चम्पूरामायणम्
चम्पूरामायणम् इत्येतत् भोजराजेन लिखितं सुप्रसिद्धं चम्पूकाव्यम् ।
सुन्दरं,रसात्मकं च शब्दार्थयुगलं "काव्यम्" इत्यभिधीयते । तच्च काव्यं "दृश्यम्" "श्रव्यम्" "मिश्रम्" च त्रिविधम् । दृश्यकाव्यानि अभिज्ञान्शाकुन्तलम् इत्यादीनि नाटकानि | रघुवंशादीनि सर्वाण्यपि काव्यानि श्रव्येऽन्तर्भवन्ति । यस्मिन् काव्ये गद्यानि पद्यानि च सङ्गतानि वर्तन्ते तानि चम्पूकाव्यानि, चम्पूरामायणादीनि । संस्कृतसाहित्ये वैदिकसाहित्ये च पद्यानामेव प्राचुर्यम् । किन्तु वेदकालादपि गद्यप्रबन्धानां काचित् परम्परा दृश्यते । केषुचित् याजुषमन्त्रेषु, उपनिषत्सु च छन्दोवृत्तिरहितानि गद्यसदृशानि गहनतत्वाख्यानानि द्रष्टुं शक्यन्ते । भागवतादिषु पुराणेषु गद्यप्रयोगाः प्रणिहिताः । महाभारते च "नहुषोपाख्यानादीनि" आख्यानानि गद्यद्वारा एव निरूपिताः । तथैव पतञ्जलिप्रभृतिभिः शास्त्रकारैः महाभाष्यादिषु गद्यपद्योभायात्मकानि काव्यानि समुदाह्रियन्ते । किन्तु एतादृशानां गद्यपद्यमिश्रकाव्यानां प्रत्येकतया "चम्पूः" इत्यभीधानं सप्तमशतकात् अर्वाचीनैः शास्त्रकारैः व्यवस्थापितम् इति न हि विद्वद्भिः अनवगतम् । तस्मात् "गद्यपद्यात्मकं काव्यं चम्पूरित्यभिधीयते" इति सामान्यतः चम्पूकाव्यलक्षणम् प्रथितम् । आचार्यदण्डिना काव्यादर्शे लक्षणग्रन्थे प्रोक्तरीत्या "गद्य-पद्यमयी काचित् चम्पूरित्यभिधीयते" इति, अथवा भोजेन उक्तप्रकारेण चम्पूरामायणे "गद्यानुबन्धरसमिश्रितपद्यसूक्तिः । हृद्या हि वाद्यकलया कलितेव गीतिः ॥" इत्यपि चम्पूलक्षणम् भवितुमर्हति । एतानि चम्पूकाव्यानि सङ्ख्यादृष्ट्या नातिबहूनि, वस्तुदृष्ट्या सुपरिचितानि, निबन्धदृष्ट्या बहुमूल्यानि, काव्यपङ्तौ देदीप्यमानानि विरलान्येव दृश्यन्ते ।
कविपरिचयः
[सम्पादयतु]भोजराजेन चम्पूरामायणम् इति सुप्रसिद्धं चम्पूकाव्यं लिखितम् । भोजः विदर्भानां राजा । अस्य काव्यशैली अपि "वैदर्भी" इति ज्ञायते । एषः परमारवंशीयः महाराजः, महाकविः, महावैय्याकरणः, महान् आलङ्कारिकश्च एवं चतुर्महान् भोजराजः । अयं भोजराजः प्रथमं उज्जयिन्याम् उवास । ततः कारणान्तरेण राजधानीं धारानगरम् प्रति स्थानान्तरितं कारितवान् इति ऐतिहासिकैः साक्ष्यैः ज्ञातुं शक्यते । यतः कश्चन "अबुल् फसल्" नामकः महम्मदीयः चरित्रकारः स्वस्य "अय्ने अक्बरि" नामके ग्रन्थे " भोजः स्वस्य राजधानीं उज्जयिन्याः धारानगरं प्रति नीतवान्" इति उल्लिखितवान् । अयं यथा कविः तथा "कलिः" च आसीत् । महम्मद् घस्नि इत्यनेन साकं शौर्येण युद्धं अकरोत् इति शासनैः अवगम्यते । अयं धारानगरे सरस्वतीदेव्याः सुन्दरं भव्यं च मन्दिरमेकं निर्मापितवान्, यदधुना मदरसारूपेण परिवर्तितं दृश्यते । भोपालनगरात् नैरृत्यां दिशि विद्यमानः "भोजसरोवरः" अस्य वास्तुशिल्पप्रबुद्धतायाः साक्षी आसीत् । पञ्चदशशतकपर्यन्तमपि एष सरोवरः दृष्टिगोचर आसीदिति श्रूयते । स्वयं कविः, कवीनां पोषकश्च आसीदिति ऐतिहासिकैः भोजप्रबन्धादिभिः ग्रन्थैः अवगन्तुं शक्यते । बल्लालसेनविरचिते "भोजचरिते" भोजराजस्य कथा विस्तरशः वर्णिता । यद्यपि बल्लालसेनस्य ग्रन्थः यथार्थं इतिहासं न निरूपयति । किन्तु भोजराजस्य वैदुष्यविषये वास्तविकीं परिचितिं ददाति । भोजः अनेकान् शास्त्रग्रन्थान् तथा काव्यानि च विरचित्वान् । तेषु अन्यतमम् "चम्पूरामायणम्" ।
