चम्पूकाव्यम्
चम्पू ( ( शृणु) /ˈxəmuːkɑːvjəm/) (हिन्दी: चम्पू काव्य, आङ्ग्ल: Champukavya) इत्ययं शब्दः स्त्रीप्रत्ययान्तः वर्तते । चुरादिगणस्य 'चपि' गत्यर्थकं धातोः 'उ' प्रत्यये सति चम्पयति चम्पतीति वा चम्पूः इत्यर्थकः चम्पू शब्दः व्युत्पनः । परन्तु तेन अर्थेन चम्पू-शब्दस्य वास्तविकः अर्थः न ज्ञायते । गत्याः गमनं, ज्ञानं, प्राप्तिः, मोक्षः इत्येते अर्थाः अपि अङ्गीक्रियन्ते । अतः अत्र मोक्षसमानम् आनन्दं दातुं समर्था श्रव्यकाव्यस्य मिश्रशैली एव चम्पूः इति गृह्यते । हरिदासभट्टाचार्यस्य मतम् अस्ति यत्, "चमत्कृत्य पुनाति सहृदयान् विस्मिताकृत्य प्रसादयति इति चम्पूः" इति । अर्थात् गद्य-पद्ययोः युक्ता काव्यस्य चम्पू इत्याख्या विशिष्टाशैली, या पाठकानां हृदये चमत्कारम् उत्पाद्य विस्मियेन सह पवित्रताम् उत्पादयति ।
द्वादशशताब्दस्य जैनमतानुयायी हेमचन्द्राचार्याख्यः काव्यविद् स्वस्य काव्यानुशासनाख्ये ग्रन्थे उदलिखत् यत्, अङ्कः तथा उच्छवासः च चम्प्वाः अभिन्नाङ्गे स्तः इति । परन्तु कतिपयेषु चम्पूकाव्येषु अङ्कोच्छवासयोः अपेक्षया विभाजकत्वेन अध्यायस्य उपयोगः प्राप्यते । अतः एतावता चम्पूकाव्यस्य कापि स्थिरपरिभाषा न प्राप्यते ।
“ |
गद्यपद्यमयं श्रव्यं, सम्बन्धं बहुवर्णितम् । सालङ्कृतैः रसैः सिक्तं चम्पूकाव्यमुदाहृतम् ।। |
” |
अर्थात् गद्यपद्यमिश्रितं, श्रव्यं, वर्णनप्रधानम्, अलङ्कारबहुलं, सरसं, प्रबन्धकाव्यम् एव चम्पूकाव्यत्वेन परिगण्यते । पञ्चतन्त्रसदृशाः रचनाः गद्यपद्यमये सत्यपि चम्पूकाव्यत्वेन न परिगण्यते । यतो हि तादृश्यः रचनाः प्रबन्धकाव्येषु न, अपि तु मुक्तकाव्येषु अन्तर्भवन्ति ।
चम्पूकाव्यस्य इतिहासः
[सम्पादयतु]गद्यपद्यमिश्रितानां काव्यानां रचना तु वैदिककाले एव आरब्धा आसीत् । कृष्णयजुर्वेदस्य तैतरीयसंहिता, मैत्रायणीसंहिता, कठसंहिता च चम्पूशैल्याः उत्तमानि उदाहरणानि सन्ति । ऐतरेयब्राह्मणस्य त्रयस्त्रिंशत्तमे (३३) अध्याये उल्लिखितः हरिश्चन्द्रोपाख्यानः मिश्रशैल्यां रचितः अस्ति । उदा. हरिश्चन्द्रो ह वैधस, ऐक्ष्वाको राजाऽपुत्र आस । तस्य शतं जाया बभूवुः । तासु पुत्रं न लेभे । तस्य ह पर्वतनारदौ गृहम् ऊषतुः । स ह नारदं पप्रच्छ इति ।
उपनिषत्सु पश्नोपनिषद्, मुण्डकोपनिषद्, कठोपनिषद् च मिश्रशैल्या एव उपस्थापिताः सन्ति ।
“ | ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १/१/१ ॥ कठोपनिषद् | ” |
एवं वेद-ब्राह्मण-उपनिषद्-पुराणादिषु मिश्रशैली प्राप्यते ।
