सामग्री पर जाएँ

शिल्पशास्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


शील समाधौ इति धातोः निष्पन्नं पदम् "शिल्पम्" । समाधिः नाम चित्तैकाग्र्यम् ।

पाणिनीये व्याकरणे बौद्धसाहित्ये च शिल्पशब्दः कलापरत्वेन सम्प्रयुक्तः । शिल्पम् इति पदं कलापर्यायम् भवतीति भरतः नाट्यशास्त्रे प्रोक्तवान् । कलायाः सर्वा अभिव्यक्तयः शिल्पशब्देन व्यवह्रियन्ते । यथा नाट्यकलायाः प्राचीनं नाम "शिल्पम्" इत्यासीत् | यथा अमरकोशे- "शिल्पं कर्म कलादिकम्" अपि च "मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः" इति प्रोक्तम् । शिल्पशास्त्रम् नाट्यशास्त्रम् च अन्योन्याश्रयिणी भवतः । अत एव शिल्पकला शिल्पविद्या इत्यादीनि पदानि शिल्पशास्त्रस्य पर्यायपदानि भवन्ति । वास्तुशास्त्रम् शिल्पशास्त्रस्य अङ्गभूतं शास्त्रम् । चतुष्षष्टिकलासु शिल्पकला सामाजिकी विश्वजनीना वैज्ञानिकी च भवति । तस्मात् शिल्पशास्त्रं भौतिके विज्ञाने अन्तर्भवति । शिल्पशास्त्रम् विश्वकर्मा (विश्वं कर्म यस्य सः) प्रणीतवान् ।

शिल्पशास्त्रम् वेदमूलम्

[सम्पादयतु]

शिल्पम् वेदमूलम्, यथा- ऋग्वेदे-"मह्यं त्वष्टा वज्रं तक्षदायसम्" (ऋग्.१,४८,३) हे त्वष्टः, मह्यं वज्रम् आयुधम् आयसम् निर्माय प्रयच्छ । इति इन्द्रः त्वष्टारं प्रार्थयते । शिल्पशास्त्रं नाम सृष्टिशास्त्रम् । वेदोक्तरीत्या विश्वसृष्ट्या सह शिल्पम् समारब्धम् । वेदेषु सृष्टिरेव शिल्पम् इति पदेन निरुक्तम् ।

येभिः शिल्पैः प्रप्रधानामदृग्ङहत् । येनद्यामभ्यपिग्ङ्शत् प्रजापतिः । येभिर्वाचं विश्वरूपाग्ङ् समव्ययत् । तेनेममग्न इह वर्चसा समङ्दि । तैत्तरीयब्राह्मणम्, २:८:२५:२.

अस्यार्थः - "प्रजापतिः विश्वकर्मा स्वस्य शिल्पकौशलेन सुविस्तृतां पृथिवीं निर्ममे । तेनैव कौशलेन आकाश-चन्द्र-ताराश्च अन्वसृजत् । पुनस्तेनैव वाचम् असृजत् । हे अग्ने, एनं राजानं राज्यं च समृद्धं विधेहि" इति । शिल्पाभिवृद्धिः राज्याभिवृद्धेः मूलभूतम् अङ्गम् । वेदकाले शिल्पिनः सङ्कृतिः इति अभिधानम् आसीत् । तथा च स्रष्टाऽपि सङ्कृतिः इत्यभिधीयते । यथा-

"स प्रथमः सङ्कृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणोऽग्निः । स प्रथमो बृहस्पतिश्चिकित्वान् । यजु. ब्राह्मणम्.१ अष्टकम्-१. ।

विश्वकर्मा प्रथमः सङ्कृतिः, सएव बृहस्पतिः । अतः शिल्पी स्थपतिपदवीं प्राप्तुं गीष्पतीष्टिनामकं बृहस्पतिसवनं कुर्यात् । कोशेऽपि यथा-

"सगीष्पतीष्ट्या स्थपतिः" ना.लि.शा.(ब्रह्मवर्गः)।

ऐतरेयब्राह्मणे(६/२१/५) उक्तरीत्या शिल्पे द्वैविध्यं ज्ञेयं दैवं मानुषं चेति । दैवं तु यज्ञकुण्डः, यज्ञवेदी, यज्ञपात्रम्, देवमूर्तिः, देवालयः, देवोपकरणम् इत्यादि । केवलं मनुष्योपयोगि शिल्पम् मानुषम् । शिल्पशास्त्रोक्तरीत्या तत्तत् प्रमाणैः विनिर्मिताः मूर्तयः यज्ञोपकरणादयश्च यजमानस्य अन्तरङ्गं पावयन्ति । अत एव "एतैर्यजमान आत्मानं संस्कुरुते" इत्युक्तम् ।

यत्ते शिल्पं कश्यपरोचनावत् -तैत्तरीयब्राह्मणम्,२/७/२५.३.

शिल्पप्रकल्पम्

[सम्पादयतु]

-आधारः-->"काश्यपशिल्पशास्त्रम्"

"https://sa.wikipedia.org/w/index.php?title=शिल्पशास्त्रम्&oldid=389087" इत्यस्माद् प्रतिप्राप्तम्