भोजराजस्य कृतयः
[सम्पादयतु]- चम्पूरामायणम्(चम्पूकाव्यम्) * सरस्वतीकण्ठाभ्रणम् * शृङ्गारप्रकाशः(अलङ्कारशास्त्रम्) * शब्दानुशासनम् (व्याकरणशास्त्रम्) * सङ्गीतप्रकाशः (सङ्गीतशास्त्रम्)* समराङ्गणसूत्रधारः (वास्तुशास्त्रम्)* शिवदत्तस्तोत्रम् * राजमार्तण्डः (व्याख्यानम्) * रघुवंशव्याख्यानम् * राजवार्तिकम्(व्याख्यानम्) एतानि भोजराजेन विरचितानि साहित्यानि ।
चम्पूरामायणम्
[सम्पादयतु]इदं गद्यपद्यात्मकं काव्यम् । वैदर्भीं शैलीम् आश्रित्य काव्यमिदं विरचितं द्राक्षापाकवत् मधुरम् इति प्रशंसां भजते । वर्णनाचातुर्ये निपुणोऽयं कविः हितमिततया अलङ्कारान् प्रयुङ्क्ते । शब्दालङ्कारे, अनुप्रासप्रयोगे च संक्षिप्ततया विषयनिरूपणे च असदृशोऽयं कविः । अत्रावधीयताम् इदं पद्यम् यथा -:अपि कुशलममर्त्याः! स्वागतं साम्प्रतं वः । शमितदनुजदम्भा किन्नु दम्भोलिकेलिः ? ।
ग्रन्थारम्भः
[सम्पादयतु]चम्पूरामायणे बालकाण्डे महाविष्णुस्तुतिरारभ्यते। प्रबन्धरत्नमिदं श्री भोजराजेन विरचितमिति किंवदन्ती । परन्तु तस्य ग्रन्थस्य काण्डपुष्पिकासु श्री विदर्भराजविरचिते चम्पूरामायण इत्यादि कथ्यते। सुप्रसिद्धो परमारवंशजो भोजराजः शृङ्गारप्रकाशदिग्रन्थकर्ता मालवराज्यशासक आसीत्। मालवविदर्भौ भिन्नदेशौ। पुराणविदर्भदेश आधुनिकमहाराष्ट्रे विन्ध्यगिरर्दक्षिणतो वर्तते। पुराणमालवराज्यं विन्ध्यदुत्तरत्र आसीत्। अतः भोजराजाख्यो चम्पूरामायणकर्ता धारानगरराजाद्विविच्यः । चम्पूविरचयिता । भोजदेशश्च विदर्भदेशस्यापरनामासीत् । प्रवरसेनो भोजदेव इति केचिदिति सेतुबन्धप्राकृतकाव्ये रामदासकृतव्याख्यान उक्तम्। अस्ति चम्पूरामायणकर्ता वाकटकवंशजः प्रवरसेनः ? प्रतीहारराज्यावयव आसीत्। अतः प्रवरसेनो भोजराज इत्यपरनामा चम्पूरामायणकर्तेति वरपक्ष इति भाति। आर्षश्रीमद्रामायणवाल्मीकीयादिकाव्यमधिकृत्य स महाकविः “गद्यानुबन्धरसमिश्रितपद्यसूक्ति” निरूपितं चम्पूप्रबन्धं व्यरचयत्। तत्र वैष्णवः परमविभवो निरूप्यते। रावणदुष्टप्रतापदाहाकुलिता इन्द्रप्रमुखा गीर्वाणा महाविष्णुरेव शरणमिति निर्णयं कृत्वा क्षीरसागरमासाद्य नारायणं ददृशुः।
सन्तापघ्नं सकलजगतां शाङ्र्गचापाभिरामं लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम्।
वैकुण्ठाख्यं मुनिजनमनश्चातकानां शरण्यं कारुण्यापं त्रिदशपरिषत्कालमेघं ददर्श।।
त्रिदशपरिषत् सुमनःसङ्घो वैकुण्ठाख्यं विष्णुनामधरं देवं कालमेघं नीलाम्बुदं ददर्श इत्यन्वयः। अत्र रूपकम्। वैकुण्ठो विषयः कालमेघो विषयी। उभावेकैकविशेषणेन विशेषितौ। वैकुण्ठः श्रीदेव्या शोभतेतरां कालमेघ विद्युद्भिरुल्लसति। वैकुण्ठः शार्ङ्घधनुषा राजते मेघ इन्द्रचापेन। वैकुण्ठः श्रीदेव्या शोभतेतरां कालमेघ विद्युद्भिरुल्लसति। वैकुण्ठः श्यामः कालमेघो नीलः। मुनिजना स्वहृदयपद्मे चिदाकाशे वैकुण्ठं भावयन्तिचातकाः कालमेघात् पृथिव्यामपतितं तोयं पातुमिच्छन्ति। अतो वैकुण्ठो मुनीनां कालमेघश्चातकानाम्। इत्थं रूपकपरंपरा सकलसहृदयमनांसि कर्षति।