ईसा इत्यस्य प्रथमेऽब्दे रचितम् अवदानशतकं गद्य-पद्य-मिश्रशैल्या प्राप्यते । हरिषेणकृतः समुद्रगुप्तप्रशस्तिः इत्याख्यः ग्रन्थः लौकिकसंस्कृतसाहित्ये मिश्रशैल्याः प्रप्रथमग्रन्थत्वेन परिगण्यते । चतुर्थेऽब्दे, पञ्चमेऽब्दे च मिश्रशैल्याः काश्चन रचनाः प्राप्यन्ते । तयोः अब्दयोः शिलालेखेषु, प्रशस्तिपत्रेषु च मिश्रशैल्या लिखिताः रचनाः प्राप्यन्ते । मध्यप्रदेशराज्यस्य मन्दसोर-नगरे वत्सभट्टिकवेः (४७३ ई.) मन्दसोरप्रशस्तिनामिका रचना शिलालेखे अङ्किता अस्ति । तथैव मौखरीवंशीयस्य ईशान वर्मन् आख्यराज्ञेण आश्रितः रविशान्तिनामकः (५५५ ई.) कविः मिश्रशैल्या हरहाप्रशस्तिम् अरचयत् । सप्तमाब्दे चन्द्रगिरिकवेः मिश्रशैल्याः शिलालेखानि प्रसिद्धानि अभूवन् । दशमेऽब्दे त्रिविक्रमभट्टेन मिश्रशैल्या प्रप्रथमः महत्त्वपूर्णः चम्पूग्रन्थः रचितः । तदेव चम्पूकाव्यं नलचम्पूः इति प्रसिद्धम् । त्रिविक्रमभट्टस्य रचनायाः अनन्तरं चम्पूकाव्यस्य प्रसिद्धिः अभवत् । ततः रचितानि चम्पूकाव्यानि अद्यापि उपलभ्यन्ते । यतो हि त्रिविक्रमभट्टस्य नलचम्प्वः अनन्तरं चम्पूकाव्यरचनायां वेगः अवर्धत । अतः त्रिविक्रमभट्टादेव चम्पूकाव्यानां विधिवत् आरम्भः अभवत् इति इतिहासविदां मतम् [१] ।
चम्पूकाव्यानां कालाधारितः विभागः
[सम्पादयतु]कालक्रमानुसारं चम्पूकाव्यानि चतुर्षु भागेषु विभज्यन्ते ।
१. दशमाब्दात् पञ्चदशमाब्दपर्यन्तम्
२. षोडशमाब्दात् सप्तदशमाब्दपर्यन्तम्
३. सप्तदशमाब्दस्य उत्तरार्धात् अष्टमाब्दपर्यन्तम्
४. एकोनविंशतितमाब्दात् वर्तमानकालपर्यन्तम्
चम्पूकाव्यस्य प्रकाराणि
[सम्पादयतु]१. नीत्युपदेशात्मकं चम्पूकाव्यम्
२. पौराणिकं चम्पूकाव्यम्
३. दृश्यकाव्यात्मकं चम्पूकाव्यम्
चम्पूकाव्यानि
[सम्पादयतु]चम्पूकाव्ये सामान्यकथनं तु गद्येनैव कथ्यते किन्तु विशेषकथनाय पद्यमाश्रियते । अतः गद्यपद्योभयस्वरूपं काव्यं चम्पूसज्ञकम् । काव्यप्रकारोऽयं बहुशः प्रचलितः सम्मानितश्च दश्यते विद्वत्समाजे।
व्याख्या
[सम्पादयतु]सामान्यतस्तु गद्यकाव्येऽपि यत्र-तत्र पद्यानामपि समावेशस्तु भवत्येव । यथा वासवदत्ता-हर्षचरित-कादम्बरी-दशकुमारचरितप्रभृतिग्रन्थेषु । तथापि तेषां चम्पूकाव्ये गणना नैव कृताऽस्ति । अतः ज्ञायते यत्, गद्यपद्यमयरचना नैव चम्पूकाव्यत्वमाप्नोति किन्तु तत्र गद्यपद्यभागयोः समानभागोप्यावश्यकः इति। यत्र गद्यं पद्यञ्च यथावश्यकं समानभागव्याप्यत्वेन प्रयुक्तं तदेव काव्यम्।
इतिहासः
[सम्पादयतु]काव्यप्रकारोऽयं कदा वा केन प्रारब्ध इति तु नैव ज्ञातमधुनाऽपि किन्त्वेतावत्तु प्रसिद्धमेव यदसौ विक्रमपूर्वकालेऽपि लब्धप्रचार आसीत् इति। प्रथमम् अस्य रूपं स्मरति आद्यकाव्यशास्त्राचार्यों भामहः । ततश्च रुद्रदाम्नो गिरिनाराभिलेखेऽनेकेषु गुप्तकालीनाभिलेखेषु चास्य स्वरूपमुच्यते । दण्डी तु - 'गद्यपद्यमयी काचिच्चम्पूरित्यभिधीयते'[२] इति नामत एव स्मरति काव्यभेदमिमम् । तथापि चम्पूकाव्यस्य स्वतन्त्रग्रन्थरूपेण त्रिविक्रमभट्टस्य नलचम्पूरेव प्रथममुदेति । ततश्च सोमप्रभसूरेः यशस्तिलकचम्पूः, हरिश्चचन्द्रस्य जीवन्धरचम्पूः, भोजस्य रामायणचम्पूश्च केचन प्राचीनाश्चम्पूग्रन्थाः।
