विश्वेश्वरपाण्डेयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

विश्वेश्वरपाण्डेयः उत्तरप्रदेशे पाटियाग्रामवास्तव्यस्य लक्ष्मीधरस्य पुत्रः। अस्य स्थितिकाल ईशवीयस्य अष्टादशशतकस्य पूर्वार्धे स्वीक्रियते।

निवासः, परिवारश्च[सम्पादयतु]

दण्डिपरवर्तिषु गद्यकाव्येषु विश्वेश्वरस्य मन्दारमञ्जरी स्वप्रकारककाव्यान्यतिशेते । विश्वेश्वरः कर्तृपुरस्य कूर्माचलस्थस्य अलमोहदाप्रदेशस्य पाटियाग्रामस्य निवासी आसीत् । पिताऽस्य लक्ष्मीधरो भारद्वाजसगोत्रीयः ।

कालः[सम्पादयतु]

स हि वैयाकरणसिद्धान्तसुधानिधौ भट्टोजिदीक्षितं प्रौढमनोरमां शब्दकौस्तुभञ्च स्मरति । तेनाऽसौ निश्चयेन भट्टोजिपरवर्तीति मन्यते। सहैव स हरिदीक्षितं शब्दरत्नञ्च नैव स्मरतीति तस्य हरिदीक्षितपूर्ववर्तित्वं वा समकालिकत्वं मन्यते। अपरञ्च, रसमञ्जर्याष्टीकायामन्ते तदात्मजस्य जयकृष्णस्य विषये निम्नः उल्लेखः प्राप्यते -

दिग्गुणर्तुशशलाञ्छनयुक्ते शालवाहनशके जयकृष्णः।

श्रावणीयसितपक्षदशम्यां निर्मितिं पितुरिमां विलिलेख॥

इति कथनादपि विश्वेश्वरस्य १६३८ मितशककालादर्थात् १७७३ मितवैक्रमाब्दात्पूर्वमेवास्तित्वं मन्यते। तथ्यमेवेदं कवीन्द्रकर्णाभरणस्य पादसूच्यामपि तथैव निर्दिशति यद्विश्वेश्वरपण्डितः ख्रीस्ताब्दीयाष्टादशशतकप्रथमपादे लक्ष्मीधरपण्डिताज्जन्म लेभे । अनेन स्वायुषो दशमवर्षप्रभृति ग्रन्थनिर्माणमारब्धं चत्वारिंशद्वर्षदेशीयश्च परलोकं जगामेति । ग्रन्थस्यास्य केनचित् विश्वेश्वरशिष्येणोत्तरभागः पूरित आसीदिति श्रूयते । अनेनान्येनाऽपि प्रमाणेनैतदेव मन्यते यदसौ कविः १७२०-१६६० मितवैक्रमाब्दानभितः स्थितिमानिति । युधिष्ठिरमीमांसकत्वस्य स्थितिकालं १६००-१६५० मितवैक्रमाब्दान्तरालगतं मन्यते।

काव्यकृतयः[सम्पादयतु]

अस्य सन्त्यनेके ग्रन्थाः प्रकाशिताः अप्रकाशिताश्च । प्रकाशितेषु वैयाकरणसिद्धान्तसुधानिधिः, अलङ्कारकौस्तुभः, रसचन्द्रिका, आर्यासप्तशती, अलङ्कारप्रदीपः, अलङ्कारमुक्तावली, कवीन्द्रकर्णाभरणं, रोमावलीशतकं, मन्दारमञ्जरी चेति नव ज्ञाताः । मन्दारमञ्जरी-गद्यकाव्यं, शृङ्गारमञ्जरी सट्टक, नवमालिका-नाटिका, रोमावलीशतकं चास्य काव्यकृतयः।

मन्दारमञ्जरी[सम्पादयतु]

