यः अनिवार्याणि सन्ति। कुरान्-शास्त्रानुसारं एते किञ्चन आराधनातन्त्रं, आस्थाप्रतिबद्धतायाः चिह्नानि च सन्ति। एते सन्ति:-

१.शहादह् (साक्ष्यम्), २.सलात् (विधिवत्प्रार्थना), ३.ज़कात् (वार्षिकदानम्), ४.सोम् (उपवासः) अपिच, ५.हज्(काबा-प्रार्थनालयस्य तीर्थयात्रा) इति।

शहादह् (साक्ष्यम्)[सम्पादयतु]

शहादह्अथवा शहादत्(अरबी भाषा: شهادة), मूलभूता इस्लामीयमतिः, साक्ष्यरूपे भणितव्यम्:-

अश्हदु अल्-ला इलाह इल्लऽल्लाहु, व अश्हदु अन्न मुहम्मदन् रसूलुऽल्लह्


अर्थात्: “साक्ष्यं ददामि, न कोऽपि देवः (अथवा पूजनार्हः) परमात्मनः ऋते इति, साक्ष्यं ददामि च, मुहम्मत् परमात्मनः दूतः इति”

इदं साक्ष्यं सर्वेषां इस्लामीयानां मतानां विधीनां च मूलं अस्ति। यः कोऽपि इस्लाम्-मतं स्वीकर्तुं इच्छति तस्य कृते अस्य साक्ष्यस्य घोषणा अनिवार्या वर्तते। मुस्लिन्-जनाः प्रतिदिनं प्रार्थनासु अस्य किञ्चित् भिन्नरूपं भणन्ति, यस्मिन् द्वितीयभागः एवं वर्तते: -

व अश्हदु अन्न मुहम्मदन् अब्दुहू व रसूलुहू

अर्थात्: “अपिच साक्ष्यं ददामि, मुहम्मत् तस्य सेवकः दूतः च अस्ति इति”

सलात् (विधिवत्प्रार्थना)[सम्पादयतु]

सलात् अथवा सलाह् (अरबी: صلاة) इति विधिवत्प्रार्थना अहर्निशं पञ्चवारं आचरणीया। इयं विधिवत्प्रार्थना भगवति मनोयोगार्थं, अपिच तस्मै आभारव्यक्त्यै, तस्य पूजनार्थं च, तेन व्यक्तिगत-संवादस्य कश्चन विधिः‌। सलात् परमानिवार्या वर्तते, तथापि विशेषेषु परिस्थितिषु अवमोचनानि वर्तन्ते। सलाति कुरान्-शास्त्रेण अरबीभाषायां प्रार्थनाः, काश्चन स्तुतयः च वर्तन्ते।[५२]

मुस्लिम्-जनाः काबा-प्रार्थनालयस्य दिशः अभिमुखाः भूत्वा सलातं आचरन्ति, यद्यपि प्राथमिकदिनेषु ते यरूशलम्-नगरस्य दिशः अभिमुखाः भूत्वा आचरन्ति स्म।

इस्लामीय-प्राथनालयः मस्जिद् इति उच्यते। मस्जिद् न केवलं प्रार्थनानां कृते अपितु सामाजिक-मेलनस्य अपि केन्द्रः वर्तते।[५३]

सौम् (उपवासः)[सम्पादयतु]

उपवासः (अरबी: “صوم” सौम्) सूर्योदयात् सूर्यास्त-पर्यन्त्म् मुख्यरूपेण भोजन-पानयोः, मिथुनस्य च, एवमेव असत्यादि दुराचरणानां त्यागः वर्तते। समान्यतः आवर्षे अनानिवार्यः उपवासः शक्यः, परन्तु इस्लामीये रम्ज़ान्-मासे उपवासः विशेषतः अनिवार्यः वर्तते। उपवासः भगवतः निकटतायाः भावः, दरिद्राणां पीडां प्रति संवेदनां च कल्पते, अतः मुस्लिम्-जनैः उपवासे भगवतः चिन्तनं करणीयं, तस्य नामानि जपितव्यानि, कुरान्-पाठः कर्तव्यः, पूर्वकृतानां पापानां क्षमा याचनीया, दीनानां दुविधानां चिन्तनं आदि कर्तव्यम् च। रुग्णैः, यात्रिभिः, अन्यैः दुविधाग्रस्तैः उपवासः न करणीयः, अपितु अस्य पारितोषिक-रूपेण अन्नदानं करणीयं, अथवा दुविधायां गतायां उपवासः करणीयः। [५४]