एवमेव भागवतं महाभारतञ्चाश्रित्याऽप्यनेके चम्पूग्रन्थाः प्रणीताः सन्ति। एवमेव वरदाम्बिकापरिणयचम्पूः, नीलकण्ठविजयचम्पूः, विश्वगुणादर्शचम्पूः, मुक्ताचरित्रचम्पूः, आनन्दवृन्दावनचम्पूः, गोपालचम्पू:, आनन्दकन्दचम्पूः, चितचम्पूः, अवन्तिसुन्दरीकथाचम्पूः, पारिजातहरणचम्पूः, उषापरिणयचम्पूः, गजेन्द्र चम्पूः, भरतेश्वराभ्युदयचम्पूः, पुरुदेवचम्पूः, अमोघराघवचम्पूः, यतिराजविजयचम्पूः, विरूपाक्षवसन्तोत्सवचम्पूः, रुक्मिणीपरिणयचम्पूः, आचार्यविजयचम्पूः, वेङ्कटेशचम्पूः, धर्मविजयचम्पूः, शङ्करचेतविलासचम्पूः, गङ्गावतरणचम्पूः, रामचन्द्रचम्पूः, आनन्दचम्पूः, सुदर्शनचम्पूः, सिन्देविजयविलासचम्पूः, द्रौपदीपरिणयचम्पूः, नवरत्नावली चैवमाद्याः सन्ति प्रकाशिता अप्रकाशिताश्च सार्धद्विशताधिकाश्चैम्पूग्रन्थाः ।
चम्पूकाव्यानि
[सम्पादयतु]नलचम्पूः
[सम्पादयतु]अद्यावधि ज्ञातेषु चम्पूकाव्येषु त्रिविक्रमभट्टस्य नलचम्पूरेव प्रथमत्वेन गृह्यते । त्रिविक्रमः शाण्डिल्यगोत्रस्य श्रीधराऽऽख्यस्य पौत्रो देवादित्यस्य पुत्रः ९७२ मितवैक्रमाब्दमभितः स्थितिमान् । सः बाणभट्टं स्मरति-
'शश्वद्बाणद्वितीयेन नर्मदाकारधारिणा।
धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ।।'[३] इति ।
बाणभट्टस्य समयः श्रीहर्षसभाकवित्वेन ६५०-७१५ मितवैक्रमाब्दानभितो मतः । तेन अयमेव कालस्त्रिविक्रमस्य पूर्वसीमा स्थितिकालस्य । एवमेव विक्रमैकादशशतकोत्तरार्द्धभवो भोजो नलचम्पूं स्मरतीतीयमेव तस्य स्थितिकालस्यावरसीमा। तथैव सः राष्ट्रकूटवंशीयस्य तृतीयेन्द्रराजस्य समये आसीदिति उल्लेखः प्राप्यते -
श्रीत्रिविक्रमभट्टेन नेमादित्यस्य सूनुना।
कृता शस्ता प्रशस्तेयमिन्द्रराजाङ्घ्रिसेविना ॥इति।
कथनमिदं ९७२ मितवैक्रमाब्दे समुट्टङ्किताभिलेखे विद्यते । तेन ९७२ मितवैक्रमाब्दमभितस्तस्य स्थितिकाल इति । केचित्तु -
कैलाशायितमद्रिभिर्विटपिभिः श्वेतातपत्रायितं
मृत्पङ्केन दधीयितं जलनिधौ दुग्धायितं वारिभिः।
मुक्ताहारलतायितं व्रततिभिः शङ्खायितं श्रीफलैः
श्वेतद्वीपजनायितं जनपदैर्जाते शशाङ्कोदये॥[४]
एवमेव -
मदनमिति युवानं यौवराज्येऽभिषिञ्चन्
कृतकुमुदविकासो भासयन् दिङ्मुखानि ।
इमममृततरङ्गैः प्लावयञ्जीवलोकं
गगनमवजगाहे मन्दमन्दं मृगाङ्कः॥[५] ]
इति कथनेन श्लेषबलात्कमपि शशाङ्कसंज्ञितं नृपं स्मरतीति तर्कयति। तदनुसारेण कवेरस्य शशाङ्कसमकालिकत्वं मन्यते । शशाङ्को वै हर्षसमकालिकस्तत्प्रतिद्वन्द्वी गौडनरेशो वैक्रमसप्तमशतकोत्तरार्द्धस्थितिमान् । किन्तु कथनमिदं न तथा युक्तियुक्तं यतस्तथा सति तस्य बाणपूर्ववर्तित्वं मन्यते यद्धि तस्यैव 'शश्वबाणद्वितीयेन नर्मदाकार धारिणा'[६] इति कथनस्य विरोधः सञ्जायते । श्रीहर्षेण शशाङ्कवधानन्तरमेव बाणस्तत्सभायां प्रविष्ट आसीत् ।
नलचम्पूः दमयन्तीकथाप्युच्यते । ग्रन्थोऽयं सप्तोच्छ्वासेषु विभक्तोऽस्ति यत्र आर्यावर्तवर्णनमारभ्य नलदमयन्तीपरिणयपर्यन्ता कथा वर्णिताऽस्ति । कथ्यते एकदाऽस्य पिता कार्यवशाद्दूरदेशं गतः आसीत् । तदैव कश्चिदपरः पण्डितस्तं तत्रागत्य शास्त्रार्थाय समाहूतवान् । स तु भीतभीतः सरस्वतीमस्तौषीत् । साऽपि तत्पितृप्रत्यागमनपर्यन्तं तज्जिह्वावासं स्वीकृतवती । ततः शास्त्रार्थे तं पण्डितं पराजित्य गृहं प्रत्यागत्य ग्रन्थमिमं लिखितुमारब्धवान् । एतदन्तरे तत्पिता प्रत्यागतो गृहम् । ततो भारती तं त्यक्तवती येन ग्रन्थोऽपूर्ण एव संवृत्तः ।
