रत्नावली

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

कविपरिचयः[सम्पादयतु]

श्रीहर्षदेवस्य जन्म सरस्वतीनद्यास्तटे कुरुक्षेत्रसमीपे ‘थाणेश्वरे ५९० ईस्व्यां अभूत् । अस्य पिता महाराजः प्रभाकरवर्ध्दनः, माता च ‘यशोमती’ आसीत्। हर्षस्य अग्रजः राज्यवर्ध्दनः अनुजा च राज्यश्री । एतस्य ६०६ ईस्व्यां राजसिंहासनारोहणं जातम् । अयं एकछत्रसाम्राज्यस्य प्राप्त्यभिलाषया ६२० ईस्व्यां दक्षिण भारते आक्रमणम् अकार्षीत्, किन्तु चालुक्यवंशी-पुलकेशिनद्वितीयेन पराजितो बभूव ।एतस्यैव प्रशासनकाले चीनदेशीयः पर्यटकः ह्वेनसांगः भारतम् आजगाम । तस्य राज्यं हिमालयादारभ्य नर्मदां यावत् मालवा-गुर्जर बङ्गादिषु प्रदेशेषु विस्तृतम् आसीत्। श्रीहर्षस्य ६४६ ईसवीयान्ते मृत्युरभवत् ।

सम्राटश्रीहर्षः उदारहृदयः, विद्वान्, कविश्चासीत् बाणभट्ट-मयूर मातङ्ग-दिवाकरादयः विद्वांसः अस्य सभापण्डिताः आसन् । महाकविबाणभट्टः हर्षचरितनामके ग्रन्थे हर्षस्य प्रतिभायाः वर्णनमकार्षीत् । धावकनामकः कविः स्वकाव्यप्रतिभया हर्षं प्रसाद्य तस्मात् विपुलं धनं प्राप्तवान् । हर्षदेवस्य प्रमुखतया तिस्रः रचनाः आसन् –

  1. प्रियदर्शिका,
  2. रत्नावली,
  3. नागानन्दम् नाटकञ्च ।

नाटकस्य परिचयः[सम्पादयतु]

चतुर्णामङ्कानां निबध्दा रत्नावलीनाटिका श्रीहर्षवर्ध्दनेन विरचिता । अस्याः प्रधानो रसः श्रृङ्गारः नायको धीरललितो वत्सराजो उदयनः,नायिका मुग्धा नवीनानुरागवती सागरिका (रत्नावली) चास्ति । सिध्दपुरुषस्य भविष्यवाणीं श्रुत्वा कौशाम्बीनरेश- वत्सराज- उदयनस्य अमात्यः यौगन्धरायणः सिंहलेश्वरस्य विक्रमबाहोः दुहितां रत्नावलीं प्रच्छन्नरुपेण, सागरिका- नाम्ना दासीरुपेण अन्तः पुरे अप्रेषयत् । सागरिकायाः रुपलावण्येन शङ्किता राज्ञी वासवदत्ता सागरिकां सर्वदा उदयनात् दूरं गोपयति, किन्तु किराजा उदयनः चित्रफलकदर्शनेन सागरिकायाम् आसक्तो भवति । राज्ञी वासवदत्ता सागरिकां कारगारे निगडबध्दा करोति किन्तु् यदा वासवदत्ता जानाति यत् सागरिका (रत्नावली) तस्याः मातुलस्य पुत्री राजकुमारी च वर्तते, रत्नावल्याः पतिः चक्रवर्ती सम्राट् भविष्यति इति सिध्दपुरुषेण उक्तम् तदा सा राजानम् उदयनं तया सह विवाहं कर्तुं अनुमतिं प्रददाति । ततः 'निः शेषं यान्तु शान्तिं पिशुनजनगिरो दुर्जया वज्रलेपाः इति भरतवाक्येन नाटिका समाप्ता भवति ।

नाटिकायाः प्रमुखपात्राणि, राजा उदयनः, रत्नावली (सागरिका) राज्ञी वासवदत्ता, अमात्यःयैगन्धरायणः, वसन्तकविदॄषकः बाभ्रव्यः, वसुभूतिःकञ्चनमाला, सिसंगता, ऐन्द्रजालिकाश्च सन्ति । अस्याः नाटिकायाः उपजीव्यं बृहत्कथा वर्तते । अस्यां नाटिकायां श्रीहर्षदेवः नाटकतत्त्वानाम् उपस्थापने पूर्णरुपेण सफलोऽस्ति । कथावस्तु –घटनागतिशीलता –अभिनेयतादिकानां दृष्ट्या इयं नाटिका संस्कृतसाहित्ये महत्त्वपूर्णस्थानं प्राप्नोति ।

"https://sa.wikipedia.org/w/index.php?title=रत्नावली&oldid=444474" इत्यस्माद् पुनः प्राप्तिः