ज़कात् (वार्षिकदानम्)[सम्पादयतु]

ज़कात्(अरबी: "زکاۃ" ज़कात्/ज़काह् अर्थात् पावकः) दीनेभ्यः, अनाथेभ्यः, समाजे हृदयेषु सहनिध्याय, बन्धस्थानां बद्धश्रमिकानां च मुक्त्यै,दरिद्रऋणिभिः, हितेच्छार्थे परदेशेभ्यः, विरुद्धपथिकेभ्यः, दानविभागस्य कर्मचारिभिः दत्तं वार्षिकदानं अस्ति।[५५] अस्य व्यवस्था आयकरं इव अनिवार्यं वर्तते। यदि कस्यचन समीपे ५२.५ तोला-परिमितं रजतस्य सममुल्यं धनं आवर्षं तिष्ठति, तर्हि वर्षस्य अन्ते तस्य २.५ प्रतिशत-भागः अस्मिन् दाने दाननीयं वर्तते।[५६] इयं सामान्यतुलना निसाब् अर्थात् मानं उच्यते। विशेषजनाः एव धनस्य अतिसंचयः न कुर्युः, धनं च समस्तसमाजे समानरूपेण प्रसारितं भवेत्, जनाः धनार्जनं कृत्वा निष्कर्मिणः न भवेयुः इति अस्य दानस्य आशयाः।

टिप्पणी[सम्पादयतु]