ग्रन्थेऽस्मिन्नर्थालङ्कारापेक्षया शब्दालङ्कारस्यैव प्राधान्यं दृश्यते । तथाऽप्यस्य सरसा रमणीयार्था चमत्कारपूर्णा च । यथोक्तम् -
प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविलक्षणाः ।
भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ।।
वस्तुतस्तु तस्य कृतिरपि सदूषणाऽपि निर्दोषा सखराऽपि सुकोमला विद्यते रामायण कथेव। श्लेषस्य दुर्बोधत्वं स्वीकुर्वन् कविः स्वयमेव कथयति -
वाचः काठिन्यमायान्ति भङ्गश्लेषविशेषतः।
नोद्वेगस्तत्र कर्तव्यो यस्मान्नैको रसः कवेः ।।[७] इति ।
अस्य यमकच्छटा निभालनीया दृश्यते यथा -
धृतकदम्बकदम्बकनिष्पतन्नवपरागपरागममन्थराः।
हृततुषारतुषारतिरागिणां प्रियतमा मरुतो मरुतो वधूः॥[८] इत्यादि ।
स हि भावनिबन्धनेऽपि पटुर्दृश्यते । भर्तृहरेः -
व्यतिसजति पदार्थानन्तरः कोऽपि हेतुर्न खलु बहिरुपाधी प्रीतयः संश्रयन्ते ।
विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः॥
इति कथनम् -
भवति हृदयहारी क्वापि कस्यापि कश्चित् न खलु गुणविशेषः प्रेमबन्धप्रयोगे।
विसलयति वनान्ते कोकिलालापरम्ये विकसति न वसन्ते मालती कोऽत्र हेतुः।।[९]
इत्यनुवदति भावतः । तस्य हि वर्णनाचातुर्यं यथा -
आवासाः कुसुमायुधस्य शवरीसङ्केतलीलागृहाः
पुष्पामोदमिलन्मधुव्रतवधूझङ्काररुद्धाध्वगाः ।
सुस्निग्धाः प्रियबान्धबा इव दृशो दूरीभवन्तश्चिरात्
कस्यैते न वहन्ति हन्त हृदयं विन्ध्याचलस्य द्रुमाः ।।
इत्थं हि तस्य काव्ये शृङ्गारस्य सुन्दरः परिपाको वर्णनस्य माधुर्यं कल्पनायाः मनोज्ञता श्लेषच्छटा च समन्विता दृश्यन्ते ।
समालोचकैस्त्रिन्क्रमस्य कतिचित् त्रुटयोऽपि इङ्गिताः सन्ति । यासु पाण्डित्यप्रदर्शनार्थं कथावस्त्वनपेक्षा, रसपरिपाकापेक्षया शाब्दक्रीडायाः प्राधान्यं, कलाप्राबल्येन भावपक्षस्योपेक्षा, कथाविकासे गतिशीलतायाः स्वाभाविकसञ्चाराभावः, श्लेषपरिसृङ्ख्यादीनां श्रमसाध्यता, कथाया अकाण्डे एव विच्छित्तिरित्यादि ।
नलचम्पूमधिकृत्य सन्ति प्रसिद्धाः अनेकाष्टीकाः यासु चण्डपालकृता विषमपदप्रकाशा गुणविनयगणिकृता वृत्तिः (१६५० वै०) दामोदरी टीका, नागदेवी, बृहट्टीका, विवृतिटीका नन्दकिशोरस्य भावबोधिनी च ज्ञाताः काश्चन प्राचीनाः शेषराजशर्मणश्चन्द्रकला च नवीनासु ज्ञाता ।
अस्यैव ग्रन्थान्तरं मदालसाचम्पूः । अयमेव कुवलयाश्वचरितसंज्ञकोऽपि । काव्यमिदं कुवलयाश्वमदालसयोः प्रेमकथावर्णनपरं नलचम्प्वपेक्षया ग्रन्थोऽयं न्यूनश्रेणीकः । तथापि काव्यस्यास्य सुन्दरता रसवत्ता च प्रशस्या विद्यते । ग्रन्थस्यास्यैका टीका लभ्यते कस्यापि । ग्रन्थोऽयं कवेः प्रथमैव कृतिर्दश्यते । कथानकञ्चास्य मार्कण्डेयपुराणाद् गृहीतं प्रतिभाति ।
जीवन्धरचम्पूः