मन्दारमञ्जरी गद्यकाव्येष्वन्यतमं प्रशस्यतमं काव्यम् । अयम् उपन्यासो भागद्वये विभक्तः। अत्र मगधराजस्य राजशेखरस्य कथा वर्णिता। मानवीयचरित्रस्य स्वाभाविकचित्रणेन, मनोवैज्ञानिक-तथ्यानाम् उद्घाटनेन, शैल्याः स्वाभाविकतया चायं सफलः प्रेमाख्यानक उपन्यासः। अस्य रचनाशैली कादम्बर्या प्रभाविता। तद्वत् अत्रापि मन्त्रिकृतं कुमारशिक्षणम्। कामदशावर्णनमपि प्रायेण कादम्बरीमनुसरति। बाणेन प्रभावितोऽपि विश्वेश्वरः प्रस्तुतीकरणशैल्यां नवतायाः समावेशं कृतवान्। इदं नवत्वमेव कवेः वैशिष्ट्यम्।

अत्र प्राच्यां दिशि स्थितस्य कुसुमपुरस्य राज्ञो राजशेखरस्य सुतस्य चित्रभानोर्मन्दारमञ्जयश्च प्रेम वर्णितमस्ति । प्रसङ्गतः कुसुमपुरवर्णनं, नायकनृपवर्णनं, शासनसौभाग्यं, प्रतापवर्णनं, कुमारशिक्षणवर्णनं, मन्दारमञ्जरीसमागमश्च वर्णिताः वैशद्येन । ग्रन्थोऽयं चित्रभानुमन्दारमञ्जरीपरस्परवर्णनानुरागवर्णनपर्यन्तमेव प्रणीतोऽत एवापूर्ण एव मन्यते । सम्भवति कवेरसामयिकनिधनेनास्य पूर्णता व्यवहिता। ग्रन्थस्यास्य तारादत्तपन्ताख्येन विदुषा १९९५ मितवैक्रमाब्दे कुसुमाभिधाख्या टीका प्रणीताऽस्ति ।

समालोचकाः कथयन्ति यद्ग्रन्थोऽयं बाणस्य कादम्बर्या विषयशैलीप्रस्तुतीकरणदृष्ट्या नितान्तमेव प्रभावितो दृश्यते । अस्य नगरवर्णनं कादम्बर्याः उज्जयिनीवर्णनात्, मन्त्रिगुणाः शुकनासवर्णनात्, कुमारशिक्षणवर्णनं चन्द्रापीडशिक्षावर्णनात्, शुकनासोपदेशाच्च, मन्दारमञ्जरीवर्णनं कादम्बरीवर्णनाच्च प्रभावितं दृश्यते । किन्तु बाणकृती यादृशी कल्पनाशक्तिः सहृदयता संवेदनात्मकता चे विद्यते सा विश्वेश्वरकृतौ न दृश्यते । अत्रापि कादम्बर्यामिव कथाभ्यन्तरे उपकथायाः समावेशेन जटिलता विलसति ।

अस्य भाषा प्रौढा, अलङ्कृता परिष्कृता च । अत्र प्रतिपदं श्लेषस्य, रूपकस्य, उत्प्रेक्षायाः, विरोधाभासस्य, परिसङ्ख्यायाश्च प्रयोगे कवेः शास्त्रीयपाण्डित्यं विलसित दृश्यते । भावस्य भाषायाश्च सुन्दरः समन्वयो दृश्यतेऽत्र । अत्रालङ्कारयोजनाऽपि दर्शनीया । वर्णनञ्चास्य व्यापकं सर्वाङ्गीणञ्च । दृश्यते कविरसौ कादम्बरीमपि अधीकर्तुं प्रयतते । किन्तु सन्त्यत्र कतिपयन्यूनताः यासु ग्रन्थस्यापूर्णता, कलापक्षस्य प्राधान्यं, पाण्डित्यप्रदर्शनलोभेन कथाविस्तारस्य गौणत्वं, कथायां प्रवाहस्य नितान्तमभावः, भावपक्षस्य न्यूनता, केवलं रूढेरेवाश्रयणं न तु व्यवहारस्य, रसपरिपोषणे न तथा ध्यानञ्च समुल्लेखनीयाः सन्ति, यत्कृते कवेरभिलाषो न तथा फलीभूतो दृश्यते । किन्तु नैतावतेवेतदवधेयं यद्ग्रन्थोऽयं निष्प्रयोजनः इति । सन्त्यत्र मनोरमकाव्यात्मकवर्णनान्यपि यत्कृते काव्यमिदं सफलतायाः परां कोटिमारोहति । तस्य वर्णनचातुर्या दिङ्मात्रमुदाहरणं यथा -

