त्रिविक्रमभट्टः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
त्रिविक्रमः भट्टः
जननम् दशमशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः संस्कृतसाहित्यक्षेत्रे सभङ्गश्लेषशैल्या चम्पूकाव्यलेखनम्
विषयाः चम्पूकाव्यम्
प्रमुखकृतयः नलचम्पूः, मदालसाचम्पूः

त्रिविक्रमः भट्टः ( /ˈtrɪvɪkrəməbhəttəh/) (हिन्दी: त्रिविक्रम भट्ट, आङ्ग्ल: Trivikram Bhatta) नलचम्पूकाव्यस्य, मदालसाचम्पूकाव्यस्य च रचयिता अस्ति । त्रिविक्रमभट्टः सिंहादित्य-नाम्ना अपि प्रसिद्धः वर्तते । उपलब्धेषु चम्पूकाव्येषु नलचम्पूः उत दमयन्तीकथा साहित्यिकदृष्ट्या प्रप्रथमं, महत्त्वपूर्णं च साहित्यम् अस्ति । त्रिविक्रभट्टः प्रौढकविः आसीत् । अतः तस्य रचनायाम् अपि पौढशैल्याः दर्शनं भवति । क्रियापदानां वैविध्यं, शब्दरूपाणां विशिष्टप्रयोगः तस्य रचनासु दृष्टुं शक्यते ।

जन्म, कालश्च[सम्पादयतु]

कविवरस्य त्रिविक्रमस्य जन्म शाण्डिल्यगोत्रीयस्य कर्मनिष्ठब्राह्मणस्य गृहे अभवत् । त्रिविक्रमस्य पिता नेमादित्यः आसीत् । सः देवादित्यनाम्ना अपि प्रसिद्धः आसीत् । देवादित्यस्य पिता श्रीधरः बभूव । त्रिविक्रमकृते चम्पूकाव्ये तस्य विषये प्रमाणानि प्राप्यन्ते ।

क्रतुक्रियाकाण्ड शौण्डस्य शाण्डिल्यनाम्नो महर्षेर्वंशः । (नल च. प्र. उ.)
तेषां वंशे विशदयशसां श्रीधरस्यात्मजोऽभूद्-
 देवादित्यः स्वमतिविकसद्वेदविद्याविवेकः ।
उत्कल्लोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धुं
 यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबन्ति ।। नल च. प्र. उ १९ ।।
तैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् ।
तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः ।। नल च. प्र. उ. २० ।।

त्रिविक्रमस्य कालः राष्ट्रकूटवंशीयस्य राज्ञः इन्द्रराजस्य समकालः परिगण्यते । यतो हि उभयोः सम्बन्धविषये अनेकानि प्रमाणानि प्राप्यन्ते ।

इन्द्रराजस्य राजपण्डितः[सम्पादयतु]

गुजरातराज्यस्य नवसारी-मण्डले प्राप्तेषु ताम्रपत्रेषु इन्द्रराजस्य राज्याभिषेकसम्बद्धा रचना अङ्किता वर्तते । तस्य ताम्रपत्रस्यानुसारं कृष्णगङ्गानद्याः सङ्गमे स्थिते कुरूण्डक-ग्रामे ९७२ तमस्य विक्रमसंवत्सरस्य फाल्गुनमासस्य शुक्लपक्षस्य सप्तम्यां तिथौ इन्द्रराजस्य राज्याभिषेकः अभवत् । सः राजा भाग्यनगरस्य अधिपतिः आसीत् । राज्याभिषकत्वे इन्द्रराज्ञा विविधानि दानानि कृतानि, तथा च अनेकानि पुण्यकर्माणि कृतानि । अतः राज्ञः प्रशस्तिः नेमादित्यपुत्रेण त्रिविक्रमभट्टेन लिखिता । सा प्रशस्तिः ९१५-१६ ई. मध्ये लिखिता वर्तते । गुजरातराज्यस्य ताम्रपत्रे उल्लिखितं वर्तते यत्,

श्रीत्रिविक्रमभट्टेन नेमादित्यस्य सूनूना ।
कृताशस्ता प्रशस्तेयम्, इन्द्रराजांघ्रिसेविना ।।

नलचम्प्वाः षष्ठमोच्छवासस्य उक्तः श्लोकः भोजराजकृते सरस्वतीकण्ठाभरणे अपि उद्धृतः वर्तते । तेन ज्ञायते यत्, त्रिविक्रमभट्टस्य कालः भोजराज्ञः प्राक् आसीत् इति । यतो हि भोजराज्ञः कालः १०१५-१०५५ मन्यते ।

रचनाः[सम्पादयतु]

नलचम्पूः[सम्पादयतु]