[सम्पादयतु]हरिचन्द्राख्यः कश्चिज्जैनजीवन्धराख्यस्य मुनेश्चरितमाश्रित्य जीवन्धरनामकचम्पूग्रन्थं प्रणीतवान् । ग्रन्थोऽयं गुणभद्रेण ९०७ मितवैक्रमाब्दमभितः सङ्कलितमुत्तरपुराणमुपजीवति । तेनास्य प्रणयनकालो वैक्रमदशमशतकोतरार्द्धमभितोऽनुमितः । एवन्तु स्पष्टमेव यदसौ भट्टारहरिचन्द्राद्, यं बाणभट्टोऽपि सादरं स्मरति, भिन्न एव किन्तु सम्प्रत्यपि नैतत्स्पष्टं यदसौ हि शर्मधर्माभ्युदयकाव्यस्य प्रणेता एव वा तद्भिन्न इति । असौ माघे बाणभट्टञ्च सुस्पष्टमेवानुकरोति भावभाषादिकमधिकृत्य ।
यशस्सिलकचम्पूः
[सम्पादयतु]नेमिदेवस्य शिष्येण सोमदेवाख्येन विदुषा यशस्तिलकनामा चम्पूग्रन्थः प्रणीतोऽस्ति । अत्र सन्ति अष्टावुच्छवासाः । सः राष्ट्रकूटस्य राज्ञः कृष्णदेवराजापराभिधानस्य तृतीयकृष्णस्य सभामण्डित आसीत् । तेन ग्रन्थस्यास्य प्रणयकालः १०१६ मितवैक्रमाब्दमभितोऽनुमितः।
ग्रन्थेऽस्मिन् यशोधरस्य राज्ञः सुदत्तमुनेरुपदेशेन जैनमतावलम्बनवृत्तान्तो वर्णितोऽस्ति । अत्रापि कादम्बर्यामिव कथान्तरे कथा कथिताऽस्ति । अत्र भारवि-भवभूति-भर्तृहरि-मेण्ठ-गुणाढ्य-भास-कालिदास-बाण-मयूर-नारायण-माघ-राजशेखर-प्रभृतिकवयः स्तुताः सन्ति प्रारम्भिकपद्येषु । ग्रन्थोऽयं यशोधर्मराजचरितसंज्ञयाऽपि ज्ञायते । केचिदमुमेव कविं सोमप्रभरिनाम्नाऽपि गृह्णन्ति ।
चम्पूरामायणम्
[सम्पादयतु]चम्पूरामायणं चम्पूग्रन्थेषु उत्कृष्टकाव्यं मन्यते । अस्य प्रणेता १०६२-११११ मितवैक्रमाब्दानभितः स्थितिमान् परमारवंशीयो धारानगरीश भोजः स्मृतः किन्तु ग्रन्थे न कुत्रापि प्रणेतृनाम दत्तमस्ति । तथैव प्रतिकाण्डपुष्पिकाः वाक्ये 'इति श्रीविदर्भराजविरचिते चम्पूरामायणे' इत्युल्लिखितं दृश्यते । ग्रन्थस्यास्य प्रणेता भोजाऽऽख्य इति तु 'भोजेन तेन रचितामपि पूरयिष्यन्' इति युद्धकाण्डगतलक्ष्मणभट्टपद्याज्ज्ञायते । किन्तु कोऽसौ भोजः कतमोऽयमिति तु सम्प्रत्यपि अनिर्णीतमेव, ग्रेन्थपुष्पिकावाक्यात्तु अस्य प्रणेत्ता कश्चिद् विदर्भराज दश्यते । विदर्भेषु राजानः भोजशब्देन व्यपदिश्यन्ते प्राचीनकालादेव । यथा 'भोजेन दूतो राघवे विसृष्ट' इति रघुवंशेऽपि । धारानगरीशः परमारवंशीयः सिन्धुराजपुत्रोऽपि भोजशब्देन व्यपदिश्यते । भारतीया परम्परा धारानगरीशभोजमेव ग्रन्थस्यास्य प्रणेतृत्वेन गृह्णाति । अपरञ्च, भोजप्रबन्धादावपि स एव विद्वन्मूर्धन्यत्वेन गृहीतोऽस्ति । सम्भवति कोऽपि लिपिकारः भोजं हि वैदर्भं मत्वा तथाविधं पुष्पिकावाक्यं पश्चात्संयोजितं स्यात् । ग्रन्थगौरवदृष्ट्या त्वयं ग्रन्थो धारानरेशस्यैव भवितुमर्हति । गन्थस्यास्य सद्यः पञ्च काण्डानि भोजप्रणीतानि युद्धकाण्डे तु लक्ष्मणभट्टनाम्ना विदुषा प्रणीय पूरितम् । तथैव वेङ्कटराजाख्येन कविना उत्तरकाण्डमपि विरच्य पूरितमिति कथ्यते ।
ग्रन्थेऽस्मिन् वैदर्भीरीति सर्वातिशयित्वेन विलसति । वर्णनेऽत्र प्रयुक्ता कल्पना नितान्तोच्चकोटिका । अत्र अनुप्रासयोपमायाश्च वैचित्र्यं कुमारदासं स्मारयति । अस्योत्प्रेक्षाऽपि निभालनीया। दिङ्मात्रमुदाहरणं यथा -