पटभूमिका
[सम्पादयतु]वाल्मीकिरामायणम् अस्य काव्यस्य आधारभूतम् । भोजः अस्मिन् काव्ये अनेकवारं वाल्मीकेः पद्यानां पदगुम्फान् एव रमणीयशब्दार्थरचनावैदग्धीम् अनपहाय यथावत् स्वीकृतवान् च । चम्पूरामायणे प्रतिकाण्डानाम् आदिमपद्यानि रामायणस्य तत्तत् काण्डारम्भपदैरेव आरभ्यते । "मङ्गलादीनि मङ्गलान्तानि च काव्यानि श्रूयन्ते" इति न्यायेन कविः "चम्पूरामायणे" गणेशस्तुतिपरकं मङ्गलमाचरति, यथा-
- लक्ष्मीं तनोतु नितरामितरानपेक्षम्, अङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम् ।
- हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नम्, विघ्नाद्रिभेदशतधारधुरंधरं नः ॥ इति ।
भोजराजस्य शैल्याः मधुरिमाणं को वा न जानाति काव्यरसिकः? । अनुस्मरणे, उदाहरणे, कण्ठस्थीकरणे च चम्पूरामायणस्य पद्यानि अनन्यसदृशानि विराजन्ति । यथा बालकाण्डे पायसदानसन्दर्भे -
- कौसल्यायै प्रथममदिशद् भूपतिः पायसार्धम्, प्रादादर्धं प्रणयमधुरं केकयेन्द्रस्य पुत्र्यै ।
- एते देव्यौ तरलमनसः पत्युरालोच्य भावम्, स्वार्धांशाभ्यां स्वयमकुरुतां पूर्णकामां सुमित्राम् ॥
पुत्रकामेन यज्ञकर्त्रे दशरथाय यज्ञदेवता पायसं ददाति । तिसृणामपि पत्नीनां कृते समभागं पायसं व्यतरत् इति सामान्यतया वक्तव्ये कविः एतस्मिन् पद्ये तासां दशरथमहिषीणां मध्ये विद्यमानां परस्परां प्रीतिम्, पतिप्रणयं च सालङ्कारं मनोज्ञतया वर्णयन् सचेतसां हृदये पदं निधत्ते । तथैव दशरथमहिषी गर्भवती इति स्पष्टतया कथं ज्ञायते ? इति चेत् श्रूयतां कविवाणी -
- मन्दमन्दमपयद्वलित्रया गाधताऽविषयनाभिगह्वरा ।
- कोसलेन्द्रदुहितुः शनैरभूत्, मध्ययष्टिरपि दृष्टिगोचरा ॥
भोजराजः ज्योतिश्शास्त्रम् अपि ज्ञातवानासीत् । यतः बालकाण्डे रामजननमुहूर्तं रामस्य जातकं च तत्कालीनग्रहस्थित्या सह हृदयङ्गमरीत्या निरूपितं भोजराजेन, यथा-
- उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ, लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि ।
- निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेः, आविर्भूतमभूतपूर्वमपरं यत्किञ्चिदेकं महः ॥
अपूर्णम् अपि पूर्णम्
[सम्पादयतु]चम्पूरामायणम् सुन्दरकाण्डपर्यन्तमात्रम् लभ्यते । बहुशः भोजराजेन तावन्मात्रं विलिखितम् । अथवा दुरदृष्टतया अस्माभिः लब्धम् एतावदेव स्यात् । ततः अर्वाचीनैः लक्ष्मणसूरि-वेङ्कटाध्वरि-राजचूडामणिदीक्षितप्रभृतिभिः भोजराजशैलीमनुकुर्वद्भिः चम्पूरामायणस्य युद्धकाण्डम् विरचितम् ।
व्याख्यानानि
[सम्पादयतु]चम्पूरामायणस्य व्याख्यानकाराः अनेके सन्ति । तथापि तेषु रामचन्द्रः, नारायणः, मानदेवः, घनश्यामः इत्येते प्रमुखाः । एतेषां व्याख्यानानि भोजराजस्य वचसां भावान् चारुतया विशदयितुं सक्षमानि वर्तन्ते ।