नलचम्पूः इत्याख्यः ग्रन्थः दमयन्तीकथा इति नाम्नापि प्रख्यातः अस्ति । अद्यावधौ उपलब्धेषु सर्वेषु चम्पूकाव्येषु नलचम्प्वाः अतिप्रसिद्धिः वर्तते । महाभारतस्य वनपर्वणि नलदमयन्त्योः कथायाः सुन्दरम् आख्यानं वर्तते । महाभारतस्य तस्य आख्यानस्य आधारेणैव परवर्तिनः कवयः स्वग्रन्थस्य रचनाञ्चक्रुः । कविवरः श्रीत्रिविक्रमः स्वस्य सभङ्गश्लेषात्मकशैल्यां महाभारतस्य वनपर्वणि उल्लिखितस्य नलदमयन्त्योः आख्यनम् एव चम्पूकाव्यत्वेन उपास्थापयत् । नलचम्पूः साहित्यिकदृष्ट्या सर्वोत्तमरचना तु अस्त्येव, तेन सह कथानकम् अपि अत्यन्तं लोकप्रियं वर्तते ।

मदालसाचम्पूः[सम्पादयतु]

मदालसाचम्पूकाव्यम् एका प्रणयगाथा अस्ति । तस्याः गाथायाः नायकस्य नाम कुवलयाश्वः, नायिकायाः नाम मदालसा अस्ति । मार्कण्डेयपुराणस्य अष्टादशाध्यायात् एकविंशाध्यायपर्यन्तं तयोः प्रणयलीलायाः वर्णनं प्राप्यते [१] । मदालसाचम्प्वाः मुख्यपटकथायाः विषयाः कुवलयाश्वचरितं, पातालकेतोः वधं, मदालसापरिणयः, मदालसावियोगः, कुवलयाश्वस्य नागराजस्य गृहगमनं, मदालसायाः पुनःप्राप्तिश्च सन्ति ।

किंवदन्ती[सम्पादयतु]

कस्मँश्चित् ग्रामे नेमादित्यनामकः कश्चित् वेदविद्याविवेकी शास्त्रार्थतत्त्वज्ञः राजपण्डितः निवसति स्म । तस्य कश्चित् जडबुद्धिः, महामूर्खः पुत्रः आसीत् । तस्य नाम त्रिविक्रमः इति । एकदा नेमादित्यः कार्यवशात् समीपस्थं ग्रामम् अगच्छत् । तस्मिन्नेव काले राज्यस्य विद्वत्सभायाम् कश्चित् पण्डितः सम्प्राप्तः । तस्य पण्डितस्य आग्रहः आसीत् यत्, राज्यस्य राजपण्डितः तेन सह शास्त्रार्थं कुर्यात् उत राजा तस्मै पण्डिताय विजयपत्रं दद्यात् इति । राजपण्डितम् आह्वातुं राजा सपद्येव नेमादित्यस्य गृहं राजदूतं प्रैषयत् । दूतः राजपण्डितस्य गृहात् बहिः गमनस्य समाचारं राजानम् अकथयत् । ततः राजपण्डितस्य अनुपस्थितौ राजा नेमादित्यस्य पुत्रमेव शास्त्रार्थाय आह्वयत् । तस्यां विकटस्थित्यां त्रिविक्रमः कुलदेव्याः सरस्वत्याः स्तुतिम् अकरोत् । त्रिवक्रमस्य स्तुत्या प्रसन्ना सरस्वतीदेवी त्रिविक्रमाय वरम् अयच्छत् यत्, "यावत् तव पिता राज्यं प्रति नागमिष्ययति, तावत् अहं तव मुखे वासं करिष्ये" इति । सरस्वतीदेव्याः आशीर्वादेन त्रिविक्रमः शास्त्रार्थे विजयी अभवत् । सः राज्ञः राजपुरस्कारम् अपि प्रापत् । ततः सः स्वगृहं गत्वा नलचम्पूकाव्यस्य रचनां प्रारभत । परन्तु अपरत्र तस्य पिता अपि राज्ये समायातः । यावत् तस्य पिता प्रत्यागतः, तावत् नलचम्पूकाव्यस्य सप्तोल्लासानां रचना अभवत् । यदा त्रिविक्रमस्य पिता गृहं प्रत्यागच्छत्, तदा सरस्वतीदेव्याः वरानुसारं सरस्वतीदेवी त्रिविक्रमस्य मुखात् निरगच्छत् । एवं नलचम्प्वाः रचना सप्तमोल्लासपर्यन्ता एवाभवत्[२]

सम्बद्धाः लेखाः[सम्पादयतु]

नलचम्पूः

नलः

दमयन्ती

मदालसाचम्पूः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. http://www.ebookpublisher.in/final%20book/markendipuran/files/assets/basic-html/page1.html
  2. नलचम्पूः, चौखम्बा प्रकाशन भारती

अधिकवाचनाय[सम्पादयतु]

नलचम्पूः

मध्यप्रदेश सम्पूर्ण अध्ययन

श्लेषालङ्कारसिद्धान्तः

विश्वसूक्तिकोषः

"https://sa.wikipedia.org/w/index.php?title=त्रिविक्रमभट्टः&oldid=361278" इत्यस्माद् पुनः प्राप्तिः