सीता पुरा गगनचारिभिरप्यदृष्टा मा भूदियं सकलमानवनेत्रपात्रम्।
इत्याकलय्य नियतं पिदधे विधाता बाष्पोदयेन नयनानि शरीरभाजाम्॥[१०]
इति विविधरसाभिः कौशिकव्याहुताभिः श्रुतिपथमधुराभिः पावनाभिः कथाभिः।
गलितगहनकृच्छ्र गच्छतोर्दाशरथ्योः समकुचदिव सद्यस्तादृशं मार्गदैर्व्यम् ॥[११]
'राजन्, भवतः कुमारेण विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन क्रियमाणक्रतुरक्षो रक्षोदुरितमुत्तीर्य कृतावभृथो भवितुमभिलषामीति'।
भागवतचम्पूः
[सम्पादयतु]अभिनवकालिदासाख्येन केनचित्कविना सम्भवतः ११०० वैक्रमाब्दमभितः स्थितिमता भागवतकथा षट्सु स्तबकेषु विभज्य वर्णिताऽस्ति । सन्ति बहवो हि कवयो नाम्नैतेन ख्यातास्तेन कतमोऽस्य ग्रन्थस्य प्रणेतेति नैव निश्चित सम्प्रत्यपि ।
उदयसुन्दरीकथा
[सम्पादयतु]विक्रमानन्तरैकादशशतकोत्तरार्द्धभवस्य सोड्ढलस्य कवेः उदयसुन्दरीकथाऽपि गद्यपद्यसमप्राधान्येन चम्पूत्वं भजते । अत्र अष्टातमाः सन्ति यत्र नागराजकुमार्या उदयसुन्दर्याः प्रतिष्ठाननरेशेन मलयवाहनेन सह परिणियः वर्णितः । अत्रापि हर्षचरितमिव वाल्मीकि-व्यास-वाक्पतिराज-विशाखदेव-गुणाढ्य-भर्तृमेण्ठ-कालिदास-बाण-भवभूति-अभिनन्दन-मायावर-कुमारदास-भासप्रभृतयः कवयः चित्तराजनागार्जुन-मुम्मुनिराज-कोङ्कणनरेश-वत्सराज-प्रभृतयोऽपि स्मृतास्तथैव लाटमहीपश्चालुक्य आश्रयदातृत्वेनाल्लिखितः । यथा हि -
'वागीश्वरं हन्त भजेऽभिनन्दमर्थेश्वरं वाक्पतिराजमीडे।
रसेश्वरं स्तौमि च कालिदासं बाणं तु सर्वेश्वरमानतोऽपि।।'
'बाणस्य हर्षचरिते निशितामुदीक्ष्य।
शक्तिं न केऽत्र कवितास्वमदं त्यजन्ति।।'
सोड्ढलः पदे पदे बाणमनुसरति । तथाप्यस्य शैली मौलिकी सरसा च विद्यते । असौ क्षक्-झम्पप्रभृतिनितान्ताप्रचलितान् शब्दान् अपि प्रयुनक्ति। ग्रन्थस्य प्रथमाध्याये कवेरात्मकथा दत्तास्ति ।
कीर्तिकौमुदी
[सम्पादयतु]१२९७ मितवैक्रमाब्दमभितः स्थितिमतः सोमेश्वरदेवस्य कीर्तिकौमुदी अपि चम्पूकाव्येष्वेका । अत्र वीरधवलस्य मन्त्रिणो वस्तुपालस्य चरितं चित्रितमस्ति।
गङ्गावंशानुकीर्तनम्
[सम्पादयतु]कलिङ्गशासकस्य गङ्गावंशस्येतिहाससम्बद्धश्चम्पूग्रन्थोऽयं वासुदेवरथप्रणीतः । अस्य प्रणयनकालः १४७७ मितवैक्रमाब्दमभितोऽनुमितः ।
भारतचम्पूः
[सम्पादयतु]अनन्तभट्टप्रणीतभारतचम्पूर्महाभारतमाश्रित्य प्रणीतो द्वादशस्तबकेषु विभक्तो ग्रन्थः । एवं १६६० मितवैक्रमाब्दमभितः स्थितिमान् नारायणभट्टः स्मरतीति तस्य स्थितिकालः १५५० मितवैक्रमाब्दमभितोऽनुमितः । अस्यैव भागवतचम्पूरपि श्रूयते । अस्योपरि नारायणसूरेष्टीका लभ्यते मुद्रिता । अस्य हि ग्रन्थाद्यपद्ये -
'दिगन्तरलुठत्कीर्तिरनन्तकविकुञ्जरः ।
प्राणैस्तुल्यं सरस्वत्याः प्राणैषीच्चम्पूभारतम्॥'[१२] इति लिखितमस्ति ।
वस्तुतः कवेरस्य इलेषचमत्कारो निभालनीयो दृश्यते । यथा हि -
'नवतरुणिमलक्ष्मीनन्दनीयं शरीरं कुरुवृषभसुतानां कुर्वती नेत्रपात्रम्।