'वैयाकरणत्वादेव सन्धिविग्रहतत्त्वज्ञः बृहस्पतिरिव विबुधगुरुः, भार्गव इव कविपदवाच्यः, उद्गातेव सामप्रयोगाभिज्ञः, साङ्ख्यमिवाभ्युपगतपुरुषभेदः ।'

'तस्य च सरस्वतीवाश्रितचतुरानना, श्रीरिव प्रोल्लसितपद्मकरा, गौरीव भूभृद्वरोत्पन्ना, देवसेनेन बहुलापत्याह, पौलोमीवानुभूतशतमखा, लोपामुद्रेव कान्तागस्त्यानवक्षोभवा, रतिरिव पञ्चबाणसञ्चरणभूमिः, सीतेवानधिगतयोनिसङ्करा, अरुन्धतीवाविर्भूतरूपशक्तिः, लङ्केन्द्रदयितेव मन्दोदरी, तारेव प्राप्तसुग्रीवा, द्रौपदीव लब्धवेदिमध्या, रेणुकेवं रामाभ्यहिता, संज्ञेव स्वप्रतिनिधीकृतस्त्र्यन्तरा, छायेव संज्ञानुरूपा, सत्यवतीवोल्लसितव्यासचित्राङ्गदा, अम्बालिकेवाश्रितधृतराष्ट्रा, शकुन्तलेव सदाशुभरता, देवयानीव काव्यजन्मभूमिः, सन्ध्यावलीवाधिगतरुक्माङ्गदा, विनतेवारुणजनिरसज्ञा, रुक्मिणीव मन्मथजननी, प्रभावतोव रतिकान्तानुरक्ता, उषेव प्रियन्निरुद्धा, सुभद्रेव जिष्णुदयिता, उत्तरेव परीक्षितिलब्धपूर्वभागा, रोहिणीव चन्द्रसुन्दरमुखी महादेवी मलयवती नामाऽऽस्त्रीत् ।'

काव्यकला[सम्पादयतु]

विश्वेश्वरः पाञ्चालीरीतिम् आश्रयत्। शब्दार्थयोः भाषाभावयोश्च रुचिरं सामञ्जस्यं त्वस्य काव्ये स्फुटं संलक्ष्यते। अस्य गद्यं विषयानुरूपिण्या शैल्या स्वाभाविकं प्रभावोत्पादकं च सञ्जातम्।

मन्दारमञ्जर्याः वर्णनानि रोचकानि संश्लिष्टानि भावोद्दीपकानि अलंकृतानि च सन्ति। परिसंख्या कवेः प्रियः अलङ्कारः। तस्य सौन्दर्यं यथा- “गौणार्थपरिग्रहः शब्देषु न क्रियासु, पृष्ठदर्शनं सामप्रयोगेषु न सङ्गरेषु, अदृष्टपर्वत्वं विशिखत्वं च सायकेषु न तत्तद्विहितक्रियापरेषु, द्विजपरीक्षणं लक्षणाविचारेषु न दानेषु, श्रुतिलङ्घनं वधूनां कटाक्षेषु न जनेषु समभवत्।”

उपमारूपकोत्प्रेक्षाश्लेषादयः अलङ्कारा अपि बाहुल्येन प्रयुक्ताः। पात्रेषु सजीवता स्वीया विशिष्टता च स्तः। मानवीयप्रकृतेः बाह्यप्रकृतेश्च चित्रणे कविः सर्वथा सफलतां प्राप्तवान्।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विश्वेश्वरपाण्डेयः&oldid=439244" इत्यस्माद् पुनः प्राप्तिः