  1. वर्तन् ग्रीगोरीयन् (२००३). Islam: A Mosaic, Not a Monolith. वाशिङ्गटन् डि.सी.: बुकीङ्गस् इनस्टिट्युसन् प्रेस्. pp. p. ix. ISBN 0-8157-3283-X. 
  2. "कुरान् २:२५५"
  3. "People of the Book" Islam: Empire of Faith. PBS. Retrieved on 2010-12-18
  4. Esposito, John L.(2002b) What Everyone Needs to Know about Islam pp.17,111,112,118, Oxford University Press. ISBN 0-19515713-3
  5. Teece, Geoff (2005). Religion in Focus: Islam. Smart Apple Media. pp. p. 10. 
  6. Nelson, Lynn Harry. "Islam and the Prophet Muhammad". Kansas University. Retrieved 2006-06-17.  - "One must remember that we are talking about the Muslim expansion, not Arab conquests. The expansion of Islam was as much, or perhaps much more, a matter of religious conversion than it was of military conquest."
  7. Esposito, John L. (२००२). What Everyone Needs to Know About Islam. अक्सफोर्ड् विश्वविद्यालयः, यू एस्. pp. p. 2. ISBN 0-19-515713-3. 
  8. Office for National Statistics (2003-02-13). "Religion In Britain". Retrieved 2006-08-27. 
  9. BBC (2005-12-23). "Muslims in Europe: Country guide". Retrieved 2006-09-28. 
  10. अरबीधातुः सीन्-लाम्-मीम्
  11. “What does Islam Mean?” , The Friday Journal 2011-02-06. Archived from the original on 2011-03-13.
  12. पश्य: कुरान् ६:१२५ कुरान् ३९:२२
  13. पश्य: कुरान् ५:३ कुरान् ३:८३
  14. पश्य: कुरान् ‌९:७४ कुरान् ४९:१४
  15. सहीह् अल् बुख़ारी १:२:४८
  16. Esposito John L. (2000-04-06) The Oxford History of Islam. Oxford University Press. pp. 76-77 ISBN 9780195107999
  17. Mahmutćehajić, Rusmir (2006). The mosque: the heart of submission Fordham University Press, p. 84. ISBN 978-0-8232-2584-2
    • Esposito, John L. (2002b) What Everyone Needs to Know About Islam Oxford University. pp. 74-76 ISBN 0-19515713-3
    • Esposito, John L. Islam the Straight Path (red Rev. Ups ed.) Oxford University Press.
    ISBN 978-0-19-518266-8
  18. “God Created the Universe to Serve Mankind: God Created” By Fateh Ullah Khan p.298
  19. Turfe, Tallal Alie(1935). Islamic Unity and Happiness TTQ, Inc. p.37 ISBN 9780940368477
  20. What is Islam? By Jamaal Zaragoza p.37 Retrieved 2014-10-07
  21. पश्य :कुरान् २:११७
  22. पश्य : कुरान् ५१:५६ अपिच Human Nature and Purpose of Existance patheos.com Retrieved on 2011-01-09
  23. पश्य :कुरान् २:१८६
  24. कुरान् ५०:१६
  25. I am as my servant thinks I am Hadithaday.org. Archived from the original on 2011-11-07
  26. Bently, David.(September 1999) The 99 Beautiful Names for God for All the People of the Book William Carey Library. ISBN 0-87808-299-9
  27. पश्य [कुरान् ‌२:९७-९८] [कुरान् ६६:४] च
  28. कुरान् २:९८
  29. [कुरान् ६९:१२-१५]
  30. कुरान् ३२:११‌
  31. कुरान् ५:४४; कुरान् ‌६:९१
  32. कुरान् ४:१६३‌
  33. कुरान् ५:४६
  34. कुरान् १४:१
    • Esposito John L.(2004) Islam: The Straight Path (3r ed) p. 6,12 ISBN 978-0-19-511234-4
    • “Tahrif” encyclopædia Britannica Online
  35. Chejne, A.(1969) The Arabic Language: It's Role in History, University of Minnesota Press, Mennepolis
  36. Al Faruqi; Lois Ibsen(1987), The Cantillation of Qur'an, Asian Music (Autumn-Winter 1987) p.3,4.
  37. “Quran” Encyclopædia Britannica Online
  38. Esposito, John L.(2004) Islam: The Straight Path p.79 ISBN 978-0-19-511234-4
  39. “Tafsir” Encyclopædia Britannica Online
  40. अरबीधातुः न-ब-अ
  41. अरबीधातुः र-स-ल
  42. “Islam” Encyclopædia Britannica Online
    • Encyclopedia of Islam and Muslims Word (2003), p. 666.
    • J.Robson. “Hadith” Encyclopedia of Islam Online
    • D. W. Brown. “Sunna” Encylopedia of Islam (2003)
  43. Animals in Islam by Basheer Ahmed Masri p.27
  44. कुरान् १:४
  45. कुरीन् ६:३१
  46. कुरान् १०१:१
    • कुरान् ९:५१
    • Cohon-mor (2001) A Matter of Fate: Concept of Fate in the Arab World as Reflected in Modern Arabic Literature. p.4 Oxford University Press. ISBN 0-19-513398-6
    • Ahmet T. Karamustafa “Fate” Encyclopeadia of Quran Online.
    • Farah, Caesar (2003) Islam: Beliefs and Observance (7th ed) pp. 119-122. Barron's Educational Series. ISBN 978-0-7641-2226-2
    • Patton Walter M. The Doctrine of Freedom in Korân. p.130. The American Journal of Semetic Languages and Literature. ISBN 90-04-10314-7
  47. Esposito, John L. (2002b) What Everyone Needs to Know About Islam Oxford University. pp. १८,१९ ISBN 0-19515713-3
  48. Encyclopedia of Women and Religion in North America p. ६१४ By Rosemary Skinner Keller, Rosemary Radford Ruether, Marie Cantlon
  49. कुरान् ९:६०
  50. सहीह्-अल्-बुखारी पुस्तकं २४ हदीस् ५०

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

शैक्षणिकस्रोतः
आन्तर्जालाधारितः स्रोतः
कोषाः
"https://sa.wikipedia.org/w/index.php?title=इस्लाम्-मतम्&oldid=402290" इत्यस्माद् पुनः प्राप्तिः