मुनिततिरिति मेने मोहनाय त्रिलोक्याः स्वविशिख इव कामः सोऽपि किं पञ्चधाऽभूत्॥'[१३] इत्यादि।
रामानुजचम्पूः
[सम्पादयतु]सरसशैल्यां प्रणीतेऽस्मिन् ग्रन्थे विशिष्टाद्वैतमतप्रवर्तकस्य रामानुजस्य जीवनचरितं वर्णितमस्ति । अस्य प्रणयनकालः १६६० मितवैक्रमाब्दमभितोऽनुमितः ।
वरदाम्बिकापरिणयचम्पूः
[सम्पादयतु]तिरुमलाम्बायाः वरदाम्बिकापरिणयचम्पूश्चम्पूकाव्येषु भावभाषादिदृष्ट्या नृपायते । अत्र हि अच्युतरायस्य वरदाम्बिकायाश्च प्रणयपरिणयौ मनोहारिण्या शैल्या वर्णितौ स्तः।
कवीयत्र्यसौ १५८६ मितवैक्रमाब्देऽभिषिक्तस्य राज्ञोऽच्युतरायस्यैव धर्मपत्न्यासीत् । अतोऽस्याः स्थितिकालः १५१०-१५५० मितवैक्रमाब्दानभितोऽनुमितः । ग्रन्थोऽयं भङ्गश्लेषेऽसाधारणः । निभाल्यतामस्य वर्णनासौष्ठवम् -
तदनु धरणिपालो धावता चेतसाऽग्रे सरभसमिव कृष्टः सरभगौर्याः प्रविश्य।
तडित इव घनौघे तत्र तत्र स्फुरन्तीः परित इह पुरन्ध्रीः पर्यटन्तीरपश्यत्॥[१४]
एवमेव नारायणभट्टेन (१६६० वै०) द्रौपदीस्वयंवरकथामधिकृत्य पाञ्चालीस्वयंवरचम्पूः श्लेषजालमुक्ता दृश्यते । समरपुञ्जप्रणीते यात्राबन्धे नवाश्वासाः सन्ति । अत्र सर्वाण्यपि तीर्थानि वर्णितानि सन्ति मुख्यानि । ग्रन्थोऽयं १६८० मितवैक्रमाब्दमभितः प्रणीतोऽनुमीयते । १६८० मितवैक्रमाब्दमभितः स्थितिमता मित्रमिश्रेण भङ्गश्लेषमाधृत्य आनन्दकन्दचम्पूः स्वकीयैवैशिष्ट्यैः प्रसिद्धोऽस्ति । असौ कृष्णस्य बाल्यकालकथामनुजीवति ।
चिदम्बरस्य (१६७० वै०) भागवतचम्पूः, शेषकृष्णस्य (१६६० वै०) पारिजातहरणचम्पूः, नीलकण्ठस्य नीलकण्ठविजयचम्पू: (१६९७ वै०) यो हि पञ्चसु अध्यायेषु विभक्तं यत्र शिवस्य पराक्रमो वक्रोक्तिपूर्णभाषायां वर्णितः, राजचूडामणेः (१६५७ वै०) भारतचम्पूः, चक्रकवेः (१७०७ वै०) द्रौपदीपरिणयचम्पूः, वेङ्कटाध्वरिणः विश्वगुणादर्शचम्पूः, वरदाभ्युदयचम्पूः, उत्तरचम्पूः, श्रीनिवासचम्पूश्च कतिपये प्रसिद्धचम्पूग्रन्थाः ।
विश्वगुणादर्शचम्पूः
[सम्पादयतु]चम्पूकाव्यजगति वेङ्कटाध्वरिणः स्थानमतीव महत्त्वपूर्णम् । तस्य सन्ति चत्वारश्चम्पूग्रन्थाः, येषु विश्वगुणादर्शचम्पूरादर्श ग्रन्थरूपेण गृहीतोऽस्ति । कविरसौ स्वपरिचयमित्थं प्रस्तौति -
अस्तोकाध्वरकर्तुरप्पयगुरोरस्यैव विद्वन्मणेः।
पुत्रः श्रीरघुनाथदीक्षितकविः पूर्णो गुणैरेधते॥२॥
तत्सुतस्तर्कवेदान्ततन्त्रव्याकृतिचिन्तकः।
व्यक्तं विश्वगुणादर्शं विधत्ते वेङ्कटाध्वरी।। ३ ।।
अनेनैतत् मन्यते यदसौ अप्पयदीक्षितस्य पौत्र आसीदिति । तेनाऽस्य समयः १७०७ मितवैक्रमाब्दमभितो मतः । स कथयति -
पद्यं यद्यपि विद्यते बहुसतां हृद्यं विगद्यं न तद्
गद्यं च प्रतिपद्यते न विजहत्पद्यं बुधास्वाद्यताम्।
आदत्ते हि तयोः प्रयोग उभयोरामोदर्भूमोदयं
सङ्गः कस्य हि न स्वदेत मनसे माध्वीकमृद्वीकयोः।।४।।
ग्रन्थस्य कथावस्तु पृष्ठभूमिश्चेत्थम् -
विश्वावलोकस्पृहया कदाचिद्विमानमारुह्य समानवेषम्।
कृशानुविश्वावसुनामधेयं गन्धर्वयुग्मं गगने चचार॥ ५ ॥
तौ हि क्रमशः सूर्यलोक-भूलोके, भूलोके अयोध्या-गङ्गानदी-काशीसमुद्र-जगन्नाथक्षेत्र-गुर्जरदेश- यमुनानदी-महाराष्ट्र-आन्ध्रप्रदेश-कर्णाटकदेश-वेङ्कटगिरि-वन-घटिकाचल-दीक्षारण्य-रामानुज-चन्नपट्टण(मद्रास)-काञ्ची-श्रीमद्वेदान्तदेशिकाचार्य-कामासिकानगरवासि-नृसिंह-त्रिविक्रम-कामाक्षीदेवी-एकाम्रेश्वर-क्षीरनदी-वाहानदी-तुण्डीरमण्डल-चञ्जीपुरी-यज्ञवराह-कावेरी-रङ्गनगरी-जम्बूकेश्वर-चोलदेश-शार्गपाणि-राजगोपाल-सेतु-ताम्रपर्णी-शठकोपमुनि-वेदान्ति-ज्योतिषिक-भिषक्कवि-तार्किक-मीमांसक-वैयाकरण-वैदिक-राजसेवक-दिव्यक्षेत्र-प्रभृतीनां वर्णनं सुनिपुणं कृतमस्ति । कविवर्णनं यथा -
माघश्चौरो मयूरो मुररिपुरपरो भारविः सारविद्यः
श्रीहर्षः कालिदासः कविरथ भवभूत्याहृयो भोजराजः ।
श्रीदण्डी डिण्डिमाख्यः श्रुतिमुकुटगुरुर्भल्लटो भट्टबाणः |
ख्याताश्चान्ये सुबंन्ध्वादय इह कृतिभिर्विश्वमाह्लादयन्ति ॥'[१५] इति ।
संवादरूपेण प्रणीतोऽयं ग्रन्थो गुणदोषविवेचनपरः ।
वरदाभ्युदयेऽनेन काञ्चीस्थदेवतानां महत्त्वं वणितमस्ति । उत्तरचम्बा रामायणस्योत्तरकाण्डगता कथोपवणताऽस्ति । श्रीनिवासचम्प्वादशीध्यायाः सन्ति यत्र तिरुमलयस्थितदेवतानां वर्णनं दृश्यते । एवमेव बाणेश्वरस्य चित्तचम्पूग्रन्थे रोज्ञश्चित्रसेनस्य जीवनं चित्रितमस्ति यो हि १८०१ मितवैक्रमाब्दे मृतः। कवेरस्य समयो वैकमैकोनविंशतिशतवपूर्वार्द्धमभितः । अस्य स्थितिक सम्प्रत्यपि नैवं निर्णीतः। द्वितीयसर्कोजोतिख्यातस्य तञ्जोरनृपस्य कुमारसम्भवचम्पूः (१८७५ वै०)।
अज्ञातकर्तृका सर्वदेवविलासचम्पूर्मद्रदेशस्य तात्कालिकॉमवस्था-वर्णयति । षडाश्वासात्मकोऽयं ग्रन्थोऽपूर्ण एवं दृश्यते । वर्तमानकाले शिवप्रसादद्विवेदिनी, नवरत्नावलीयमिति: चैम्पूग्रन्थः प्रणीतोऽस्ति । अत्रं रवनत्नानि सन्ति । तुलसीदासजीवनसम्बद्धकथाऽत्रं वणता । ग्रन्थोऽयं २०४० मितवैक्रमाब्दे प्रकाशितः । इत्थं हि रामायणश्रिताः, महाभारताश्रिताः, भगवताश्रितश्चेि संम्त्यनेकै शताधिकांश्चम्पू ग्रन्थाः येषां विवरणमंत्र विस्तरंभिया नवोपस्थाप्यते । भगवती तिचम्पूषु चिदम्बरस्य, रामभद्रस्य, राजनाथस्य च भागवतचम्पूः, केशव भट्टस्य नृसिंहचम्पू:, दैवज्ञसूर्यस्यं नृसिंहचम्पूः, संङ्कर्षणस्य नृसिंहचम्पूः शेषसंस्कृतसाहित्येतिहासः कृष्णस्य पारिजीतहरणञ्च । मैहाभारताश्रितचम्पूषु अनन्तभट्टस्य भारतचम्पू: प्रसिद्धी ।। - संस्कृतजगति प्रसिद्धाश्चम्पूकारा यथा कालक्रमानुसारेण 'त्रिविक्रमश्च सोमश्च हरिचन्द्रस्तथैव च । भोजश्च सोडूढलश्चैव राज्ञी तिरुमलाह्वया ।। नारायणस्तथा चीसन वेङ्कटाध्वरिसूरयः । शेरोऽपि चे विख्याताश्चम्पूकाव्यविधायकाः ।।' इति ।
कानिचन चम्पूकाव्यानि
[सम्पादयतु]१ नलचम्पूः
४ भारतम्
११ उषापरिणयः
१२ कंसवधचम्पूः
१३ कुचेलवृत्तम्
१४ कृष्णावतारम्
१६ तृणावर्तवधम्
१७ नारदमोहनम्
१९ पूतनामोक्षम्
२१ बाणयुद्धम्
२२ राजसूयम्
२३ रासक्रीडा
२६ वामनावतारः
२९ स्यमन्तकम्
३० भागवतचम्पूः
३१ विधुवंशम्